________________
SOCIA
किमक्षिाह्मणः । किम इति किम् । कुराजः । दुःसखः । क्षेपे इति कि । केपा राना किरानः । किसखः । किंगवः ॥ ७० ॥ नञ्तत्पुरुषात् ॥ ७ । ३। ७१ । नञ्तत्पुरुषावक्ष्यमाणः समासान्तो न भवति । न क अनृक् । अराजा । असखा । अपन्थाः । अपथमिति पथशब्दस्य यथा कुपथम् । तत्पुरुपादिति । किम् । न विद्यते धूरस्य अधुरं शकटम् । अपथोऽयमुद्देशः । राज्ञामभावोऽराज वर्तते ॥७२॥ पूजास्वतेः प्राक् दात् ॥ ७ ॥ ३ । ७२ ॥ पूजायां यौ स्वती ताभ्यां परे य ऋगादयस्तदन्तात्समासात् 'बहुव्रीहे: काष्ठेटः' (७-३-२२५) इति टप्रत्ययात्माक् यः समासान्तो वक्ष्यते स न भवति । शोभना धूः सुधः। अतिधूः । सुराजा । अतिराजा । सुधः शकटम् । अतिधः शकटम् । सुसखा । अतिसखा । सुगौः। अतिगौः। पूजाग्रहणं किम् । अतिक्रान्तो राजानमतिराजः। अतिसंखः । अतिगवः । स्वतेरिति किम् । परमधुरा । परेमराजः। परमसखः । परमगवः । प्राक्टादिति फिम् । स्वलं काष्ठम् । अत्यगुलं काष्ठम् । मुसक्थः । अतिसक्थः । स्वक्षः। अत्यक्षः॥ ७२ ॥ बहोडें ॥७॥३॥ ७३ ॥ डे डविपये डमसङ्गो यत्र ततो वहन्तात्समासान्तो डः कच् च न भवति । आसन्ना बहवो येपां ते आसन्नवहवः । उपबहवः । बहोरिति किम् । द्विवाः । उपदशाः । ड इति किम् । प्रिया बहवोऽस्य मियबहुकः ॥ ७३ ॥ इच् युद्धे ॥ ७।३ । ७४ । युद्धे यः समासो विहितस्तस्मादिच समासान्तो भवति । केशाकशि । दण्डादण्डि । मुसलामुसाल । मुष्टामुष्टि । अस्यास । चकारः 'इच्यस्वरे दीर्घ आच' (३-२-७२) इत्यत्र "विशेषणार्थः ॥ ७४ ॥ द्विदण्ड्यादिः ॥ ७।३ । ७५ ॥ द्विदण्डि इत्येवमादयः समासा इजन्ताः साधवो भवति । द्वौ दण्डावस्मिन् महरणे द्विदण्डि प्रहरति । एवं द्विमुसलि । उभादन्ति उभयादन्ति । उभावाहु । उभयावाहु । उभौ हस्तावस्मिन्पाने उभाहास्त पिबति । एवमुभयाहस्ति । उभापाणि उभयापाणि । उभाजलि । उभयाजलि । उभौ कर्णावस्मिन् श्रवणे उभाकर्णि शृणोति । एवप्नुभयाकर्णि । अन्ते वासोऽस्मिन्स्थानेऽन्तेवासि तिष्ठति । अन्तेवासी गुरोरिति ताच्छीलिकान्तोऽन्य एष शब्दः । संहितानि पुच्छान्यस्मिन् सरणे सहितपुच्छि धावन्ति । एकः पादोऽस्मिन् गमने | एकपदि गच्छाते । समानौ पादावस्मिन्सपदि गच्छति । आच्यपादौ आच्यपादे शेते । एवं प्रोलपादे हास्तनं वाहयाते । निकुच्य कौँ निकुच्यकर्णि धावति । तिष्ठद्गवादित्वादव्ययीभावः । उभावाहु उभयावाहित्यत्र निपातनादिज्लुपि स्थानिवद्भावादिजन्तत्वेनाव्ययीभावसंज्ञा । विभक्त्यलुक् पादस्य पद्भावः समानस्य अपि भवन्ति ॥-नञ्-॥-कुपथमिति । यद्यन पधिन्शब्द स्यात्तदा ' काक्षपथो' इति प्रवःता-वहो---||--आसन्नबहव इति । 'आसनादुर'-इति स । 'बहुगण भेदे' इति सख्या पद्भावात् 'प्रमाणीसख्याड् ड' इति इप्रत्ययः प्रामोति । तस्मितिपिढे । शेषाद्वा ' इति कच्च प्राप्नोति । उभयस्यापि सामान्येनाय प्रतिषेध इत्युभयमपि न भवति ॥-उपबहव इति । 'अव्ययम्' इति समास -प्रियवहक इति 'एकार्य चानेक च' इति सामान्यसमासः । तत 'प्रमाणीसख्याड्डः' इत्पन्न प्रतिपदोक्कबहनोहेर्ग्रहणात् बहोवैपुल्यार्थत्वेन वा सख्यात्वाभावे ड ) समासान्तो न भवति पितु फच् ॥-इच् यु-~-विशेपणार्थ इति । अथ तत्रापि हारेत्येव क्रियताम् । न। तथा सति 'दृतिनाथात्पशावि ' इत्यास्मिन्नपीकारे दीर्घप्रसङ्ग ।।-द्विद-- उभयापाणीति । भस्स उभयोऽद्वित्वे इत्यनुपदकारसूत्र ततः उभय पाणि उभये वा पाणयो यस्मिन्नित्येकत्वे बहुत्वे एव वाक्य कार्यम् । एवमन्यत्रापि ॥