________________
| साम्नः समीपं साम्ना तुल्यायाम वा अगुसाग अनुसामम् । एवं प्रतिलोम गतिलोमम् । अनुलोम अनुलोगम् । प्रत्यन्यवादिति किम् । निःपाम वचनम् । । । निलोमा पुरुपः । सामलोन इति किम् । प्रतिकर्म ॥ ८२ ॥ ब्रामहरितराजपल्यावर्चसः ॥ ७ ।३ । ८३ ॥ ब्रह्मन् हस्तिन् राजन् पल्य इत्येतेभ्यः | परो यो वर्चस्शब्दस्तदन्तात्समासादत्समासान्तो भवति । वर्वस्तेजो बलं ना। ब्रह्मणो वर्चः ब्रह्मवर्चसम् । एवं हस्तिवर्चसम् । राजवर्चसम् । पल्यवर्यसम् । पल्यं कटकृतं पलालवार्तिकृतं वा धान्यभाजनम् । इस्तिविधा वा । ब्रह्मादिभ्य इति किम् । नृपाः सोमार्कवर्चसः । कयं विपिमान राजवर्चस्वीति । समासान्तविरनित्यत्वात् । एतच 'ऋगपू-पथ्यपोऽन् ।-(७-३-७६) इति निर्देशात्सिद्धम् ॥ ८३ ॥ प्रतेकरसः सप्तम्याः ॥ ७ । ३ । ८४ ॥ प्रतिशब्दात्परो य उरमशब्दः सप्तम्यन्तस्तदन्तात्समासादत्समासान्तो भवति । उसि वर्तते प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः । उरसि प्रतिष्ठितं प्रत्युरसम् । 'प्रात्यव'--(३-१-४७ ) इत्यादिना तत्पुरुषः । सप्तम्या इति किम् । प्रतिगतमुरः उरः प्रति वा प्रत्युरः ॥ ८४॥ अक्ष्णोऽप्राण्यङ्गे ॥७। ३ । ८५ ॥ अक्षिशब्दान्तात्समासादत्समासान्तो भवति अप्राण्यङ्गन चेत् सोऽक्षिशब्दः प्राण्यङ्गे वर्तते । लवणस्याक्षि लवणमक्षीवेति वा लवणाक्षम् । पुष्कराक्षम् । गवाक्षः । रुद्राक्षम् । महिपाक्षो गुग्गुलः । कचराक्षमश्वानां मुखपच्छादनं बहुच्छिद्रकम् । अमाण्यङ्ग इति किम् । अजाक्षि । उपाक्षि । वामाक्षि ॥ ८५॥ संकटाभ्याम् ॥ ७३ । ८६ ॥ संकट इत्येतत्पूर्वादक्षिशब्दादत्समासान्तो भवति । संगतमक्ष्णा समीपमक्ष्णो वा समक्षम् । कटस्याक्षि कटाक्षः । प्राण्यङ्गार्य वचनम् ॥ ८६ ॥ प्रतिपरोऽनोरव्ययीभावात् ॥ ७।३ । ८७ ॥ प्रति परम् अनु इत्येतत्पूर्वो योऽक्षिशब्दस्तदन्तादव्ययीभावसमासादत्समासान्तो भवति । अक्षिणी प्रति प्रत्यक्षम् । परसमानार्थः परमशब्दोऽव्ययम् । अक्ष्णोः परं परोक्षम् । अत्ययेऽव्ययीभावः । अक्ष्णः समीपमन्वक्षम् । कथं प्रत्यक्षोऽर्थः परोक्षः काल इत्यादेरव्ययीभावस्य सत्ववचनता । अभ्रादेराकृतिगणत्वादप्रत्ययेन भविष्यति ॥ अक्षशब्देनेन्द्रियपर्यायेण सिद्धे प्रत्यादिभ्यः परस्याक्षिशब्दस्याव्ययीभावे प्रयागो मा भूदिति वचनम् ॥ ८७ ॥ अनः ॥ ७॥३॥ ८८ ॥ अनन्तादव्ययीभावादत्समासान्तो भवति । उपराजम् । उपतक्षम् । अध्यात्मम् । प्रत्यात्मम् ॥ ८८॥ नपुंसकादा॥७॥३॥ ८९ ॥ अन्नन्तं यनपुंस तदन्तादव्ययीभावादत्समासान्तो वा भवति । उपचर्मम् । उपचम् । प्रतिकर्भम् प्रतिकर्म । प्रतिसाम । प्रतिसामम् । अनुलोम । अनुलोमम् । पतिलोम । प्रतिलोमम् । पूर्वेण नित्ये मासे विकल्पः॥८९॥ गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवयोवा ॥७॥३॥९॥ गिार नदो पौर्णमासी आग्रहायणी इत्येतच्छन्दान्तात्पञ्चमरहिता ये वास्तदन्ताचाव्ययीभावारसमासादत्समासान्तो भवति वा । गिरेरन्तः अन्तर्गिरम् । अन्तगिरि । गिरेः समीपमुपगिरम् । उपगिरि । एवमुपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि । अपञ्चमवर्य, उपसुचम् उपस्रक । अधिरजम् । अधिस्रक । उपैडविडम् । उपैडवित् । प्रतिमरुतम् । प्रतिमरुन् । उपदपदम् । उपदृषद् । उपसमिधम् । उपसमित । उपककुभम् । उपककुव् दिस्यात् लोग्न नपभानो वा विलोम ‘नपुसकावा' इति समासान्ते तद्योगात् ॥-गरिन-॥-उपैडविडमिति । इडविडोऽपत्य खो 'राष्ट्रक्षाशिय-' इत्यन् 'प्रेरणणः-' इति लुप्। अनेनात्विषये 'जातिश्च