________________
| द्वितीयरात्रः। संख्या, यो राम्योः समाहार द्विरात्रः। विराः। यो शब्योर्भवः द्विरात्रः । दिरामा । त्रिरातः । त्रिरात्रा । द्विरात्रप्रियः । त्रिरात्रप्रियः । द्विरात्रजातः । त्रिरात्रजातः । अव्यय, अतिरात्रः । अतिरात्रा। नीरात्रः। नीरात्रा । एकग्रहणं संख्याग्रहणेनानेनैकस्याग्रहणार्थम् । तेन पूर्वसूत्रे संख्याशब्देनैकस्याग्रहणम् । एकमहः एकाहम् । अटि प्रकृतेऽविधानं स्त्रियां ड्यभावार्थम् ॥ ११९ ॥ पुरुषयुषदिस्तावत्रिस्तावम् ॥ ७ । ३ । १२० ॥ एतेऽत्सत्ययान्तास्तत्पुरुषा निपासन्ते । पुरुषस्यायुः पुरुषायुपम् । विस्तावती विस्तावा । त्रिस्तावा वेदिः । वेद्यामनयोः प्रयोगः । अतीशब्दलोपो निपातनात् । प्रकृती यावती वेदिस्तावती द्विगुणा त्रिगुणा वा कस्यांचिटिकता भवति । प्रकृतिविकृती यागविशेपौ । अन्यत्रापि दृश्यते । दिस्तावोऽग्निः । त्रिस्तावोऽग्निः ॥ १२० ॥ श्वसो वसीयसः॥७।३।१२१ ॥ श्वसः परो यो वसीयमशब्दस्तदन्तात्तत्पुरुषादसमासान्तो भवति । वसुमच्छब्दादीयसी मतोरन्यस्वरादेश्च लोपे वसीयः । शोभनं वसीयः श्वोवसीयसं कल्याणम् ॥ १२१ ॥ निसश्च श्रेयसः ॥ ७।३।१२२ ॥ निस्शब्दात वस्शब्दाच्च परो यः श्रेयशब्दस्तदन्तात्तत्पुरुपादत समासान्तोभवति। निश्चितं श्रेयः निश्रेयसं निर्वाणम्। शोभनं श्रेयः श्वःश्रेयसम् ॥ १२२॥ नजव्ययात्संख्याया डः ॥ ७।३ । १२३ ॥ नमोऽव्ययाच परो यः संख्याशब्दस्तदन्ताचत्पुरुपात डसमासान्तो भवति । न दश अदशाः। अनवाः । न्यूना दश न्यूना नव इत्यर्थः । नञ्पूर्वोऽयं वैकल्ये दृश्यते । अव्यय, निर्गतस्त्रिंशतोऽङ्गुलिभ्यः निस्त्रिंशः खङ्गः । निस्त्रिंश इव क्रूरकर्मा निस्त्रिंशः खलः । त्रिंशतो निर्गतानि निस्त्रिंशानि | वर्षाणि।निस्त्रिंशान्यहानि । निश्चत्वारिंशानि । निष्पश्चाशानि । नत्रव्ययादिति किम् गोत्रिंशत् नग्रहणं'नञ्तत्पुरुपात'(७-३-७१) इति प्रतिषेधे प्राप्ते प्रतिप्रसवार्थम् । संख्याया इति किम् । निःशकृत् । तत्पुरुषादित्येव । न विद्यन्ते त्रयो यस सोऽत्रिः । शोभनास्त्रयो यस्य सुत्रिः निर्गतास्त्रिंशदस्य निस्त्रिंशत् । डित्वमन्यस्वरादि| लोपार्थम् ॥ १२३ ॥ संख्याव्ययादगुलेः॥ ७।३।१२४ ॥ संख्याया अव्ययाच परो योऽङ्गुलिशब्दस्तदन्तात्तत्पुरुषात् डः समासान्तो भवति । द्वयोरगुल्योः समाहार द्यङ्गुलम् । व्यङ्गुलम् । द्वे अङ्गुली प्रमाणमस्य मात्र तस्य लुप् । ततः समासान्तः। बङ्गुलम् । व्यङ्गुलम् । बङ्गुलप्रियः । व्यङ्गुलप्रियः। अव्यय, निरङ्गुलम् । अत्यङ्गुलम् । तत्पुरुषादित्येव । उपाङ्गुलि । पञ्चाङ्गुलिस्तः । अनगुलिः पुरुषः। कथमात्माङ्गुलं प्रमाणाङ्गुलम् उत्सेधागुलमिति । अङ्गुलशब्दः प्रमाणवाची प्रकृत्यन्तरम् । यथा 'स्वेनाङ्गुलप्रमाणेनाङ्गुलानां शतं पुमान् । हस्तोऽङ्गुलविंशत्येति ॥ १२४ ॥ बहुव्रीहे. काप्ठे दः ॥ ७ ।३।। १२५ ।। अगुल्यन्ताबहुव्रीहेः काष्ठे वर्तमानात् ट: समासान्तो भवति । द्वे अगुली यस्य व्यङ्गुलम् । व्यङ्गुलं चतुरङ्गुलम् पञ्चाङ्गुलम् । अङ्गुलिसदृशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठमेवमुच्यते । बहुव्रीहेरिति किम् । उपाङ्गुलि । अत्सगुला यष्टिः । काष्ठ इति किम् । पञ्चाङ्गुलिहस्तः । अङ्गुलेरिति निर्दे शादङ्गुलीशब्दान्तान्न भवति । द्वावगुलीप्सदृशाववयवौ यस्य तव द्यगुलीकम् दारू । 'न कचि' (२-४-१०४) इति इस्वाभावः। टकारोङयर्थः । दीर्घाङ्गुली । इति । अतोऽवस्य-'इति । सख्यासायत्रे.-' इति च ज्ञापकान प्रत्ययशका--|-ना-॥-नग्रहणमिति । अव्ययहारेणापि सिद्धे