________________
श्री मश० ॥ ३७ ॥
T
लिङ्गम् ॥ ६५ ॥ परण् ॥ ७ । ३ । ६६ ॥ पशुइत्येवमादिभ्यः शस्त्रजीविसंघपाचिभ्यः स्वार्थेऽण् प्रत्ययो भवति स च द्रिः । परपत्यं बहवो माणत्रकाः पर्शवः । द्विस्वरत्वादण् * लुप् । शस्त्रनीविसंघः । पार्शवः । पार्शवौ । पर्शवः । राक्षसः । राक्षसौ । रक्षांसि । स्त्रियां तु 'देश्यणोऽप्राच्यभर्गादेः ' ( ६-१-१२३ ) इति लुप् । पशुः । अणो लुपि ' उतोऽमाणिनथ – ' (२-४-७३ ) इत्यादिनोङ् । पर्यु रक्षस् असुर वडिक वयस् ( वचस् ) वसु मरुत् सत्वन् सत्वन्तु दशाई पिशाच अशनि कार्यापण । इति पत्रादिः || ६६ ॥ दामन्यादेयः || ७ | ३ | ६७ ॥ दामन्यादिभ्यः शस्त्रजीविसंवेभ्यः स्वार्थे ईयः प्रत्ययो भ वृति स च द्रिः । दमनस्यापत्यं वहवः कुमारास्ते शस्त्रभीविसंघः दामनीय | दापनीयौ । दामनयः । औलपीयः । औलपीयौ । औलपयः । दामनि औलपि औपलि वैजवापि औकि आच्युतन्ति का कन्दि काकन्दकि ककुन्दि ककुन्दकि शान्तपि ( शत्रुन्तपि ) सार्वसेनि विन्दु तुलभा मौज्जायन औदमेघि औपविन्दि सावित्रीपुत्र कण्ठीरथ कौण्डो पर कौण्ठारथ दाण्डकि कौष्टकि जालमानि जारमाणि ब्रह्मगुप्त ब्राह्मगुप्त जानकि । इति दामन्यादिः ॥ ६७ ॥ श्रुमच्तमीवच्छखावच्छालावर्णावदिभिजितो गोत्रेऽणो यञ् ॥ ७ । ३ । ६८ ॥ शस्त्रजीविसंघादिति निवृत्तम् । श्रुमच्छमीवच्छिखावच्छाला वर्णावद्विद भृद्भिजिदित्येतेभ्यो गोत्रे योऽण् तदन्तेभ्यः स्वार्थे यञ् प्रत्ययो भवति स च द्रिः । श्रुतोऽपत्यमण् तदन्ताद्यञ् । श्रौमत्यः । श्रौमत्यौ । श्रौमताः । श्रीमच्छन्द्रादपि केचिदिच्छन्ति । श्रमत्यः । श्रमस्यौ । श्रैमताः । शामीवत्यः । शामीवत्यौ । शामीवताः । शैखावत्यः । शैखावत्यौ । शैखावताः । शालावत्यः । शालावत्यौ । शालावताः । और्णावित्यः । और्णावत्यौ । और्णावताः । वैदभृत्यः । वैदभृत्यौ । वैदभृता । आभिजित्यः । आभिजित्यौ । आभिजिताः । गोत्रग्रहणं किम् । श्रुमत इदं श्रौमतम् । अभिजितो मुहूर्तः । आभिजितः स्थालीपाकः । अपत्यप्रत्ययान्तात्स्वार्थिको ऽपत्य एव वर्तते इति तदाश्रयः प्रत्ययो भवति । श्रौमत्यस्यापत्यं युवा श्रौमत्यायनः । आभिजित्यायनः । अत्र ‘यञिञः' (६-१-६४ ) इत्यायनण्। श्रौमत्यस्यायं श्रौमतकः। आभिजितकः । अत्र 'गोत्राददण्ड ' - ( ६-३ - १६८) इत्यादिनाऽकञ् । श्रौमतानां समूहः श्रौमतकम् । आभिजितकम् । अत्र 'गोत्रोक्ष'- (६-२-१२) इयादिनाऽरुन् । श्रौमत्यस्य संधादि श्रौमतम् । अभिजितम् । अत्र 'संघघोपाइलक्षणेऽञ्यञिञः (६-३-१७१) इत्यण् ॥६८॥ * समासान्तः || ७ | ३ || ६९ || अधिकारोऽयमा पादपरिसमाप्तेः । अतः परं ये प्रसयास्ते समासस्यान्ता अवयवा भवन्ति तद्ग्रहणेन गृह्यन्ते । प्रयोजनं बहुत्रीव्ययीभावद्विगु द्वन्द्वसंज्ञाः । सुजम्भे सुजम्मानौ खियौ । अत्रानो बहुव्रीहिग्रहणेन ग्रहणात् डाजीविकल्पः सिद्धः । उपधुरम् उपशरदम् । अत्रातोऽव्ययीभावग्रहणेन ग्रहणाद्विभकीनामम्भावः । द्विधुरी । त्रिधुरी । अत्र द्विगुग्रहणेन ग्रहणान्ङीः । वाग्दृषदिनी सत्वचिनी । अत्र द्वन्दग्रहणेन ग्रहणादिन् ॥ ६९ ॥ न किमः क्षेपे । ७ । ३ । ७० || निन्दाया यः किशन्दस्तभ्यात्ः पर य ऋगादयो यानुपादाय समासान्तो विधास्यते तदन्ताद्वक्ष्यमाणः समासान्तो न भवति । किं न तथा गुर्वी । किंराजा यो न रक्षति । स किंसखा योऽभिदुद्धति। किंगौर्यो न वहति । का कुत्सिता घूरस्य किंधूः शकटम् । के कुत्सिते अक्षिणी अस्य विधेयस्तर्हि तानपि पदिषु प्रक्षिप्य तेभ्योऽप्यण् विधेष इत्याशङ्का ॥ - पव ॥ - लुविति । खियामेकत्वेऽपि लुग्भवतीत्यर्थ ॥ समा ॥ द्वंद्व सशा इति । उपलक्षण चेद्र कर्मधारयादिसज्ञा
स०अ०तु
॥ ३७ ॥