________________
पाटलिपुत्रकाणां च पाटलिपुत्रका आन्यतमा इत्यत्र राश्यपेक्षया द्वित्वेऽपि शब्देन बहुत्वोपादानात्तरप् न भवति । “विभज्यग्रहणमद्वित्वार्थम् । प्रकृष्टे इत्येव ।। अयमनयोः पदः । सांकाश्यकेभ्यः पाटलिपुत्रका आढ्याः । पकारः पुंवद्भावार्थः । शुक्लतरा शाटी ॥६॥ कचित् ॥ ७॥३॥ ७॥ स्वार्थेऽपि तरप् प्रत्यया भवति । प्रकृष्टे सिद्ध एव । अभिन्नमेवाभिन्नतरकम् । उपपन्नमेवोपपन्नतरकम् । उच्चरेवोचैस्तराम् । कचिद्ग्रहणं शिष्टमयोगानुमरणार्थम् ॥ ७ ॥ कित्यायव्ययादसत्त्वे तयोरन्तस्याम् ॥७३८॥ किंशब्दात त्याद्यन्तात् एकारान्तादव्ययेभ्यश्च परयोस्तमप्तरपारन्तस्यामित्ययमादेशो भवति असत्त्वे न चेत्तौ सत्वे द्रव्ये इदंतदितिपरामर्शयोग्ये प्रकृष्टे वतते । इदमनयोरतिशयेन किं पचति किंतरां पचति । इदमेषामतिशयेन किं पचति कितमां पचति । त्यादि, द्वाविमौ पचतः अयमनयोतिश
येन पचति पचतितराम् । सर्वे इम पचन्ति । अयमेषां प्रकृष्टं पचति पचतितमाम्। अस्मादेव वचनात् त्यायन्तादपि बर्थप्रकर्षे तर बढर्थक तमप् भवति।पूर्वाहेतरां | भुङ्क्ते । पूर्वाहेतमाम् भुङ्क्ते । अपराह्नेतराम् । अपराह्नतमाम्।माहेतराम् । माहृतमाम् । प्रगेतराम् । प्रगतमाम् । अग्रेतराम् । अग्रेतमाम् । एग्रहणसामर्थ्यात् काले सत्वेऽप्याम् भवति नान्यस्मिन्नदन्ताभावात् । अग्रेशब्दोऽपि कालवाची । अथवा विभक्त्ययों न द्रव्यम् । तत्मकर्षेऽत्र तरप्तमपो । शोभनो हेशब्दा यस्य स सुहेतर इत्यत्रानभिधानान्न भवति । क्रियाशब्देभ्यश्च, जयतीति विचि जेः जेतर इसादि।अव्यय, नितरामासुतराम्।अतितराम् अतितमाम् । अतीवतराम। नतराम् । उच्चस्तराम् ।उच्चैस्तमाम् । किसाघेव्ययादिति किम् । शीघ्रतरं गच्छति । असत्व इति किम् । किंतरं दारु । उच्चस्तर उच्चैस्तमो वृक्षः । उत्तरः । उत्तमः ॥ ८॥ *गुणाझाबेष्ठेयस ॥ ७ । ३।९॥ तयोरिति सप्तम्या विपरिणम्पत । गुणोऽङ्ग प्रवृत्तिनिमित्तं यस्य स गुणाः । यः शब्दो गुणमभिधाय द्रव्ये वर्तते । तस्मात्तयोस्तमप्तरपोर्विषये यथासंख्यमिठु ईयमु इसेतो प्रत्ययौ वा भवतः । पक्षे यथाप्राप्तं तमनरपौ च । तमवर्थे इष्टः । अयमेपामतिशयेन पटुः पटिष्ठः । पटुतमः । पटिष्ठौ । पटुतमौ । पटिष्ठाः । पटुतमाः। एवं लघिष्टः । लघुतमः । गरिष्ठः । गुरुतमः। म्रदिष्ठः । मृदुतमः । तरवर्थे ईयसुः । अयमनयोरतिशयेन पटुः पटीयान् । पटुतरः । गरीयान् । गुरुतरः। लघीयान् । लघुतरः । म्रदीयान् । मृदुतरः । परुद्भवान् पटुरासीत् पटीयानैषमः । पटुतरः। | माथुरेभ्यः पाटलिपुत्रकाः पटीयांसः । पटुतराः । गुणग्रहणं किम् । गोतमः । गोतरः। पाचकतमः । पाचकतरः । दन्ताष्ठस्य दन्ताः स्निग्धतराः । परुद्भवान् विद्वानासीत् ऐषमो विद्वत्तर इति । अत्र जातिक्रियाङ्गत्वान्न भवति । अङ्गग्रहणं किम् । शुक्लतमम् । शुक्लतरं रूपम् । अत्र हि गुण एव वृत्तिर्न तदपसर्जने द्रव्य णापि न भवति । पष्ठयन्तपदाभ्या समुदायस्याभिन्नस्यैव प्रतिपादनात् । न त्वत्राप्यपायप्रतिपादिका पञ्चम्यस्ति अपि तु चकारेणाविभाग प्रतीयते । ननु हुयोरित्युक्तपि अन भविष्यति विभज्यग्रहणेनेत्याह -विभज्यग्रहणमित्यादि । विभज्ये इत्यसति द्वयोरेव प्रकृष्टे स्यात् । ततश्चासत्यपि हि द्वित्वे विभज्ये यथा स्यादित्येवमर्थम् ॥-किल्यायेऽव्ययाद-॥-अस्मादेवेति । नामप्रस्तावात् 'त्यादेश प्रशस्ते रूपप् ' इति यवनाच नान्न एवं प्राप्नुत इति प्रभाशयः ॥ अथवेति । यद्यपि पूर्वाह्नोपराह्न इति कालः सत्वमा नामार्थ तथापि विभक्त्ययों याधिकरणशकिन सा आधेयपरतन्या इति तस्या असत्यात्तत्र प्रत्यय इति ॥-गुणा-॥-तदुपसर्जन इति । स गुण उपसर्जन यत्र तत्र ।