SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ निर्देशादनकारान्तान्न भवति । मद्राणां राज्ञी मद्रराज्ञी । विद्याराज्ञी । महाराज्ञी। सखी शब्दावटि सबसति वा न रूपभेदः ॥ १०६ ॥ राख्याद्ब्रह्मणः ॥ ७ । ३ । १०७ ॥ राष्ट्रवाचिनः परो यो ब्रह्मशब्दस्तदन्ता चत्पुरुषादद् समासान्तो भवति । सुराष्ट्रे ब्रह्मा सुराष्ट्रग्रहाः । यः सुराष्ट्रेषु वसति स सौराष्ट्रको बाह्मण इत्यर्थः ॥ एवमवन्तिब्रह्मः । काशिब्रह्मः । राष्ट्राख्यादिति किम् । देवब्रह्मा नारदः । आख्यग्रहणं राष्ट्रवाच्यर्थम् ॥ १०७ ॥ कुमहद्भ्यां वा ॥ ७ । ३ । १०८ ॥ कु महदियेताभ्यां परो यो ब्रह्मनुशब्दस्तदन्ताचत्पुरुषाद्वाद् समासान्तो भवति । पापो ब्रह्मा कुत्रा कुत्राः । महान् ब्रह्मा महाब्रह्मः महाब्रह्मा । पापो महांथ ब्राह्मएवमुच्यते ॥ १०८ ॥ ग्रामकोटात्तक्ष्णः ॥ ७ । ३ । १०९ ॥ ग्रामकोट इत्येताभ्यां परो यस्तक्षनशब्दस्तदन्तात्तत्पुरुषादद् समासान्तो भवति । ग्रामस्य तक्षा ग्रामतक्षः । ग्रामसाधारण इत्यर्थः । कुटी शाला तस्यां भवः कौटः कौटस्तक्षा कौटतक्षः । स्वापणशालायां यः कर्म करोति स्वतत्रो न कस्यचित्प्रतिवद्ध इयर्थः । ग्रामकौटादिति किम् । राजतक्षा । तत्पुरुषादित्येव । ग्रामथ तक्षा च ग्रामतक्षाणौ । कौटस्तक्षास्य कौटतक्षा ॥ १०९ ॥ गोष्टाः शुनः ॥ ७ । ३ । ११० ॥ गोष्ठ अति इत्येताभ्यां परो यः श्वनशन्दस्तदन्तात् तत्पुरुषादट् समासान्तो भवति । गोष्ठे श्वा गोठश्वः । अतिक्रान्तः श्वानम् अतिश्वो वराहः । अतिजवन इत्यर्थः । अतिश्वः सेवकः। सुष्ठु स्वामिभक्त इत्यर्थः । अतिश्वी सेवा । अतिनीचेत्यर्थः ॥ ११० ॥ प्राणिव उपमानात् ॥ ७ ॥ ३ ॥ १११ ॥ प्राणिवाचिन उपमानात्परो यः श्वन्शब्दस्तदन्तात्तपुरुषादद् समासान्तो भवति । व्याघ्र इव व्याघ्रः स चासौ श्वा च व्याघ्रश्वः । ' उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ' ( ३-१-१०२ ) इति समासः । अत एव बचनात् श्वशब्दस्य परनिपातः । मयूरव्यंसकादित्वाद्वा समासः । एवं सिंहश्वः । वृकश्वः । माणिन उपमानादिति पूर्वपदविज्ञानादिह न भवति । वानरः श्वेव वानरश्वा । प्राणिन इति किम् | फलकमिव श्वा फलकश्वा । उपमानग्रहणं किम् । देवदत्तश्वा । प्राणी उपमानभूतो यः श्वाशब्दः तदन्तात्तत्पुरुषादिच्छन्त्येके । व्याघ्रः श्वेव व्याघ्रश्वः । एवं सिंहश्वः । वृकश्वः । पुरुषश्वः । तन्मते वानरश्वेत्यत्र समासान्तविधेरनित्यत्वान्न भवति ॥ १११ ॥ अप्राणिनि ॥ ७ । ३ । ११२ ॥ पूर्वसूत्रे उपमानादिति पूर्वपदस्य विशेषणम् इह तु शुनः । अप्राणिनि वर्तते य उपमानवाची श्वनुशब्दस्तदन्तात्तत्पुरुषादद् समासान्तो भवति । श्वेव श्वा आकर्षश्वासौ श्वा च आकर्षश्वः । एवं फलकश्वः । शकटश्वः । अप्राणिनीति किम् । वानरः श्वेव वानरश्वा | उपमानादित्येव । आकर्षे वा आकर्षश्वा । कुक्कुरवच्छारेऽपि श्वशब्दो ररूढो नोपमानम् | तत्राप्युपमानादेव वर्तत इत्येके । तन्मते आकर्षश्च इत्येव भवति । केचित्तूपमानादिति नापेक्षन्ते तन्मते आकर्षे वा आकर्षवः शश्वत्येव भवति । अन्ये तूपमानादप्राणिनीति एकमेव योगमारभन्ते । तन्मते व्याघ्रश्व इत्यादि न भवति ॥ ११२ ॥ पूर्वोत्तरमृगाच्च सक्थनः ॥ ७ । ३ । ११३ ॥ का ॥ - न रूपभेद इति । सखीशब्दस्य ईकारान्तस्पापि पञ्चाना सखीना समाहार इति 'क्कीवे ' इति ह्रस्वत्वे इदन्तादेवाद् भवति । तथा च पञ्चसखमिति । तथा सखीमतिक्रान्त इति कृते सखीशब्दादढभावेऽपि 'गोश्रान्त' इति कृते सखिद्वारेणाद् प्राप्नोत्येव । तथा पञ्चानां सखो इत्यपि कृते आटे अडभावेऽपि तत्पुरुपस्योत्तरपदप्रधानत्वात् पञ्चसखीत्येव रूपम् । एवमन्यदपि रूपभेदाहेतुकमभ्यूहान् ॥ - प्राणि ॥ परनिपात इवि प्रथमोकध्वेन उपमेयस्य पूर्वनिपाते प्राप्ते ॥ अप्रा ॥ एकमेव योगमिति । ते हि अस्यैव सूत्रस्य विषयमाहियन्ते न तु पूर्वस्य प्राणिन उपमानात् ' इत्यस्य ॥ - पूर्वोत्तर -
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy