________________
बहूनां सजातीयानामर्थानां साकल्पेन प्रत्येकं क्रियया गुणेन द्रव्येण जात्या वा युगपत्प्रयोक्तुाप्तुमिच्छा वीप्सा । तस्यां यद्वर्तते शब्दरूपं तद्विरुच्यते । वीप्सा च स्याद्यन्तेष्वेव भवतीति तेषामेव द्विवचनम् । वृक्ष वृक्ष सिञ्चति । ग्रामो ग्रामो रमणीयः । गृहे गृहे अश्वाः । योद्धा योद्धा क्षत्रियः। तथा रूपं रूपं पश्यति । शुक्ल शुलमानयति। क्रियां क्रियामारभते । उपचारतभेदस्थापि भवति । खिन्नः खिन्नो विश्राम्यति । क्षीणः क्षीणः पयः पिवति । *व्यापकधर्मस्यापि व्याप्येनाभेदोपचारादेदे सति व्यापकान्तरापेक्षायां वीप्सा भवति । स एवान्योऽन्यः संपद्यते । नबो नवो भवति जायमान इति । आध्यतरमाढ्यतरमानय । अत्र द्विवचनात्मागातिशायिकः । वीप्सायामिति किम् । वृक्षं सिञ्चति । जात्येकशेषतरेतरयोगक्रमाभिधानेषु सत्यामपि व्याप्तौ यथोक्तलक्षणवीप्साया अभावान्न भवति । तथाहिसंपन्नो यवः संपन्ना यवा इति जातेरेकत्वात् बहाभिधानं नास्ति । अस्मिन्वने वृक्षाः शोभना इति एकशेपे साकल्पेन व्याप्तिास्ति । तथाहि-कतिपयेष्वपि वृक्षेषु शोभनेष्वयं प्रयोगो भवति । एवमितरतरयोगेऽपि । अस्मिन्वने धवखदिरपलाशाः शोभना इति न वीप्सा । तथास्मिन्वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमाभिधाने साकल्येनापि व्याप्तौ योगपद्याभावान्न भवति । अस्मिन्बने सर्वे वृक्षाः शोभना इत्पत्र तु सर्वशब्देन वीप्साभिधानान्न भवति । यथा तद्धितसमासाभ्याम् । तद्धितेन तावत्, द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । एकैकं ददाति एकशो ददाति । एकैकशो ददातीत्यत्र वीप्सायां द्विवचने कृते 'बद्दल्पार्थात् ।-(७-२-१५०) इति कारके पशस् भविष्यति । समासेनापि, अर्थमर्थ प्रति प्रत्यर्थम् । गेहंगेहमनुमवेशमास्ते गेहानुप्रवेशमास्ते । कचित्तु वीप्स्यमानमपि समासेनाभिधीयते । पर्वणि पर्वणि सप्त पर्णान्यस्य सप्तपर्णः । पङ्क्तौ पन्तौ अष्टौ पदान्यस्य अष्टापदः । ननु च वृक्षं वृक्ष सिञ्चतीत्यादौ चीप्सायां बहवोर्थाः पतीयन्ते तत्र बहुषु बहुवचनं प्रामोति । उच्यते । पृथक्संख्यायुक्तानामिति वचनात् परिगृहीतैकत्वादिसंख्यानां पदार्थानां वीप्सया योग इति पुनः समुदायादहुवचनं न भवति ॥ ८०॥ *लप चादावेकस्य स्यादेः ॥७।४।८१॥ एकशब्दस्य वीप्सायां द्विरुक्तस्यादौ वर्तते य एकशब्दस्तत्संबन्धिनः स्यादेः प्लुए भवाते । पित्करणं पुंवद्भावार्थम् । अत एवातद्धितेऽपि लुपि पुंवद्भावः । एकैकः। एकैका । एकैकस्याः। एकएका । एकएकस्याः। -उपचरितभेदस्येति । एकस्यापि देशकालावस्थादिभेदेन भेदोपचारादनेकदाद्वीप्साया द्विवचनाविरोध इत्यर्थ ॥-व्यापकधर्मस्यापीत्यादि ॥ अनेयमाशड्का यदुतान्योन्य सपयत इत्यादिषु अन्यत्वादिधर्म एफ एवं सत्कय बीप्सा इत्याह-व्यापकधर्मोऽन्यत्वादि ॥ जीवश्च व्याप्यः स च जीव. कदाचिदस्ती भवति कदाचिन्नर कदाचित् शृगाल इत्यनेकभेद. व्यापकधर्मस्य व्याप्येन सहाभेदोपचारात् भेदत्व ततो व्यापकधर्मस्य भेदे नानात्वे सति व्यापकान्तरापेक्षायां भवति संपद्यत इत्यादिक्रियारूपाया वीप्सा भवतिाया क्रियादिना व्याप्तुमिच्छा वीप्सा इति क्रियादिव्यापक । यथाऽन्योन्य. सपद्यते स एव जीवोऽन्योन्यो भवति । कोऽर्थो कदाचिद्धस्ती नर श्वा च भवतीति व्याप्यभूतो जीवोऽनेकप्रकारः तदभेदादज्यापकधर्मोप्यनेकप्रकारः । ततो बहूनामांनामित्यादि यद्वीप्सालक्षण तद् घटत एव । एवं नवोनवो भवति जायमान इस्पन्नापि । ननु तस्यैवान्पत्वमन्यत्व सपद्यत इत्यर्थः तस्य च जायमानस्य । नवस्वं भवतीत्यर्थ इत्यनयोः प्रयोगयोरर्थः तरकथ स एवान्योन्य. सपद्यते स एव नवो २ भवति जायमान इति सामानाधिकरण्य स्यात् । उच्यते । धर्मम्मिणोरभेदनयेन भविष्यतीति।-प्लुप्चा