________________
9
ति । अम्बार्थानां द्विस्वरविशेषणं किम् । हे अम्बाडे । हे अम्बाले । हे अम्बिके । आप इत्येव । हे मातः ॥ ४३ ॥ * अदेतः स्थमोर्लुक् । १ । ४ । ४४ ॥ अकारान्तादेकारान्ताच्चामन्त्र्येऽर्थे वर्तमानात्परस्य सेस्तदादेशस्यामश्च लुग्भवति । हे श्रमण | हे संयत । अम्, हे वन । हे धन | हे उपकुम्भ || हे अति । परमश्चासाविश्व, हे परमे । हे से। अदेत इति किम् । हे गौ । हे नौः । हे परमौः । *स्यादेशत्वेनैवामोऽपि लुचि सिद्धायां पृथग्वचनमन्यस्यादेशस्य लुगभावार्थम् । तेन हे कतरदित्यादौ लुग्न भवति ॥ ४४ ॥ * दीर्घड्या व्यञ्जनात्तेः । १ । ४ । ४५ ॥ दोर्घाभ्यां यान्भ्यां व्यञ्जनाच्च परस्य सेर्लुग् भवति । ङी, गौरी । कुमारी । बहूव्यः श्रेयस्यो यस्य स बहुश्रेयसी चैत्रः । एवं बहुप्रेयसी । खरकुटीव खरकुटी ब्राह्मणः । कुमारीवाचरति किप् लुक् किप् कुमारी ब्राह्मणः । आप्, खट्वा । बहुराजा । व्यञ्जन, राजा । तक्षा । हे राजन् । एभ्य इति किम् । वृक्षः । उयावग्रहणं किम् । लक्ष्मीः । तन्त्रीः । ग्रामणीः । कीलालपाः । दीर्घग्रहणं किम् । निष्काशाम्बिः । अतिखट्वः । नपुंसकेषु परत्वात् ' अनतो लुप् ' (१ । ४ । ५९ ) इति लुवेव । तेन यत्कुलं तत्कुलमिति सिद्धम् । 'पदस्य ' ( २ । २ । ८९) इति सिद्धे व्यञ्जनग्रहणं राजेत्यादौ सिलोपार्थम् । अन्यथा सावपि पदत्वात् 'पदस्य ' इति च परेऽसत्त्वात्पूर्वं नलोपे सेर्लुप्, उखास्रदित्यादौ संयोगस्यादौ स्कोलुकि *दत्तं च न स्यात् ॥ ४५ ॥ *समानादमोऽतः । १ । ४ । ४६ ॥ समानात्परस्यामोऽकारस्य लुग्भवति । वृक्षम् । खदवाम् । मुनिम्। साधुम्। बुद्धिम्। धेनुम्। नदीम् । वधूम् । पितरमित्यादिषु विशेषविधानात्मथममेवार् । समानादिति किम् । रायम् । नावम् । अम इति किम् । नद्यः । स्यादेरिति किम् । *अचिभवम् ॥४६॥ *दीर्घो नाम्यतिसृचतसृपः । १ । ४ । ४७ ॥ तिसृचतसृपकाररेफान्तवर्जितशब्दसंवन्धिनः पूर्वस्य समानस्यामादेशे नामि परे दीर्घो भवति । श्रमणानाम् । मुनीनाम् । साधूनाम् । बुद्धीनाम् । धेनूनाम् । वारीणाम् । त्रपूणाम् । पितॄणाम् । मातॄणाम् । कर्तॄणाम् । अतिसृचतसृप् इति किम् । तिसृणाम् । चतसृणाम् । पण्णाम् । चतुर्णाम् । *अप् इति प्रतिषेधेन नकारेण व्यवहितेऽपि नामि दीर्घो ज्ञाप्यते । पञ्चानाम् । सप्तानाम् । नामीति किम् । चर्मणाम् । स्यादावित्येव दधिनाम । निपातनात् भ्राम्यतेर्ध्रु । शोभन श्रु भ्रमण यस्या । सुधुशब्दात् भीरध्वनैश्च जातित्वाद् । परस्य विकल्पेन दित्त्वात हे सुश्रू हे भीरो प्राप्तमित्यभिप्राय । अम्बामडतीति लिहादित्वादच् । अम्बा लातीति 'आत डोकावाम' इति प्रत्यय । अम्बते णकचौक आप् । अस्यायत्तदिति इकार ॥ - अदेत - ॥ आमन्त्र्य इति वर्तते । तत्र च स्यादेश एवम् सभवतीत्याह - स्यादेशेति ॥ हे | कतरदिति । नतु अमुग्रहणस्य अन्यदपि फल कस्मान्न भवति । यथा कुम्भस्य समीपानि उपकुम्भमित्यत्र लुगर्थम् । नैवम् । सिसाहचर्यादेकवचनस्यामो ग्रहण न पहुवचनस्थानस्य ॥ - दीर्घ- ॥ कुमारी ब्राह्मण इत्यत्र नैषा विवादीना डीस्योर्व्यवधायकत्व स्थानित्वम् । यत स्थान्याश्रये वृद्ध्यादिके कार्ये कर्तव्ये स्थानित्वम् न तु व्यवधायकत्वे । न हि व्यवधायकत्व कार्य नाम अपि तु वृद्ध्यादीनि कार्याणि इति । एवमच्यौवमित्यादिषु सिचो लोपस्य ढत्वे कर्तव्ये न स्थानिस्वम् ॥ दत्व चेति । सौ परे लुक पूर्व दत्व प्राप्नोतीति न वाच्यम् । परे लुकि 'ससूक्ष्वस् ' - इति सूत्रस्यासिद्धत्वात् ॥ 1-समाना ॥ अचिनवमिति । न च वाच्य परत्वान्नित्यत्वाच्च गुणेन भाव्यमिति प्राप्तौ सत्या हि परत्व नित्यत्व च चिन्त्यते इति ॥ - दीर्घो नाम्य ॥ - आमादेश इति । स्याद्यधिकारादामादेश एव गृह्यतेऽत इदमुक्तम् ॥ अपू इति । ननु षकारेफाभ्या व्यवधानादेव न भविष्यति दीर्घ कि पूवर्जनेन इत्याह- नकारेणेति । अन्यव्यञ्जनेन तु असभव इति ॥ शसोडता ॥ समानस्येनि ।