________________
द्यन्तेभ्यः कप भवत्येव । अयमेपामातिशयेन पटुः कुत्सितः पटुतमकः । अयमनयोः पटुतरकः । पटुरूपकः । पटुकल्पकः । पटुदेश्यकः । पटुदेशीयकः। कप इति किम् । कुटीरतमः । पकारः किम् । लोहितकतमो मणिः । लोहितकतममक्षि कोपेन । अच्छिन्नादिभ्य इति किम् । कुत्सितोऽल्पोऽज्ञातो वा छिन्नः छिन्नकः। अयमेषामतिशयेन छिन छिन्नकतमः । छिन्नकतरः । छिन्नकरूपः । छिन्नककल्पः । छिन्नादयः प्रयोगगम्याः ॥ १३ ॥ अनत्यन्ते ॥७।३ । १४ ॥ अनत्य- 18 न्तेऽर्थे यः कप् तदन्तात्तमवादिन भवति । छिन्नाद्यर्थ वचनम् । अनत्यन्तं छिन्नं छिन्नकम् । अनसन्तं भिन्न भिन्नकम् । इदमेपां प्रकृष्टं छिन्नकम् प्रकृष्टं भिन्नकम् । 18 इदमनयोः प्रकृष्ट छिन्नकम् प्रकृष्टं भिन्नकम् । यदा तु प्रकर्षवतोऽनत्यन्तविशिष्टविवक्षा तदा तमशयन्तात् 'क्तात्तमवादेश्चानत्यन्ते' (७-३-५६) इति कव् भवत्येव । छिन्नतमकम् । छिन्नतरकम् । भिन्नतमकम् । भिन्नतरकम् ॥ १४ ॥ यावादिभ्यः कः ॥७॥३॥ १५ ॥ याव इत्येवमादिभ्यः स्वार्थे कः प्रत्ययो भवति । याव 18 एव यावकः । मणिरेव मणिकः । अविरेव अविकः । याव मणि अवि अस्थि लात्र पात्र पीत स्तब्ध ज्ञात अज्ञात पुण्य नित्य सत्वत् दशाई वयस् चन्द्र जानु । भूत भिक्षु इति। यावादिराकृतिगणः । तेनाभिन्नतरकम् बहुतरकमित्यादि सिद्धम् ॥ १५॥ कुमारीकीडनेयसोः॥७॥३॥ १६ ॥ कुमारीणां यानि क्रीडनानि तद्वाचिभ्य इयमुमत्ययान्तेभ्यश्च स्वाथै कः प्रत्ययो भवति । कन्दुरेव कन्दुकः । उत्कण्टकः । गिरिकः । समुद्कः । “दोलिका । भ्रमरकः । शृङ्गकम् । इयसु, श्रेयानेव | श्रेयस्कः । “ज्यायस्कः। भूयस्कः ॥ १६ ॥ लोहितान्मणौ ॥ ७।३ । १७ ॥ लोहितशब्दान्मणौ वर्तमानात् स्वार्थे का प्रत्ययो वा भवति । लोहित एव || लोहितको मणिः । लिङ्गविशिष्टस्यापि ग्रहणाल्लोहिन्येव लोहिनिका मणिः । लोहितैव लोहितिका मणिः । मणेविशेषणमेतदित्यके । नामधेयमित्यन्ये । वाधिकारान्न भवत्यपि । लोहितो मणिः । मणाविति किम् । लोहिता गौः॥ १७॥ रक्तानित्यवर्णयोः॥७॥३॥१८॥ रक्ते द्रव्यान्तरेण लाक्षादिना वर्णान्तरमापादितेऽनित्ये च वर्णे वर्तमानालोहितशब्दाका प्रत्ययो वा भवति । रक्ते, लोहित एव लोहितकः पटः । लिङ्गविशिष्टस्यापि ग्रहणात् लोहिनिका शाटी। लोहितिका पटी । अनिसवणे, लोहितकमक्ष्णो रूपं कोपेन । लोहितकमक्षि कोपेन । लोहिनिका लोहितिका कन्या कोपेन । वाधिकारान्न भवत्यपि । लोहिता लोहिनी वा कोपेन । *नित्योऽपि रक्तो वर्णोऽस्ति यथा कृमिरागादिरक्ते पट इति रक्तग्रहणम् । अनित्यग्रहणं किम् । लोहित इन्द्रगोपकः । *सत्येवाश्रयद्रव्येऽपयनिहानित्य उच्यते । अन्यथा रक्तग्रहणस्यानर्थक्यात। वर्णग्रहणं द्रव्यनिवृत्त्यर्थम्। असति वर्णग्रहणे खीणामातवे द्रव्ये स्यात। तद्धि सखेवाश्रये स्त्रियां कदाचिन्न भवति लोहितशब्दवाच्यं च॥१८॥ कालात् ॥७३।१९। कालशब्दोत्कजलादिना रक्ते अनित्यवणे चार्थे वर्नमानाकः प्रत्ययो वा भवति । रक्ते, काल एव कालकः पटः। अनित्यवणे, कालकं मुखं वैलक्ष्येण । 'तद्धित स्वरवृद्धि -'इति तद्धिताककोपान्त्य-' इत्याभ्या निषिद्वीपि 'रिति' इत्यनेन पुवद्भावः।-कुमा-1-दोलिकति । दोलैव 'इच्चापुसोनि-'इति वा इत्वम्॥-ज्यायस्क इतिद्वयोर्मध्ये प्रकृष्टो वृद्ध. प्रशस्यो वा
ईयसुः ' वृद्धस्य च ज्य"ज्यायान् ' इति इंकारस्य आकार । ज्यायानेय ' प्रत्यये ' इति सूत्रेण स. ॥-भूयस्क इति । द्वयोर्मध्ये प्रकृष्टो बहु. ईयसि 'भूलक् चेवर्णस्प' भूरादेश 1 ईलोपश्च ॥-रक्ता-॥-नित्योपीत्यादि ॥ ननु रक्के वस्तुनि भनित्य एव वणों भवति यथा हरिद्वादो । तत्रानिपवर्गे इषेत्र प्रत्यय. सिध्यति किमर्थ रक्तप्रहणमित्याशदका ॥-सत्येवेति ।