________________
Massavada
ao
.
कास्य तु नासिकः ।। कथं गोनासः । यथास्ति नासाशब्देन भविष्यति । चकारः पूर्वणीस्य बाधानिवृत्यर्थः ॥ १६१ ।। उपसर्गात् ।। ७।३ । १६३ ॥ धातुयोगे यः मादिरुपसर्गसंज्ञो भवति तस्मात्पररय नासिकाशब्दस्य बहुव्रीही नस इत्ययमादेशः समासान्तो भवति । मंगता प्रवृद्धा वा नासिका अस्य प्रणसं मुखम् ।। 'नसस्य' (२-३-६६) इति णः । उन्नता उद्गता था नासिकास्य उन्नस मुखम् । असंज्ञार्थ वचनम् ॥ १६२ ॥ वे खुखग्रम् ॥ ७ । ३ । १६३ ॥ विशब्दादुपसगात्परस्य नासिकाशब्दस्य बहुवीही खुलन इत्येते आदेशाः समासान्ता भवन्ति । विगतां नासिकास्य विखुः विनः । विनः । उपसर्गादित्येव । वे पक्षिण इव नासिकास्प विनासिकः ॥ १६३ ॥ जायाया जानिः॥७।३।१६४ ॥ जायाशब्दस्य बहुव्रीहौ जानिरित्ययमादेशः समासान्तो भवति । युवतिर्जाया अस्य युवजानिः । प्रियजानिः । शोभनजानिः । वधूजानिः । अनन्यजानिः ॥ १६४ ॥ व्युदः काकुदस्य लुक् ॥७।३ । १६५ ॥ वि उद् इत्येताभ्यां परस्य काकुशब्दस्प बहुब्रीही लुक् समासान्तो भवति । विगतं काकुदं तात्वस्य विकाकुत् । उत्काकुत् ।। १६५ ॥ पूर्णादा ॥ ७।३।१६६ ।। पूर्णशब्दात्परस्य काकुदशब्दस्य बहुव्रीहौ लुक् समासान्तो वा भवति । पूर्ण काकुदमस्य पूर्णकाकुत् । पूर्णकाकुदः। पूर्णादिति किम् । रक्तकाकुदः ॥ १६६॥ ककुदस्यावस्थायाम् ॥ ७।३।१६७ ॥ अवस्था वयः । ककुदशब्दस्य बहुव्रीहाववस्थाया गम्यमानायो लुक् समासान्तो भवप्ति । न संजातं ककुदमस्य असंजातककुद्रालः । पूर्णककुद् युवा । स्थूलककुदलवान् । यष्टिककुद् । नातिस्थूलो नातिकृशः । सन्नककुद् कृशः । पन्नककुद्रुद्धः । अवस्थायामिति किम् । श्वेतककुदः । ककुच्छब्देनैव सिद्धे ककुदशब्दस्यास्मिन्त्रिपये प्रयोगनिवृत्त्यर्थं वचनम् ।। १६७ ॥ त्रिककुद्गिरौ ॥ ७ ३ ॥ १६८ ।। गिरी पर्वतेऽभिधेये ककुदशब्दस्य त्रिशब्दात्परस्य बहुीहौ ककुदादेशः समासान्तो निपात्यते । त्रीणि ककुदानि ककुदाकाराणि शिखराध्यस्य त्रिककुत्पर्वतः । गिराविति सिद्धे निपातनं गिरिविशेषप्रतिपत्त्यर्थम् । तेनान्यस्मिन् त्रिककुद इत्येव भवति ॥ १६८ ॥ स्त्रियामृधसोन् ॥ ७ ॥३॥ १६९ ॥ खियां वर्तमानस्य अधंस्शब्दस्य बढुंचीही नकारादेशः समासान्तो भवति । कुण्डमिवोधोऽस्याः कुण्डोनी । घटोधी । पीवरमूघोऽस्याः पीवरोधी । महोत्री गौः। स्त्रियामिति किम् । महोघाः पर्जन्यः । बहुवीहेरित्येव । ऊधः प्राप्ता प्राप्तोधा गौः ॥ १६९ ।। इनः कच् ॥ ७॥ ३ । १७० ॥ इन्नन्तादहुव्रीहेः स्त्रियां वर्तमानात्कच् प्रत्ययः समासान्तो भवति । वहवो दण्डिनोऽस्यां बहुदण्डिका। बहुच्छत्रिका सेना । बहुरासभराविका शाला। 'अनिनस्मनग्रहणान्यर्थवतानर्थकेन च तदन्तविधि प्रयोजयन्ति । बहस्वामिका बहवाग्मिका पुरी। स्त्रियामित्येव । बहुदन्डी बदहुण्डिको राजा । चकारो 'न कचि' (२-४-१०४) इति विशेषणार्थः ॥१७०॥ ऋन्नित्यदितः॥७३॥१७१।। त्रकारान्तानित्यं दिदादेशो यस्मात्तदन्ताच बहुव्रीहे: कच्समासान्तो भवति । ऋत. बहुककः । बहुहर्तकः। नित्यदित, बहुकमारीकः।बहुब्रह्मवन्धको ग्रामःो नित्यग्रहणं किम् । पृथुश्रीः पृथुश्रीकोलम्बभ्रुः सम्बभ्रकः । पूर्वत्र स्त्रियां विधिरिति योगविभागः। केचिन्निसदितां उन्यूडन्तानामेव कचमिच्छन्ति । तन्मते वहतन्त्री बहुतवीक इति 'शेपाद्वा' (७-३-२७५ ) इति विकल्पः ॥ १७॥