________________
Shri Mahavir Jain Aradhana Kendra
श्रीरणसिंह
www.kobatirth.org
आकृत्या शौर्यवृत्या च, ज्ञात्वा जातिकुलादिकम् । चण्डसूरादयः सर्वे, जहषु : कनकेश्वराः ॥ १७८ ॥ तथापि ज्ञीप्सुना राज्ञा, कनकेन कुलादिकम् । दिवि भोगस्तथा चक्रे, यथा यक्षः प्रकट्यभूत् ॥ १७६ ॥ तेन सिंह कथा प्रोक्ता, सर्वा श्रीकनकेशितुः । आजन्मानो यत्र यावत् समानायि मया विभो १ ॥ १८० ॥ विख्यातोऽयं सुतः श्रीमान्, विजयाविजयसेनयोः । न हालिको ऽजयादेव्या, चेष्टितं च प्रकाशितम् ॥ १८१ ॥ विजया-विजयसेन–राड्भ्यां पुत्रवियोगतः । जात-वैराग्यरङ्गाभ्यां जगृहे व्रतमुत्तमम् ।। १८२ ॥ इत्यादि राजलोकानां प्रत्यक्षं च प्रकाश्य ताम् । आमूलचूलतो वार्त्ता, यक्षराजस्तिरोदधे ॥ १८३ ॥ ततः समक्षं लोकानां वर सेनादिभूभृताम् । चित्तचमत्कार करं, गीतवाद्यजयोदितम् ॥ १८४ ॥ शुभे शुभः च तयोर्वीवाहमङ्गलम् । समृद्ध या कारयामास, राजा कनकशेखरः ।। १८५ ॥ युग्मम् । सुवर्ण प्रन रत्नाश्व, - मत्तमातङ्ग सम्पदा । राज्यार्द्ध च ददौ तस्मै, प्रस्तावे पाणि पीडने || १८६ ॥ तदा च सर्वे भूशक्रा, स्तस्य राज्याभिषेचनन् । सुरेन्द्रस्येव देवौधा, ---हर्षोत्कर्षाद्वितेनिरे ॥ १८७ ॥ अथातः परमस्माकं त्रायको नायको भवान् । शिरोमणिरिवाज्ञां ते, बहामो मूर्द्धिन देववत् ॥ १८८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
WEEEEE
चरित्रम्
॥ १६ ॥