________________
लुक्युत्तरपदस्य कपन् ॥ ७॥ ३ ॥ ३८॥ नृनाम्नो यदुत्तरपदं तस्य ते लुग्वेति लुकि सति ततः कप्न् प्रत्ययो भवति अनुकम्पायां गम्यमानायाम् । कवादीनामपवादः । देवदचो देवः । अत्र 'ते लुग्वा' (३-२-१०८ ) इत्युत्तरपदलोपः। अनुकम्पितो देवः देवकः । एवमनुकम्पितो यज्ञः यज्ञकः । पकारः पुंबद्भावार्थः । नकारः 'इच्चापुंसोऽनित्क्याप्परे' (२-४-१०६ ) इसत्र पर्युदासार्थः । अनुकम्पिता देवी देवका । अत्र कति सति पित्त्वात्पुंबद्भावे नित्वादाप्परेऽपि ककारे इत्वं न भवति । उत्तरपदस्येति किम् । देवदत्ता दत्ता । अत्र 'ते लुम्बा' (३-२-१०८) इति पूर्वपदस्य लुन् । अनुकम्पिता दत्ता दत्तिका । पूर्वेण कए | ॥ ३८ ॥ *लुक् चाजिनान्तात् ॥ ७॥ ३ ॥ ३९ ॥ अजिनशब्दान्तान्मनुष्यनाम्नोऽनुकम्पायां गम्यमानायां कप्न् प्रत्ययो भवति तत्संनियोगे लुक् चोत्तरपदस्य |
व्याघ्राजिनो व्याघ्रमहाजिनो वा नाम मनुष्यः सोऽनुकम्पितो व्याघ्रकः । एवं सिंहकः । शरभकः । वृककः । कृष्णकः । उलकः अनुकम्पिता व्याघ्राजिना व्याघमहाजिना वा व्याघ्रकाः । सिंहकाः । 'आतो नेन्द्रवरुणस्य ' ( ७-४-२९ ) इत्यत्र ज्ञापनादकृतसंधेरेवोत्तरपदस्य लुक् ॥ ३९ ॥ षड्व कस्वरपूर्वपदस्य खरे ॥७॥३॥४०॥ पट्छन्दवर्जितमेकस्वरं पूर्वपदं यस्य तत्संबन्धिन उत्तरपदस्यानुकम्पायां विहिते स्वरादी प्रलये लुा भवति । उत्तरसूत्रस्यापवादः । अनुकपितो वागाशीः वाग्दत्तः वागाशीर्दत्तो वा वाचियः । वाचिकः । वाचिलः । एवं त्वचियः । त्वचिकः । स्वचिलः। सुवियः । सुचिकः। सुचिलः। पड्वकस्वरपूर्वपदस्थति किम् । उपेन्द्रेण दत्तः उपेन्द्रदत्तः । सोऽनुकम्पितः उपडः उपकः उपियः उपिकः उपिलः । उत्तरेण लुक् । षड्वर्जेति किम् । अनुकम्पितः पडगुलिः षडियः । षडिकः । षडिलः । अत्रोत्तरेण द्वितीयस्वरादूर्ध्व लोपः । तथा चावणेवर्णस्येत्यल्लुचः स्थानिवद्भावात्पदत्वस्यानिवृत्तेस्तृतीयत्वं न निवर्तते । षड्वर्जनादेव च पदवे संधिविधावपि अल्लकः स्थानित्वनिषेधो न भवति । स्वर इति किम् । वागाशीकः वागाशीर्दत्तकः ॥ ४० ॥ अदितीयात्स्वरादूर्ध्वर ७। ३ । ४१॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतद्धितीयात्स्वरादुर्धे शब्दस्वरूपस्य लुम् भवति । अनुकम्पितो देवदत्तो देवियः । देविकः । मन्कप्लतिन्यायेनाधिकारानुवृत्तिरिति ननामेति पद न सवध्यते । ततोऽत्र विशेषणशब्दत्वेन नृनामत्वाभावेपि व्यावृत्तेर्न पङ्गविकलता । यदा तु ननामेत्यत्रापि | संबध्यते तदेइमपि नृनाम विवक्ष्यते । ततः । अजातेनाम्नः ' इत्पनेन इयादी प्रत्यये विकल्पेन सति मद्रिय मद्याहुक इत्यादीन्यपि भवन्ति ॥-लुक्चा -॥ पूर्वोत्तरपदस्य लुकि कलि देवकः लुगभावे तु कपि देवदत्तकः एव च रूपदय स्यादिति । अत्र हि अजिनान्तादेव कमि नित्य लुकि व्याघ्रक एवेति । अयमत्र भाव अजिनान्तस्यानुकम्पायां कमसभियोग एवं लुक् । तेन ग्याघ्राजिनक इति न भवति ॥-घड्व-॥-याचिय इति । नम्वत्र एकस्वरादूर्व लोपे सति 'चज' कगम्' इति कथ न भवति यतोऽन्तवर्त्तिविभक्तिमाश्रित्य पदसज्ञाऽस्ति । उच्यते । यदि प्रत्यये परभावभाजि अन्तवर्तिनी विभक्तिमाश्रित्य पदसज्ञा स्यात्तर्हि सित्येवेति नियमान भवति पदत्वम् ॥ अधेत्थं भणिष्यन्ति सित्येवेति नियमस्तदा प्रवर्तते यदा वागाशीदत्तएवविधस्य प्रामोति किचित् । यतः प्रत्ययः प्रकृत्यादे.' इति । नेवम् । यतः षड्वर्जनात् पूर्वपदस्यापि पदसज्ञायां कर्तव्यायां सित्येवेति नियम प्रवर्त्तते यतोऽन पडिक इत्यादिसिद्ध्यर्थ पटवर्जनं क्रियते । तच्च तदभावेपि सेत्स्यतिायतोऽतेन सूत्रेणाङ्गुलि होपेपि' प्रत्यय प्रकृत्यादेः इति परिभाषया पदरतस्यानियुत्ते ।यद्वाऽवयवसमुदागयोरभेदोपचारात्समुदागस्य विभफिरवयवात द्रष्टव्या ततःसित्येवेति नियमः प्रवर्तते॥-द्विती-॥