________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
श्रीरणसिंह
चरित्रम्
रणे श्रीरणसिंहेन, सिंहेनेव तरस्विना । मदोत्कटाऽखिलक्ष्मापा, स्वासिता मार्गवत्तदा ॥ १७० ॥ तादृशं साहसं तस्य, तादृशं च पराक्रमम् । अद्भुतं चरितं वीक्ष्य, विस्मितः कनकेश्वरः ॥ १७१ ॥ देवो वा दानवो वा किमु रतिरमणः १ किं कुबेरो नलो वा ?,
किं वा विद्याधरोऽसौ ? किमु पवनसुतः १ किं नरो वा हरो वा ? किं यक्षो राक्षसो वा ! त्रिदशपतिरिपुर्मानवो वा गुहो वा ?,
युद्धक्रीडा प्रकत दशरथतनयो रावणो वा रणाग्रे ? ॥ १७२ ॥ ततश्च सरसेनाद्याः, प्रजल्पन्ति परस्परम् । प्रणष्यः कुत्र यास्याम,-एतस्मादग्रतो वयम् ॥ १७३ ॥ शूच्यभेद्यमपि ध्वान्तं, जगदालोक नाशनम् । उदयाचलचलायां, प्राप्तऽके कुत्र तिष्ठति ॥ १७४ ।। ततस्तस्यैव पादाब्जं, शरणी क्रियते यदि । सुखेन स्थीयते तर्हि, सराज्यधनवन्धुभिः ॥ १७५ ॥ सर्वोवीशा विमृश्यैवं, प्रणेमुस्तत्पदाम्बुजम् । एवं विज्ञपयामासू.- रक्ष रक्ष भयात् प्रभोः ॥ १७६ ॥ स्वामिन्नज्ञानभावेन, मानाद्वाऽस्मद्विचेष्टिमम् । कृत्वा प्रसादं तत्सर्व, क्षन्तव्यं क्षेमकारिणा ॥ १७७ ॥
॥१८॥
For Private and Personal Use Only