________________
श्री हेमश०
॥ ३६ ॥
विकारात् प्रत्ययो न भवत्यपि । यो भवतां कठः स आगच्छतु । बहूनामिति किम् । योऽस्मिन् ग्रामे कः स आगच्छतु । पश्न इति किम्। क्षेपे माभूत् । । को भवतां कः कुत्सित इत्यर्थः । प्रश्नग्रहणं किमो विशेषणं नान्यस्यासंभवात् । अन्ये त्याहुः यत्तत्किभ्यो जातावेव उतमः, डतरस्तु बहूनां निर्धायें किम एव न यत्तद्भ्याम्, सच जातावेव, अन्यशब्दादपि बहुविषये उतम एव न तु डतरः, डतरडतमौ च निर्घायें अन्यशब्दानित्यादेव नाक, नापि केवलस्य प्रयोगः, एके त्वविशेषेणेत्यत्राभिधानमनुसर्तव्यम् ॥ ५४ ॥ चैकात् ॥ ७ । ३ । ५५ ॥ एकशब्दात् बहूनामेकस्मिन् निधार्येऽर्थे वर्तमानात् तमः प्रत्ययो वा भवति । एकतमो भवतां कठः पटुर्गन्ता देवदत्तो दण्डी वा । वावचनादम् । एककः । महावाविकारान्न भवत्यपि । eat aai na: । पृथग्योगो तर निवृत्यर्थः ॥ ५५ ॥ तान्तमवाश्वात्यन्ते ॥ ७ । ३ । ५६ ॥ कान्तात्केवलात्मवाद्यन्ताच्चानत्यन्तेऽर्थे वर्तमानाव कप् प्रत्ययो भवति । क्रियायाः स्नायेण साकल्येनानभिसंबन्धोऽनत्यन्तता । अनत्यन्तं भिन्न भिन्नकम् । अनसन्तं छिन्नं छिन्नकम् । अनत्यन्तं भिन्ना भिन्निका घटी । छिन्निका रज्जुः । तमवाद्यन्तात् क्तात्, अनत्यन्त भिन्नतमं भिन्नतमकम् । एवं भिन्नतरकम् । franल्पकम् । छिन्नतमकम् । छिन्नतरम् छिनकल्पकम् । तमवायतेषु कान्तता नास्तीति तमनादिग्रहणम् । असमासस्तमवादेरित्यत्रापि क्तादित्यस्य संबन्धार्थः । तेनेह न भवति । अनत्यन्तं शुक्लतमम् ॥ ५६ ॥ न सामिवचने ॥ ७ । ३ । ५७ ॥ सामि अर्धः । सामिवचने उपपदे अनत्यन्तेऽर्थे वर्तमानात् कान्तात्केवलात्तमवाद्यन्ताच्च कप् प्रत्ययो न भवति । सामि अनत्यन्तं भिन्नम् । एवं कृतं भुक्तं पीतम् । भिन्नतमम् । भिन्नतरम् । वचनग्रहणं पर्यायार्थम् । अर्धमनत्यन्तं भिन्नम् । नेममनत्यन्तं भिन्नम्। एवं शकलं खण्डमित्यादि । अन् एवोदाहरन्ति । सामिकृतम् अर्धकृतमिति । ननु साम्यादिभिरेवानन्तताया अभिहितत्वादुक्तार्थत्वेन कप् न प्राप्नोतीति व्यर्थः प्रतिषेधः । उच्यते । साम्यादिभिः समुदायविषयतियाया एवानत्यन्तता प्रतीयते न स्वविषये । तत्रानत्यन्तविवक्षायां कम् प्रानोतीति प्रतिषेधवचनम् ॥ ५७ ॥ नित्यं जजिनोऽण् ॥ ७ । ३ । ५८॥ अञिन् इत्येतत्प्रत्ययान्तात्स्वार्थे नित्यमन् प्रत्ययो भवति । नित्यग्रहणान्महाविभाषा निवृत्ता । व्यावक्रोशी | व्यावलेखी । व्यावहासी वर्तते । निन्, सांकोटिनम् । सांराविणम् | सामार्जिनम् ||५८ || विसारिणो मत्स्ये || ७ | ३ |५ ९ | विसारिन् शब्दान्मत्स्ये वर्तमानात्स्वार्थेऽण् प्रत्ययो भवति । विसरतीति विसारी । ग्रहादित्वा ण्णिन् । मत्स्यथेत् वैसारिणः । मत्स्य इति किम् । विसारी देवदत्तः ॥ ५९ ॥ पूगादमुख्याञ्ज्यो द्वि: || ७ | ३ | ६० ॥ नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः संघाः पूगाः । पूगवाचिनो नाम्नः स्वार्थे ञ्यः प्रत्ययो भवति सच द्रिमंज्ञः न चेत्पूगवाचि नाम 'सोऽस्य मुख्यः (७-१-१९० ) इति विदितकमयान्तं भवति । लोहध्वजाः पूगाः । लौहध्वज्यः । लौहध्वज्यौ । लोहध्वजाः । शैव्यः । शैन्यौ । शिवयः । वातक्यः । वातक्यौ । वातकाः । द्वित्वात् बहुष्वस्त्रियां लुप् । अमुख्यकादिति किम् । देवदत्तो मुख्योऽस्य देवदत्तकः, इन्द्रानिलुप्तकः पूगः ॥ ६० ॥ व्रातादस्त्रियाम् ॥ ७ ॥ ३ ॥ ६१ ॥ नानाजातीया अनियतवृत्तयः
स०अ०त्
॥ ३६ ॥