________________
श्रीहेमश०
इति न भवति । ईयसोरुकार उदित्कार्यार्थः । पटीयसी ॥ ९ ॥ त्यादेश्च प्रशस्त रूप ॥७ ।२।१०॥ त्यायन्तानाम्नथ प्रशस्तेऽर्थे वर्तमानाद्रूपप् प्रत्ययो भवति । प्रशस्तं पचति पचतिरूपम् । पचतोरूपम् । पचन्तिरूपम् । त्योयन्तानां क्रियामधानत्वात्तस्याश्च साध्यत्वेन लिङ्गसंख्याभ्यामयोगात् रूपवन्तस्यौत्सर्गिकमेकवचनं नपुंसकलिङ्ग च भवति । प्रशस्तो वैयाकरणों वैयाकरणरूपः । पण्डितरूपः । प्रकृते प्रवृचिनिमित्तस्य वैस्पष्टयम् परिपूर्णता प्रशस्तत्वम् । तेनात्रापि भवति । वृषलरूपोऽयमपि पलाण्डुना सुरी पिवेत् । दस्युरूपोऽयमप्पक्ष्णोरजनं हरेत् । पटुतमरूपः । पटुतररूपः । पकारः पुंवद्भावार्थः । शोभनरूपा । दर्शनीयरूपा ॥१०॥ अतमयादेरीषदसमाप्ते कल्पप देश्यप् देशीयर ॥ ७।३।११॥ त्यादेश्चेति वर्तते । संपूर्णता पदार्थानां समाप्तिः। सा किंचिंदना ईपदसमाप्तिः। तविशिष्टेऽथें वर्तमानात्त्याद्यन्तानाम्नश्च तमवाद्यन्तवर्जितात कल्पप् देश्यप देशीयर् इत्येते प्रत्यया भवन्ति । ईपदसमाप्त पचति पचतिकल्पम् । पचतिदेश्यम् । पचतिदेशीयम् । पचतःकल्पम् । पचतोदेश्यम् । पचतोदेशीयम् । पचन्तिकल्पम् । पचन्तिदेश्यम् । पचन्तिदेशीयम् । पक्ष्यतिकल्पम् । अपाक्षीतकल्पमित्यादि। पूर्ववन्नपुंसकत्वमेकवचनं च । इदमेव त्यादिग्रहणं ज्ञापकम् शेषस्तद्धितो नान्न एव भवति । ईपदसमाप्तः पटुः पटुकल्पः पटुदेश्यः पटुदेशीय। कारककल्पः कारकदेश्यः कारकदेशीयः । कृतकल्पं भुक्तदेश्यम् पीतदेशीयम् । ईपदसमाप्तो गुडो गुडकल्पा द्राक्षा । गुडदेश्या । गुडदेशीया । पयस्कल्पा यवागूः । चन्द्रकल्प मुखम् । तैलकल्पा प्रसन्ना । गुडादिधर्माणां माधुर्यादीनां द्राक्षादिष्वीषदसमाप्तत्वात् गुडादित्वेनेपदसमाप्ता द्राक्षादय एवमुच्यन्ते । कल्पवाद्यन्तमुपमेये वर्तमानमुपमेयलिङ्गसंरूयस् । बहुप्रसयपूर्वं तु प्रकृतिलिङ्गसंख्यम् । स्वभावाच्छब्दशक्तिरेषा यदुत स्वार्थिकाः केचित् प्रकृतिलिङ्गान्यतिवर्तन्ते यथा कुटीर: शुण्डारः शमीरुः शमीरः दैवतम् औपयिकम् औषधम् वाचिकमिति । केचित्तु नातिवर्तन्ते यावकः मणिकः वृहतिका मृत्तिका कास्तरी गोणीतरी व्यावक्रोशी व्यावहासीति । अतमवादेरिनि किम् । यदा प्रकर्षादिविशिष्टस्येषदसमाप्तिविवक्षा भवति तदा तमवादिभ्यः कल्पवादयः प्राप्नुवन्त्यतस्ते मा भूवन् । यदा त्वीपदसमाप्तस्य प्रकर्षादयो विवक्ष्यन्ते ।। तदा कल्पवायन्तेभ्यस्तमवादयो भवन्त्येव । षटुकल्पतमः । पटुकल्पतरः । पटुदेश्यतमः । पटुदेश्यतरः । पटुकल्परूपः । पटुदेश्यरूपः । पकारी पुंवद्भावाौँ । दर्शनीयकल्पा । दर्शनीयदेश्या । केचिद्देश्य पितं नेच्छन्ति तन्मते दर्शनीयादेश्येखेव भवति । देशीयरिति रेफो 'रिति' (३-२-५८) इत्यत्र विशेषणार्थः। सौनदेशीया । पञ्चमदेशीया ॥ ११ ॥ नाम्नः प्राग्यहुर्वा ॥ ७॥३॥ १२ ॥ ईघदसमाप्तेऽर्थे वर्तमानान्नान्नो बहुमन्ययो वा भवति स च प्राक् पुरस्तादेव न परस्तात् । ईषदसमाप्तः पटुः बहुपटुः । बहुमृदुः । बहुभुक्तम् । बहुपीतम् । बहुगुडो द्राक्षा । बहुतैलं प्रसन्ना । बहुपयो यवागूः । बहुचन्द्रो मुखम् । नामग्रहणं सायन्तनिवृत्यर्थम् । त्याद्यन्तेषु सावकाशाः कल्पवादयो बहुना मा बाधिषतेति वावचनम् । तेन पक्षे तंऽपि भवन्ति ॥ १२ ॥ न तमवादिः कपोऽच्छिन्नादिभ्यः ॥ ७॥ ३॥ १३ ॥ छिन्नादीन् वजेयित्वान्यस्माद्यः कप् प्रत्ययस्तदन्तात्तमवादिः प्रत्पयो न भवति । अयमषां प्रकृष्टः पटुकः। अयमनयोः प्रकृष्टः पटुक प्रकर्षादिमतः कुत्सितत्वादिविवक्षायां तमवा-अत-॥-पचत:कल्पमिति । 'प्रत्यये' इत्यनेन सो न भवति भव्ययपयुदासेन नामो ग्रहणात् । भव्यय नाम तर्जनेनान्वदपि नाम गृह्यते ॥-सौप्रदेशीयेति । ईपदसमासा नाशी पञ्चमी वा । अनयो
reeeeeeeee..