SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तो डुर् ॥१॥४॥३७॥ ऋकारात्परयोईसिङमोः स्थाने हुर् इत्ययमादेशो भवति । पितुः। पितुः। मातुः। मातुः। ङसिङस इत्येव । पितॄन् । ऋत इति किम्। ग्रः॥३७॥ तृस्वसुनप्तृनेष्टुत्वष्टक्षत्तृहोतृपोतृप्रशास्त्रो घुट्यार् १ ॥ ४ ॥ ३८ ॥ तृत॒न्पत्ययान्तस्य स्वस्रादिशब्दानां च संवन्धिन ऋकारस्य स्थाने तत्संवन्धिन्य* न्यसंवन्धिनि वा धुटि परे आर् इत्ययमादेशो भवति । कर्तारम् । कर्तारौ२ । कर्तारः कटस्य । वदितारम् । वदितारौ । बदितारौ । वदितारः, जनापवादान् । स्व* सारम् । स्वसारौ । स्वसारौ । स्वसारः । नप्तारम् । नप्तारौ । नप्तारी नप्तारः । नेष्टारम् । नेप्टारौ । नेप्टारौ । नेष्टारः । त्वष्टारम् । त्वष्टारौं । त्वष्टारौ । त्वष्टारः । क्षत्तारम् । क्षत्तारौ । क्षत्तारौ । क्षत्तारः । होतारम् । होतारौ । होतारौ । होतारः। पोतारम् । पोतारौ। पोतारौ। पोतारः। प्रशास्तारम् । प्रशास्तारौ। प्रशास्तारौ। प्रशास्तारः। *अतिकर्तारम् । अतिकर्तारौ । अतिकर्तारौ । अतिकर्तारः । घुटीति किम् । कर्तृ कुलं पश्य । सौ तु परत्वात् डागुणौ । कर्ना । हे कर्तः। तृशब्दस्यार्थवितो ग्रहणेन प्रत्ययग्रहणान्नवादीनामव्युत्पन्नानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं न भवतीति तेषां पृथगुपादानम् । इदमेव च ज्ञापकम् 'अर्थवद्हणे नानथर्कस्य । * ग्रहणं नवतीति । व्युत्पत्तिपक्षे तु तृग्रहणेनैव सिद्धे नत्रादिग्रहणं नियमार्थम् । तेनान्येषामौणादिकानां न भवति । पितरौ। भ्रातरौ । मातरौ । जामातरौ॥ *केचि तु प्रस्तोत्रुन्नेत्रुद्गातृप्रतिहतृप्रतिस्थातृशब्दानामौणादिकानामप्यारं मन्यते । प्रस्तोतारम् । प्रस्तोतारौ । प्रस्तोतारौ । प्रस्तोतारः। इत्यादि ।। ३८ ॥ *अयै च । १ ४। ३९ ॥ ऋकारस्य स्थाने *डौ घुटि च परेऽर् इत्ययमादेशो भवति । पितरि । पितरम् । पितरौ २ । पितरः। मातरि । मातरम् । मातरौ २ । मातरः । डौ चेति किम् । पित्रा । मात्रा । *कर्तृणि कुले, कर्तृणि कुलानीत्यत्र तु परत्वात्पूर्व न एव । तस्मिंस्तु सति व्यवधानान्न नवति । ऋत इत्येव । ग्रि ॥ ३९ ॥ *मातुर्मातः पुत्रेऽहें सिनामन्त्र्ये । ११४॥४०॥ मातृशब्दस्यामन्व्ये पुत्रे वर्तमानस्य *सामर्थ्याद्वहुव्रीही समासे सिना सह मात इत्यकारान्त आदेशो भवति, विधिरनित्य । यद्वा, काविति सूत्रकरणात् किविचौर्यजनकार्यमनित्यम् । न च वाच्य कथ विच्यपि व्यजनकार्यानित्यता । यतोऽप्रयोगिनामुपलक्षण क्विप् ॥-तो डर । ऋकारोपदिष्ट लकारस्थापि तेन ऋफिडादिलत्वम् । कुल् लकार । यदाह उपाध्याय आप्लु इत्येतस्मात् पष्ठयामापुल् इत्येव भवति ॥ तृस्वस- ॥ सूत्रत्वादनाम् स्वरे इति न । सूत्रे ऋकारोपादानादा। कथमिति चेत् प्रशास्तृणा ऋ प्रशास्तु तस्य ॥-अतिकतारमिति । अत्र तत्पुरुषो न बहुव्रीहि कच्प्रसगात् तेन च व्यवधानेन प्राप्वभावात् । नन्वत्र सूत्रे शी निमित्ते कि न दर्शितम् । स्वराच्छाविति नागमेनत व्यवधानान प्राप्नोतीति चेन्न । नागम प्रकृतेरेवाश इति । सत्यम् । अवयवेनावयवस्य ऋलक्षणस्य व्यवधान भवतीति न दर्शितम् । सुष्टु अस्यति क्षिपति भ्रातुरमाइल्यमिति स्वसा सोरसे , नमति पूर्वजेभ्य इति नहा नमे पच, नयति प्राप्नोति वेदशाखाम् इति नेष्टा निय पादि प्रत्यय । विपी दीप्तौ । त्वेपते दीप्तो भवति स्वनिर्माणनैपुणेनेति त्वष्टा । क्षद् खदने इति सौत्र । क्षत्ता । 'त्वष्टक्षत्तदुहित्रादय' इत्यनेन निपात । जुहोति बीह्यादिकान् , पुनाति आत्मान वेदपाठेन 'हुपूगानीप्रस्तु' इत्यादिना होता पोता । प्रशास्ति दिशति शस्त्राणि इति प्रशास्ता। 'शासिशसिनी' इत्यादिना त प्रत्यय । जायत इति जा पुत्री ‘कचित् ' प्रत्यय । जा मिनोति जाया मिगस्तप्रत्यय । 'मिग्मीग '--इत्याकार ॥-केचित्त्विति । भोजप्रभृतय ॥-अौं च॥-डी घुटि चेति।* अन निमित्तात्पर श्रूयमाणथकारो निमित्तान्तरसव्यपेक्ष , प्रत्यासत्तेरनन्तरसूत्रोपात्तमेव निमित्तमुपस्थापयति ।-कर्तृणि कुले इति । पितरि वारिणीत्वादावुभयो सावकाशत्वेन परत्वान्नागमे रुकारान्तत्वा-2 भावान्न भरतीति ॥-मातुर्मात - ॥ ननु कथ मातशब्दस्य पुत्रार्थे वृत्ति नासी पुत्रार्थे वर्तमान क्वचिदृष्ट इत्याह-सामर्थ्यादिति । अयमर्थ , केवलो न वर्तते बहुप्रीझे तु स्वार्थोपसर्जनत ikkYXXXEKXYYYYYAZAVLCascoverswwwwwww
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy