________________
स्थाणुने पुरुषोन॥१५॥ ओमःप्रारम्भ।।७४।२६॥ मारम्भे प्रणामादेरभ्यादाने वर्तमानस्य ओमशब्दस्य खरेष्वन्त्यःवरः प्लुतो वा भवति।ओ३म् ऋषभं पवित्रम्। ओमृपर्भ पवित्रम् । एवम् ओ३म् ऋषभमृषभगामिनं प्रणमत २। ओ३म् अग्निमीले पुरोहितम् । पारम्भ इति किम् । ओं ददामि । ओमत्राभ्युपगमे ॥१६॥ हे प्रमाख्याने ॥ ७।४।९७ ॥ प्रश्नस्याख्याने पृष्टपतिवचने वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरो हिशब्दसंबन्धी प्लुतो वा भवति । अकार्षीः कटं देवदत्त । अकार्प हि । अकार्प हि। अलावीः केदारं देवदन । अलाविषं हि ३ । अलाविपं हि । हेरिति किम् । अकापीः कटं देवदत्त, करोमि ननु । प्रश्नग्रहणं | किम् । कटं देवदत्ताकार्ष हि । अमश्नपूर्वक आख्याने न भवति । आख्यानग्रहणं किम् । देवदत्त कटमकाहिं । उत्तरेण सिद्धे नियमार्थ वचनम् । हे प्रश्नाख्या|न एव हे प्रश्नाख्याने वाक्यस्य स्वरेष्वन्त्य एव प्लुत इति च ॥ २७॥ प्रश्ने च प्रतिपदम् ॥७।४ । ९८ ॥ प्रश्ने प्रश्नाख्याने च वर्तमानस्य वाक्यस्य
संबन्धिनः पदस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा भवति । प्रश्ने, अगमः ३ पूर्वा ३न् ग्रामा ३ न् देवदत्त ३ । अगमः पूर्वान् ग्रामान देवदत्त । प्रश्नाख्याने, अगम| ३ म् पूर्वा ३ न ग्रामा ३ न जिनदत्त ३ । अगमम्पूर्वान् ग्रामान जिनदत्त । प्रश्ने चेति किम् । देवदत्त ग्राम गच्छ । प्रतिपदमिति किम् । वाक्यस्यैवान्त्यः स्वरः
प्लुतो मा भूत् ॥ ९८ ॥ दूरादामन्त्र्यस्य गुरुवैकोऽनन्योऽपि लनृत् ॥ ७॥ ४ । ९९ ॥ यत्र प्राकृतात्मयत्नात्मयत्नविशेपे आश्रीयमाणे संदेहो भवति १२ किमयं श्रोष्यति नवेति तदुरम् । वाक्यस्य यः स्वरेवन्यः स्वरो दूरादामध्यस्य पदस्य संवन्धी गुरुनानन्त्योऽपि ऋकारवर्जितः स्वर लकारश्चैको दरादामन्य12 स्यैव संवन्धी स प्लुतो वा भवति । आगच्छ भो माणव कपिलक ३ । आगच्छ भो माणव कपिलक । आगच्छ भो देवदत्त ३ । आगच्छ भो देवदत्त । आगच्छ | भो इन्द्रभूते ३ । आगच्छ भो इन्द्रभूते । आगच्छ भोः क्लुप्तशिख ३ । आगच्छ भोः क्लशशिख । गुरुवैकोऽनन्त्योऽपि लनृत, सक्त्न पिव दे ३ वदत्त । सक्तून् पिवदेवदन।आगच्छ भो इ३ न्द्रभूते, आगच्छ भो इन्द्रभू ३ ते।आगच्छ भो नृ ३पम ।आगच्छ भी नृपभ। आगच्छ भोः कृश्प्तशिखाआगच्छ भोः कृप्तशिख । महाविभाषयैव प्लुतविकल्पे सिद्धे वाग्रहणं न विकल्पार्थ किं त्वन्त्यप्लुतेन सह गुरोः असमावेशार्यम् । तेन लु३तशिख ३ इति न भवति । दूरादिति किम् । शृणु देवदत्त । आमव्यस्येति किम् । आगच्छतु देवदत्तः । प्रधाने कार्यसंप्रत्ययादिह न भवति । आगच्छ भोः कापलक माणव । अत्र माणवेति कपिलक इत्यस्य विशेषणमित्यमधानता । गुरुरिति किम् । अनन्त्यस्य लघोर्मा भूत् । एक इति किम् । अनेकस्य गुरोयौंगपद्येन मा भूत् । अनन्त्योऽपीति किम् । अन्त्यस्यैव मा भूत् । लुकारग्रहणमन॥-ओमः-॥-प्रणामादेरिति । ओम् इत्यस्य प्लुतविधानात्प्रणामादरेव प्रारम्भो गम्यते ॥ हे प्र-॥-नियमार्थमिति । अत्र हे प्रश्नाख्यान एवेति नियमेन देवदत्त कटमकाहीति प्रश्ने | प्लुतो निवपते हे प्रभाण्याने वाक्यस्य स्वरेवन्त्य एव प्लुत इत्यनेन तु अकार्ष हि कटमित्यनन्त्यस्य न भवति। एतनियमद्वयमुपलक्षण हेरेव प्रश्नाख्याने वाक्यस्य स्वरेवन्त्यः स्वर प्लुतो भवतीत्यपि | नियमो प्रष्टम्यस्तेन करोमि नन्विति हि सजातीयस्य निपातान्तरस्य प्लुतो निवय॑ते । अगम ३ पूर्वा ३ न प्रामा ३ नित्यादावनिपातस्य विजातीयस्य भवत्येव ॥-दूरा-॥-ऋकारवर्जित २॥ इति । गुरोरेष विशेषणम् ॥ ऋकारवर्जितः स्वर लकारश्चेति ॥-असमावेशार्थमिति । तेन यदान्त्यस्य प्जुनस्तदान्त्यस्यैव न तु गुरोः । यदा तु गुरोस्तदा गुरोरेव न स्वन्त्यस्येत्यर्थः ॥