________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
हालिकः प्राह भीभूपाः ! कुलप्रश्नस्य साम्प्रतम् । न चैवावसरः कोऽपि, प्रोक्तऽथ प्रत्ययोऽपि न ॥१५६ ॥ अथाऽऽहवव्यूह एव, कुलाद्याविःकरिष्यति । यथोदयो दिनेशस्य, ज्ञापयत्यपरः कथम् १ ॥ १६० ।। प्रवृत्ता लब्धचैतन्या,-योद्धारो योद्ध माहवे । मुष्टामुष्टि दण्डादण्डि, खङ्गाखङ्गि तथैव च ॥ १६१ ॥ तत्पक्षपातिनो ये तु, हन्तन्यास्तेऽपि निश्चितम् । विशेषतस्तं हलिनं, तमुद्दिश्या भिजग्मिरे ।। १६२ ।। स्मृतेष्टदेवः सिंहऽपि, सोत्साहः समभूद् युधि । मन्यमानस्तृणानीव, राजचक्राणि चेतसि ॥ १६३ ॥ भल्लवावल्लसेल्लौघ,-बाणनाराचमुद्ररैः। ते निम्नन्ति प्रयत्नेन, तस्याङ्ग नो लगत्यहो ! ॥ १६४ ॥ यक्षेण कृतसानिध्यः, सोऽप्यधाविष्ट तान् प्रति । दिशोदिशं प्रणेशुस्ते, लकुटाहतकाकवत् ॥ १६५ ॥ वज्रपाणिरिवाजेयः, पशुपाणिर्मदोद्धरः । एकाक्यप्यहितैः सिंहो, लक्ष्यते लक्षरूपभृत् ॥ १६६ ॥ वैरिवर्गप्रयुक्तानि, दुई राण्यपि तं प्रति । विद्यायुक्तान्यमोघानि, दिव्यशस्त्राणि तत्पुरः ॥ १६७ ॥ तूलतुल्यानि सर्वाणि, यक्षिरे यक्षशक्तितः । सिंहप्रयुक्तमस्त्रक, पर्वाख्यं लक्षघातकम् ॥ १६८ ॥ प्रचण्ड-चण्डसिंहादीन्, ज्वल्लज्ज्वलन संनिभान् । वातेरितरजांसीवा--ऽशीशमत्स हलाम्बुदैः ॥ १६६ ॥
RANSLEE
॥१७॥
For Private and Personal Use Only