________________
श्री मश ॥ ५६ ॥
*त्यादेः साकाङ्क्षस्याङ्गेन ||७| ४ | ९१ ॥ वाक्यस्य स्वरेष्वन्यः प्लुतो बेत्यनुवर्तते भर्त्सन इति च । भर्त्सने वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य अद्ग इत्यनेन निपातेन युक्तस्य संवन्धी प्लुतो वा भवति । अङ्ग कूज ३ अङ्ग कूज इदानीं ज्ञास्यति जाल्मा अङ्ग व्याहर ३ अङ्ग व्याहर इदानीं ज्ञास्यसि जाल्म । खादेरिति किम् । अङ्ग देवदत्त मिथ्या वदसि । साकाङ्क्षस्येति किम् । अद्द्र पच, नैतदपरमाकाङ्क्षति । अनेनेति किम् । -देबदच कुजेदानी ज्ञास्यति जाल्म । भर्त्सन इसेव । अङ्गाव मोदकं ते दास्यामि ॥ ९१ ॥ क्षियाशीः प्रेषे ॥ ७ । ४ । ९२ ॥ क्षिया आचार भ्रेषः । आशीः प्रार्थनाविशेषः । मैषोऽसत्कारपूर्विका व्यापारणा । एतेषु वर्तमानस्य वाक्यस्य स्वरेष्वन्यः स्वरस्त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य संबन्धी प्लुतो वा भवति । क्षियायाम्, स्वयं ह रथेन याति ३ उपाध्यायं पदातिं गमयति । स्वयं ह रथेन याति उपाध्यायं पदातिं गमयति । स्वयं ह ओदनं भुङ्क्ते ३ उपाध्यायं सक्तून् पाययति । स्वयं ह ओदनं भुङ्क्ते उपाध्यायं सक्तून् पाययति आशिषि, सिद्धान्तमध्ये पीष्ठाः ३ व्याकरणं च तात। सिद्धान्तमध्येषीष्ठा व्याकरणं च तातापुत्रांश्च लप्सीष्ठाः३धनं च तात।पुत्रांश्च लप्सीष्ठाःधनं च तात । मैंषे, त्वं ह पूर्व ग्रामं गच्छ ३ चैत्रो दक्षिणम्। त्वं ह पूर्व ग्रामं गच्छ चैत्रो दक्षिणम् । कटं च कुरु ३ग्रामं च गच्छ३ । कर्ट च कुरु ग्रामं च गच्छ । सादेरित्येव । भवता खलु कटः कर्तव्यः ग्रामश्च गन्तव्यः । साकाङ्क्षस्येत्येव । दीर्घे ते आयुरस्तु ॥ ९२ ॥ चितीवार्थे ॥ ७ ॥ ४ ॥९३॥ इवार्थे उपमायां वर्तमाने चित् इत्यस्मिन्निपाते प्रयुज्यमाने वाक्यस्य स्वरेष्वन्यः स्वरः प्लुतो वा भवति । अग्निचिद्वायात् अग्निचिद्भयात् । राजा चिद्भूयात् । राजा चिद्भूयात् । अग्निरिव राजेवेत्यर्थः । चितीति किम् । अग्निरिव भायात् । चितीति रूपसत्ताश्रयणादप्रयोगे न भवति । अग्निर्माणवको भायात् । इवार्थ इति किम् । कर्णवेष्टकांश्चित्कारय। कर्णवेष्टकानेवेत्यर्थः । कथंचिदाहुः कृच्छेणाहुरित्यर्थः ॥ ९३ ॥ प्रतिश्रवणनिगृह्यानुयोगे ॥ ७ । ४ । ९४ ॥ प्रतिश्रवणं परोक्तस्याभ्युपगमः स्वयं प्रतिज्ञानं श्रवणाभिमुख्यं च । निगृह्य स्वमतात्मच्या व्यानुयोगो निग्रहपदस्याविष्करणं निगृह्यानुयोगः । उपालम्भ इति यावत् । एतयोर्वर्तमानस्य वाक्यस्य खरेष्वन्यस्वरः प्लुतो वा भवति। अभ्युपगमे, गां मे देहि भोः । हन्त ते ददामि ३॥ हन्त ते ददामि । स्वयं प्रतिज्ञाने, नित्यः शब्दो भवितुमर्हति ३ | नित्यः शब्दो भवितुमर्हति । श्रवणाभिमुख्ये भो देवदत्त कि मार्ष ३ । किं मार्ष । मार्षेति श्रवणाभिमुख्ययोतको निपातः । निगृह्यानुयोगे, अद्य श्राद्धमित्यास्य ३ । अद्य श्राद्धमित्यात्य । अद्य श्राद्धेति वादी युक्त्या स्वमतात्प्रच्याव्यैवमुपलभ्यते ॥ ९४ ॥ विचारे पूर्वस्य ॥ ७ । ४ । ९५ ॥ किमिदं स्यात् किमिदमिति निरूपणं विचारः संशय इति यावत् । तस्मिन् विषये संशय्यमानस्य यत्पूर्वं तस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा भवति । अहिर्नु ३ रज्जुर्नु । अहिर्नु रज्जुर्नु । स्थाणुर्नु३ पुरुषो तु। ॥ नन्वत्र भर्त्सनस्य वाक्यस्येतानर्थकम् । ततश्च सिद्धे सति नियम ॥-त्यादे ॥ अड्ग पचेति । अत्राड्गशब्दात् सम्मन्यसूया इति 'भरसँने प' इति च सूत्रेण प्लुतो द्विर्वचनच च पदमामन्त्रणमेव द्योतयति न त्वामन्यम् ॥ - देवदत्त कूजेत्यादि न भवति । यतोऽनयोरामध्ये आमन्त्रणीयार्थे यत्पद वर्त्तते तद् गृह्यते । अगति विद्यमानत्वात् सम्मस्यसूया - ' इत्यनेनाद्यामन्यस्य द्विस्य प्लुतथ कस्मान्न भवति । उच्यते । वाक्यैकदेशत्वा भवति । अत्र हि परमदेवदत्तेत्यादि माश्यमस्तीति न प्लुत
स०अ०च०
॥ ५६ ॥