________________
| वाधिकारान भवत्यपि । कालः पटः । काल मुखम् ॥१९॥ शीतोष्णादृतौ ॥७॥३॥२०॥ शीतोष्णशब्दाभ्यामृतौ वर्तमानाभ्यां का प्रत्ययो वा भवति । शीत एव शी| तक ऋतुः । उष्णक ऋतुः । हताविति किम् । शीतो वायुः । उष्णः स्पशेः ॥२०॥ लूनवियातात्पशी॥
७२श लूनवियातशब्दाभ्यां पशौ वर्तमानाभ्यां स्वार्थे का प्रत्ययो वा भवति। लून एवं लूनकः । वियातकः पशुः। पशाविति किम् । लूनो यवः । वियानो बटुः । विहानशब्दादपीच्छन्त्येके । विहानकः पशुः। विहान एवान्यत्र ॥२१॥ लातावेदसमाप्तौ ॥ ७॥ ३ ॥ २२ ॥ स्नातशब्दावेदसमाप्तौ गम्यमानायां का प्रत्ययो भवति । वेदं समाप्य स्नातः स्नातकः । वेदसमाप्तापिति किम् । तीर्थ स्नातः ॥ २२ ॥ तनुपुत्राणुबृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्त ॥ ७ । ३ । २३ ।। तनुपुत्राणुवृहतीशून्य इत्येतेभ्यो यथासंख्य सूत्रकत्रिमनिपुणाच्छादनरिक्त इत्येतेष्वर्थेषु वर्तमानेभ्यः स्वार्थे का प्रत्ययो भवति । तनोः सूत्रे, तनु सूत्रं तनुकम् भद्गादिमयं कल्पादि चं। सूत्र इति किम् । तनुर्वशः। पुत्रात कृत्रिमे, कृत्रिमस्तक्षादिन्यापारनिष्पादितः । कृत्रिमः पुत्रः पुत्रकः । कृत्रिम इति किम् । औरसः पुत्रः । अणोनिपुणे, निपुणो निष्णातोऽणुः अणुकः । निपुण इति किम् ।। अणुव्रीहिः । बृहत्या आच्छादने, वृहतिका आच्छादनविशेषः । प्रत्ययमन्तरेणार्थानवगमात् नित्य एवायं विधिः । आच्छादन इति किम् । बृहती छन्दः ।। बृहती ओषधिः । शून्यादिक्ते, रिक्तो धनप्रज्ञादिना, शून्य एव शून्यकः रिक्तश्चेत् । रिक्त इति किम् । शुने हितं शून्यम् । अन्ये तु सूत्रादयोऽर्थाः प्रन्ययमन्तरेण न प्रतीयन्ते इति तद्विषये तन्वादिभ्यो नित्य एव प्रत्ययविधिरिति मन्यन्ते । एवं पूर्वसूत्रेऽपि ॥ २३ ॥ भागेऽष्टमाञः ॥७॥३॥ २४ ॥ अष्टमशब्दाभागेऽशे | वर्तमानात्स्वार्थे जः प्रथयो वा भवति । अष्टम एवाटपो भागः । भाग इति किम् । अष्टमो जिनः चन्द्रपभः ॥ २४ ॥ षष्ठात् ॥ ७॥ ३.। २५ ॥ षष्ठशब्दाभागे वर्तमामात्स्वार्थे जः प्रत्ययो वा भवति । पष्ठ एव पाठो भागः । भाग इति किम् । पष्ठो जिनः पद्मप्रभः। योगविभाग उत्तरार्थः॥२५॥माने कश्च ॥ ७।२।२६ ॥ मीयते येन तन्मानम् । तस्मिन् माने भागे वर्तमानात् पष्ठशब्दात्कश्चकाराजश्च प्रत्ययौ वा भवतः । पष्ठ एव पष्ठकः पाष्ठो भागः मानं चेत् । मान इति किम् । पष्ठ एव पाष्टो भागोन्यः ॥२६॥ एकादाकिन चासहाये ॥७।३।२७ ॥ एकशब्दादसहायार्थवाचिन आकिन् प्रत्ययो भवति चकाराल्कश्च । एक एव एकाकी एककः । असहाय इनि किम् । एक आचार्योः । एको द्वौ बहवः ॥ २७ ॥ प्राग् नित्यात्कम् ॥ ७ ॥ ३ ॥२८॥ नित्यशब्दसंकीर्तनाव प्राग्येऽर्थास्तेषु द्योत्येषु कप प्रत्ययोऽधिकतो वेदितव्यः । कुत्सितोऽल्पोऽज्ञातो वा अधः अश्वका गर्दभकः। पकारः बद्भावार्थः । कुत्सिता दरद्दारदिका । माग नित्यादित्यवध्यर्थम । अन्यथापवादयाधितो नात्तरत्रानुवतेत । परतोऽपि चानुवर्तते ॥ २८ ॥ त्यादिसवोदेः स्वरेष्वन्त्यात्पूर्वोऽक् ॥ ७ ॥३ । २९ ॥ त्यायन्तस्य इन्द्रगोपकाभावे लोहितापनिवृत्तावपि नानित्यत्वमिति ॥-तनु-॥-नित्य एवायमिति । आच्छादनरूपस्यायस्यानवगमात् ॥-प्राग्नि-1-दारदिकेति । दरदां राज्ञी 'पुरुमगध-' इत्यण् । | रेषणो-' इति सुप् । ततोनेन कपि ' क्यमानि-' इत्यनेन अश्लोपनित्तिरूपे पुवावे 'आत्' इत्याप् । 'अस्पायचत्-' इत्वम् । यदा स्वपत्ये अण् तदा गोत्र च धरणे संहति जातिये । सादात् डीजांविधा' इति पुपतिषेधः स्पार ॥ स्यादि-॥ यकष्पित्पापिषु बहुमीहिवर्ग समासः कार्य, बहुमीही तु । नित्यदितः । कच् स्पात् ।