________________
श्रीहमश०१
watcMANON
सभाववेत्यादि सर्व निपातनात् सिद्धम् । क्रियाविशेषणाचान्यत्र न भवति । द्वौ दण्डावस्यां शालायां । द्विदण्डा । द्विमुसला ॥ ७५ ॥ *ऋक्त पथ्यपोऽत्स ०अ० ॥३८॥ ॥ ७।३।७६ ॥ च पुर पथिन् अप इत्येतदन्तात्समासादत कारः समासान्तो भवति । ऋचोऽर्धम् अर्धर्चः । ऋचः समीपमपर्चम् । सप्त, मुक्तम्। उच्चारितः। 21
पुर, श्रियाः पू: श्रीवासौ पूश्चेति वा श्रीपुरम् । पिष्टपुरम् । त्रिपुरम् । स्फीतपुरो देशः। पथिन् , जलपथः । स्थलपथः। उपपथम् । प्रतिपथम् । विशालपथं नगरम् । अप, द्विर्गता आपोऽस्मिन् द्वीपम् । समीपम् । प्रतीपम् । बहुपं तडागस् । पुरपथशब्दाभ्यां सिद्धे पुर् पथिन् इत्येतयोरुपादानमेतद्विपये प्रयोगनिवृत्त्यर्थम् ॥ ७६ ॥
धुरोऽनक्षस्य॥७।३। ७७ ॥ धुरन्तात्समासादत् समासान्तो भवति सा चेद्धः अक्षसंवन्धिनी न भवति । राज्यधुरा । रणधुरा । द्विधुरी । त्रिधुरी । उपधुरस् । महाधुरं शकटम् । अनक्षस्येति किस् । अक्षधः। दृढधूरक्षः ॥ ७७ ॥ संख्यापाण्डूदकृष्णाडूमेः ॥ ७।३।७८ ॥ संख्यावाचिभ्यः पाण्डु उदच् कृष्ण इत्येतेभ्यश्च नामभ्यः परो यो भूभिशब्दस्तदन्तात्समासादत्समासान्तो भवति । यो म्योः समाहारो द्विभूमम् । त्रिभूमम् । द्वे भूमी अस्य द्विभूमः त्रिभूम: प्रासादः पाण्डुमिः पाण्डुभूपम् । पाण्डुभूमो देशः । उदीची भूमिः उदग्भूमम् । उदग्भूमो देशः। कृष्णा भूमिः कृष्णभूमम् | कृष्णभूमो देशः। भूमोऽसंख्यान एकार्थ इति पाण्डुभूमादेनपुंसकत्वम् । सख्यादिभ्य इति किम् । सर्वभूमिः ॥ ७८ ॥ उपसर्गादध्वनः ॥७।३। ७९ ॥ उपसगात् धातुयोगे यः प्रादिरुपसर्गमंज्ञां लभते तस्मात्परादध्वनोन समासान्तो भवति । प्रगतम-वानं प्राध शकटम् । प्राध्वो रथः। उपक्रान्तमध्वानमुपाध्वम् । निरध्वम् । अत्यध्वम् ॥ ७९ ॥ समवान्धात्तमसः ॥७।३।८०॥सम् अव अन्य इत्येतेभ्यः परो यस्तमस्शब्दस्तदन्तात्समासादत् समासान्तो भवति। सततं तमः सततं तमसा संततं तमोऽस्मिन्निात वा संतमसम् । अवहीनं तमोऽचहीने तमसा अबहीनं तमोऽस्मिन्निति वा अवतमसम् । अन्धं करोतीत्यन्धम् । अन्धं च तत्तमश्च अन्धं तमोऽस्मिन्निति वा अन्धतमसम्। अन्धश्च तमश्चेति अन्धतमसम् । अन्यतमसे वा ॥ ८० ॥ तप्तान्वपादहसः ॥७॥३८॥ रह इति अप्रकाश्यं विजनं वा । तप्त अनु अब इत्येतत्पूर्वो यो रहाशब्दस्तदन्तादत्समासान्तो भवति । तप्तं तप्ताय इवानधिगम्यं रहा तप्तरहसम् । तप्त रहोऽस्येति तप्तरहसः । अनुगत रहोऽनुगत रहसा वा अनुरहसम् । अनुगत रहोऽस्पेति अनुरहसः । अवहीनं रहोऽवहीनं रहसा वा अवरहसम् । अवहीन रहोऽस्येत्यवरहसः ॥८१॥ प्रत्यन्ववात्सामलोन्नः ॥ ७।३। ८२ ॥ प्रति अनु अव इत्येतेभ्यः परी यौ सामन्लोमन् शब्दो तदन्तात्समासादत्समासान्तो भवति । प्रतिगतं साम प्रतिसामम् । प्रतिगतं सामास्य प्रतिसामः । एवमनुसामम् अनुसामः । अवसामम् अवमामः । प्रतिलोमम् प्रतिलोमः । अनुलोमम् अनुलोमः । अवलोमम् अवलोमः। अव्ययीभावे तु परखाद्विकल्पः । साम साम प्रति सान्नोऽभिमुखं वा प्रतिसाम प्रतिसामम् । साम सापान । -ऋक्पू-॥-त्रिपुरमिति ॥ तिसृणा पुरा समाहार ॥ उत्तरपदस्यादन्तत्याभायात् ग्रीत्वाभाव । किंतु अन्यस्तु सर्वो नपुसक ॥-प्रयोगनिवृत्त्यर्थमितिसमासान्तविषये व्यञ्जनान्तयो प्रयोगो न भवतीत्यर्थ ॥-धुरो-||-अक्षसवन्धिनी नेति । शब्दद्वारकमेतन्नार्थद्वारकमातेन महाधुर शकटमिति सिद्धम्॥-द्विधरीत्यादिद्वयोधुरो समाहार तिसृणा धुरा समाहार ।अन्यस्तु सर्वो नपुसक इाते वचने सत्यपि तयालमिति स्त्रीरवे । द्विगो. -प्रति डी ॥-सम-॥-अन्ध करोतीति । आन्धण इमेतस्याचि तत करोत्यय णिचि ततोऽधि सामानाधिकरण्यम् ॥-प्रत्य-॥ विलोमेनेति तु पृपोदरा
॥३८
AMPCAS