________________
दुहित्रे । बुद्धये । धेनवे । *आमलक्याः फलाय आमलकाय, अतिकुरवे, अतिकुमारये, इत्यत्रेदूत इति वर्णविधित्वेन स्थानिवद्भावाभावादीकारोकारान्तता नास्तीति REL न भवति । ङितामित्येव । नद्यः । वध्वः ॥२९॥ *वेयवोऽस्त्रियाः।१।४।३०॥ इयुवोः संबन्धिनौ यो खीदतौ तदन्ताच्छब्दात्परेषां तत्संवन्धिनामन्य| संवन्धिनां वा स्यादेङितां स्थाने यथासंख्यं दै दास् दास् दाम् इत्येते आदेशा वा भवन्ति, अस्त्रियाः-स्त्रीशब्दं वर्जयित्वा । श्रियै । श्रिये । श्रियाः । श्रियः । श्रियाः। श्रियः। श्रियाम् । श्रियि । भ्रुबै । भुवे । भ्रुवाः। भ्रवः। भ्रुवाः । भ्रवः। भ्रुवाम् । भ्रुवि । श्रियमतिक्रान्ताय, अतिश्रियै । अतिथिये । ब्राह्मणाय ब्राह्मण्यै वा । एवमतिभ्रुवै अतिभ्रुवे । पृथुः श्रीर्यस्य तस्मै पृथुश्रियै पृथुश्रिये पुरुषाय स्त्रियै वा । एवं पृथुभ्रुवै पृथुभ्रवे ॥ केचितु समासार्थस्य स्त्रीत्व एवेच्छान्त न पुंस्त्वे । तन्मते अतिश्रियै, अतिश्रिये स्त्रियै इत्यत्र भवति । इह न जवति ॥ अतिश्रिये, अतिभुवे पुरुषाय । पूर्वेण *नित्यमपि न भवति ॥ कश्चित्तु पूर्वमतविपर्ययमेवेच्छति । अतिश्रियै अतिश्रिये पुरुषाय । इह न भवति । अतिश्रिये स्रियै । इयुव इति किम् । *आध्यै । प्रध्यै । वर्षावै । पुनर्वे । पूर्वेण नित्यमेव । खोदूत इत्येव | यवक्रिये कटमुवे स्त्रियै । अस्त्रिया इति निर्देशात्परादपि इयुव्यत्वादिकार्यात्मागेव स्त्रोदाश्रितं कार्यं भवति । तेन स्त्रिय, स्त्रीणाम् , भ्रूणाम् , आध्यै इत्यादि सिद्धम् ॥३०॥ *आमो नाम वा। १।४।३१॥ इयुवोः संवन्धिनौ यौ स्त्रीदूतौ तदन्ताच्छब्दात्परस्य तत्संबन्धिनोऽन्यसंबन्धिनो वा आमः *पष्ठीबहुवचनस्य नामित्ययमादेशो वा भवति, अखियाः-स्रोशब्दं वर्जयित्वा। श्रीणाम् । श्रियाम् । भ्रूणाम् । भुवाम् । अतिश्रीणाम् । अतिश्रियाम् । पृथुश्रीणाम् । पृथुश्रियाम् । अतिभ्रूगाम् । अतिभुवाम् । पृथभूणाम् । पृथुभ्रुवाम् । स्रोणां पुरुषाणां वा । शोभना धीरेषां सुधीनाम् । सुधियाम् । अस्त्रिया इत्येव । स्रोणाम् । परमस्त्रीणाम् । उत्तरेण नित्यमेव । नपुंसकेऽपि हस्वत्वेन भाव्यमित्युत्तरेण नित्यमेव । अतिश्रीणाम् । अतिभ्रूणां कुलानामिति ॥३१॥ *स्वापश्च । १।४।३२॥ इस्वान्तादावन्तात्वीदन्ताच्च शब्दात्परस्यामः स्थाने नाम् इययमादेशो भवति । इस्व, श्रमणानाम् । संयतानाम् । वनानाम् । धनानाम् । मुनीनाम् । साधूनाम् । वुद्धोनाम् । धेनूनाम् । पितृणाम। मातृणाम् । आप्, खट्वानाम् । वहुराजानाम् । स्त्रोदूतः । नदीनाम् । वधूनाम् । खीणाम् । लक्ष्मीणाम् । खीशब्दवर्जितयोरियुवादेशसंबन्धिनोः खोदूतोः पूर्वेण विकल्प, एव । श्रीणाम् । श्रियाम् । भ्रूणाम् । भ्रुवाम् । इस्वापश्चेति किम् । सोमपाम् । सेनान्याम् ।। ३२ ॥ *संख्यानां म । १।४। ३३ ॥ रेफपकारन| मानादादेशाभाव ॥-आमलक्या इति । आमलकात् उणादिप्रत्ययान्तात् इयाम् आमलकी वृक्षवाची ध्वनि । यद्वा आमलकस्य फलस्य विकारो वृक्ष दुसज्ञकस्य मयटो यदा याहुलकाल्लुप् गौरादित्वात् | की तदापि आमलकीशब्दस्तरुवाची ॥-वर्णविधित्वेनेति । ईकारोकारौ वर्णों तदाश्रिता दायादय ॥-वेयुवो ॥-नित्यमपीति । कोऽयंस्तन्मते स्त्रीदूत इत्यत्रापि समासार्थस्य त्रीत्व एव भवति ॥ -आध्यै । आध्यावति प्रध्यायति आदधाति प्रदधाति इत्येवशीलाया बुद्धेर्वाचकौ वर्षाभूवत् नित्यत्रीलिङ्गौ आधीप्रधीशब्दौ । क्रियाशब्दत्वेन सर्वलिात्तात् ग्रामण्यादिशब्दवन्नित्यत्रीविषयौ नैति चिन्त्यमेतदित्येकै ॥-आमो नाम् वा॥--षष्ठीवचनस्येति । अत्र डिस्थानिकस्य सानुवन्धत्वादपरस्य चासभवात् स्याद्यधिकाराच्च षष्ठीबहुवचनस्यैवामी ग्रहणम ॥-इस्वा-॥-पूर्वेण विकल्प एवेति । इयुष्स्थानित्वेन विशेषविहितत्वात् इति शेष ॥-संख्यानां-॥ रच प् च न च तेषाम् र्णाम् । तवर्गस्येति णत्वम् । रघुवर्णेति तु न एकपदत्वाभावात् । वोत्तरपदान्तेत्यपि न यत पकारो न