________________
मध्यमोत्सूत्रिनिदर्शनम्
१०६ स्थिरता स्यात् । अयमत्र भावः-चन्द्रप्रभसूरिणा प्रथमत आकृष्टं मतं कोऽपि नाद्रियते, ततो न सर्वजनप्रसिद्धं स्यात् । अतस्तदङ्गीकारकारकाणामेक एष प्रवृत्तिदोषः। प्राच्या:-चन्द्रप्रभसूर्याद्यास्तेष्वाऽऽग्रहस्तस्मात्। यदहमात्मीयानां पूर्वपूरुषाणां कृतं प्रमाणीकरिष्याम्येवेति द्वितीयो दोषः । इतिदोषद्वयपुष्टितश्चन्द्रप्रभसूरेः पार्वात्तव गाढतरमुत्सूत्रं बभूव । उक्तलक्षणोऽपि निह्नवः कतिभेदो भवतीति दर्शयति-'सोप्यनेकभिद्' सोऽपि द्विधाऽपि स्थिरोत्सूत्री प्ररूपणाभेदतोऽनेकभिद् बहुप्रकारो भवतीत्यर्थः ।
अथानन्तरोक्तमेव वार्त्तमानिकापत्यप्रसिद्धैकोत्सूत्रद्वारा नामतः स्पष्टयन् श्लोकद्वयीमाहस्त्रीमुक्त्यवाक् १ च राकाङ्कः २, स्त्रीजिना रि३रश्चलः। सार्द्धराकारतश्चेति, षष्ठः त्रिस्तुतिको मतः ६ ॥११॥ गुरुतन्यप्रदीपोक्ताः, षडेतेऽथ चतुष्टयी। चैत्यद्विड् ७ गुबेङ ८ मिश्रो ६,
जिनार्चानुपदेशवाक १० ॥१२॥ व्याख्या-स्त्रीणां मुक्तिरित्यर्थाभिधायिका न विद्यते वागवाणी यस्य स स्त्रीमुक्त्यवाक्-दिगम्बर इत्यर्थः। तन्मते स्त्रीणां मुक्तेनिषिद्धत्वात् । चकारः समुच्चयार्थः सर्वत्राऽपि योज्यः। राका-पूर्णिमा, सैव पाक्षिकत्वाभिमतत्वेनाऽङ्क-चिह्न, यस्य स राकाङ्क:-पूर्णिमीयक इत्यर्थः।