________________
SAR
श्रीहेमश० १४ दिति प्रतिपेनिटत्यर्थम् । अथ ऋतः प्रतिषेधे लुकारस्य का प्रसङ्गः । उच्यते । इदमेव ज्ञापकमृवर्णग्रहणे लवर्णस्यापि ग्रहणं भवतीति । तेनाचीकलपदित्यादौ । स०अ०१० ॥१७॥ अवर्णकार्यम् लवर्णस्यापि सिद्धं भवति । अनूदिति किम् । कृष्णमि ३३ । कृष्णमित्र ३॥ अदिति गुरुविशिष्यते न स्वरेष्वन्त्यस्तेनेहापि भवति । आगच्छ
भोः क श आगच्छ भोः कर्त । वाक्यस्प स्वरेष्वन्त्यः प्लुत इसनवृत्तरिह न भवति । देवदत्त अहो आगच्छ । अभिपूजितेऽपि दुरादाम व्यस्यैव प्लुत इष्यते इति अभिपूजिते चेति नारम्भणीयम् । शोभनः खल्वसि माणवक ३। शोभनः खल्वसि माणवक ॥ ९९ ॥ हेहैष्वेषामेव ॥ ७ । ४ । १०० ॥ दूरादामध्यस्य संवन्धिनौ यौ हे शब्दो कौ च तौ यौ तदामन्त्रणे वर्तते तयोः प्रयुज्यमानयोस्तयोरेव वाक्ये यत्रतत्रस्थयोरन्त्यः स्वरः प्लुतो वा भवति । हे ३ देवदत्त आगच्छ । आगच्छ हे ३ देवदत्त । आगच्छ देवदत्त हे ३ । है ३ देवदत्त आगच्छ ।आगच्छ है ३ देवदत्त । आगच्छ देवदस है ३ । हेहैष्वित्यवधारणस्य विषयार्थम् । *एषामिति स्थानिनिर्देशार्थम् । बहुवचनं ह इ हे हए है इति लाक्षणिकयोरपि परिग्रहार्थम् । एक्कारोऽन्यस्य प्लुतस्य व्युदासार्थः । अत एव चैवकारात् यत्रतत्रस्थयोः प्लुतो विज्ञायते ॥ १०० ॥ अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा ॥ ७ ॥४॥१०१॥ यदभिवाद्यमानो गुरुः कुशलानुयोगेनाशिषा वा युक्तं वाक्यं प्रयुक्त स प्रत्याभिवादः । तस्मिन्नस्त्रीशूद्रविषये वर्तमानस्य वाक्यस्य स्वरेष्वन्यः स्वरो भोःशब्दस्य गोत्रस्य नाम्नो वामध्यस्य संवन्धी प्लुतो वा भवति । अभिवादये देवदचोऽहं भोः ३ । अभिवादये देवदत्तोऽहं भोः । आयुष्मानधि भोः ३। आयुष्मानेधि भोः । आयुष्मानोधे देवदत्त भोः ३ । आयुष्मानेधि देवदच भोः । गोत्रे, अभिवादये गाग्र्योऽहं भोः, कुशल्यसि गार्ग्य ३ । कुशल्यसि गार्य । आयुष्मानधि गाये ३|आयुष्मानेधि गाये। राजन्यविशोरपि गोत्रत्वमेव। अभिवादयेऽहमिन्द्रवर्मा भोः। आयुष्मानेधीन्द्रवर्म ३ न् । इन्द्रवर्मन् । अभिवादये इन्द्रपालितोहं भोः, आयुष्मानेधीन्द्रपालित ३ । इन्द्रपालित । नाम, अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि देवदत्त ३ । देवदत्त । स्त्रीशूद्रवर्जनं किम् । अभिवादये गाग्र्यहं भोः, आयुष्मती भव गागि। अभिवादय तुषजकोऽहं भोः, आयुष्मानेधि कुशल्यसि तुषजक । प्रत्यभिवादे इति किम् । अभिवादये स्थाल्पहं भो। आयुष्मानधि स्थालि ३ । अभिवादयिताह खरकुटीवन्न ममेकारान्ता संज्ञा का तर्हि दण्डिवन्नकारान्ता । पुनर्गुरुराह आयुष्मानेधि स्थालि ३ न स पुनराह ईकारान्तैव मम संज्ञा, स प्रत्युच्यते, असूयकस्त्वमसि जाल्म । न वं प्रत्यभिवादमर्हसि। भिद्यस्व वृषल स्थालि । भोगोत्रनाम्न इति किम् । देवदत्त कुशल्यसि । देवदत्तायुष्मानेधि । पुनर्वाग्रहणमुत्तरत्र वाधिकारनिवृत्त्ययम् ॥ ॥ १०१ ॥ प्रश्नार्चावि-श्वर्णकार्यमिति ।-लवणस्येति 'ऋतोऽत् ' इत्येवविधम् ' मवर्णस्य-' इत्यनेन लकारस्यापि मध्ये गुणवाधनार्थ लकार ॥ हेहै--|--एपामितीति । हेहायामेवेत्येव कृते पूर्वसूत्रेण समान्येन प्लुतप्राप्ती द्योतकाना घेत्प्लुत स्यात् तदा देहायामेवेति नियमार्थ स्थाचेन हे ३ देवदत्त आगच्छ हे ३ देवदत्त इत्यादि सिद्धम् । पूर्व हि देवदत्त ३ इत्यादी चरितार्थ भो.प्रभृतिषु तु न स्यात्॥-यत्रतत्रस्थयोरिति । यदि पुनरन्तभूतानामेय हेहाया प्लुत स्यात्तदाऽपरस्यान्त्यभूतस्यासभवात् प्राप्तिरेव नास्ति किमेपकारेण ॥--असी-॥-देवदत्त कुशल्यसीत्यादि । अत्र एधि असीति क्रियापदेन आमन्व्य इति यद्गविकटता ब्यावृत्तारेति न वाच्यम् । यतोऽनाग्यये स्पमित्यस्प अर्थस्प वाचके इत्यामन्यता । यहा वाक्येकदेशो भक्ष इत्यायध्याहार्य ।-प्रक्षा--
ANANAVNC