________________
अ००
८५४
भासानामपेक्षाकृतोऽयमूलव्यपदेशः । अधःसन्निविष्टमपेक्ष्याग्रव्यपदेशः । उपरिसंनिविष्टमपेक्ष्य मूलव्यपदेशः । न चैकरूपं भागानां स्थौल्यं सौक्षम्य वा किं तर्हिस यथामूलमुपचीयते स्थौल्यम् यथा च सौक्ष्म्योपचय इति वीप्सा नास्ति । एवं ज्येष्ठत्वकनिष्ठत्वयोरपि “आपेक्षिकत्वाद्वीप्सा नास्तीति वचनम् ॥ ७ ॥
डतरडतमौ समानां स्त्रीभावप्रश्ने ।। ७४।७६ ॥ समानां केनचिद्गुणेन तुल्यतया संप्रधारिताना स्त्रीलिङ्गस्य भावस्य प्रश्ने यद्वतते डतरान्तं डतमान्तं च शब्दरूपं । तद्विरुच्यते । उभाविमावाल्यौ कतरा कतरा अनयोराढ्यता किं दैवकृता उत पौरुषकृतेत्यर्थः। कतमा कतमा अनयोराढ्यता किं साधनसंवन्धकृता उतान्यसंबन्धकृता
आहोस्विदुभयसंवन्धकृतेत्यर्थः । एवं सर्व इमे आन्याः कतरा कतरा एपामाध्यता। कतमा कतमा एपामान्यता। सर्वे इमे आन्याः यतरा यतरा एषां विभूतिः ततरा ततरा कथ्यताम् । यतमा यतमा एषां संपत् ततमा ततमा कथ्यताम् । इतरडतमाविति किम् । उभाविमावायी कानयोरान्यता । समानामिति किम् । आयोऽयं कतरास्यान्यता। कतमास्यादयता। स्त्रीग्रहणं किम् । उभाविमावाड्यौ कतरदनयोराब्यत्वम्।कतमोऽनयोविभवः। भावग्रहणं किम्। उमाविमौ लक्ष्मीवन्तौ कतरानयोलक्ष्मी कतमानयोलक्ष्मीः । लक्ष्यतेऽनया पुण्यकर्मेति लक्ष्मीः। इयं स्त्री भवति न भाव इति । प्रश्न इति किम् । उभाविमावान्यौ यतरानयोराढ्यता ततरा श्रूयताम् । केचिड्डतरडतभाभ्यां स्त्रीलिङ्गाचान्यत्रापच्छिन्ति । उभाविमावान्यौ कीदृशी कीदृशी अनयोराव्यता । कतरन्कतरदनयोराध्यत्वम् । कतमः कतमोऽनयोविभवः । कतरानयोराब्यतेत्यादौ प्राप्ते स्वार्थिक द्विवचनम् ॥ ७६ ॥ पूर्वप्रथमावन्यतोऽतिशये ॥ ७ । ४ । ७७ ॥ पूर्वशब्दः प्रथमशब्दश्चान्यतोऽतिशये तदर्थस्य प्रकर्षे द्योत्ये द्विरुच्यते । आतिशायिकापवादः । पूर्व पूर्व पुष्यन्ति । प्रथमं प्रथमं पच्यन्ते । अन्येभ्यः पूर्वतरं पुष्यन्ति, प्रथमतरं पच्यन्त इत्यर्थः । अन्यत इति किम् । पूर्वतरं पुष्यन्ति । प्रथमतरं पच्यन्ते । अत्र स्वव्यापारापेक्षातिशयो गम्यते न तावदिमे किशलयिता यावत्पुष्पिताः, न तावदिमे पुष्पिता ११ यावत्पका इति । अतिशय इति किम् । पूर्व, प्रथमम् । अन्येऽतिशयमात्रेऽपि द्विवचनामिच्छन्ति तमप्तरवर्थ च विकल्पम् ॥ ७७ ॥ प्रोपोत्सं पादपूरणे ॥७।४। ७८ ॥ प उप उत् सम् इत्येतान्युपसगरूपाणि द्विरुच्यन्ते तेन चेत् पादः पूर्यते।। प्रशान्तकपायाग्नेरुपोपप्लववर्जितम् ॥ उदुज्ज्वलं तपो यस्य संसंश्रयत तं जिनम् ॥१॥ पादपूरण इति किम् । प्रणम्य सच्छासनवर्धमानम् । इदं छन्दसीति कश्चित् ॥ ७८ ॥ सामीप्येऽधोऽध्युपरि ॥७॥४॥७९॥ अधस् अधि उपरि इत्येतानि । शब्दरूपाणि द्विरुच्यन्ते सामीप्ये विवक्षिते । सामीप्यं देशकृता कालकृता वा प्रत्यासत्तिः। अधोऽधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्रामम् | उपर्युपरि दुःखानि । सामीप्य इति किम् । अधः पन्नगाः। अधि ब्रह्मदत्ते पञ्चालाः । उपरि चन्द्रमाः। कथमुपरि शिरसो घद इति । अत्रौत्तराधर्यमा विवक्षितम् न सदपि सामीप्यमिति न भवति । यथायथमिति मकारान्तमव्ययं यथास्वमित्यर्थे आश्रीयते इति यथास्वे यथायथमिति नारभ्यते ॥७९॥ वीप्सायाम् ॥७॥४८०॥ पृथक्संख्यायुक्तानां ॥-चीप्सा मास्तीति । साकल्पन व्यायभायात्॥--आपेक्षिकत्वादिति ॥ साकल्प नास्ति । नहि ये वृद्धादरोवृद्धा एर ये च कनिष्टास्ते कनिष्ठा एवेति॥-पूर्व-॥-तदर्थस्येति। प्रको यर्थस्य भवति वद्धर्मत्वाचा ततश्च तिर्वचनभाजोः पूर्वप्रथमशब्दयोरेव प्रत्यासत्तेर्विज्ञायत इति ॥-न तानदिमे इति। कमोहि किशलयानन्तर गुप्प तत्यागे न प्रथममेव पुष्पमेयं पुष्पपरित्यागे न फलमिति ॥-वीप्सायाम् ॥