________________
प्रकृताः आपूपिकम् अपूपमयम् । शकुल्यः प्रकृताः शकुलिकम् शप्कुलीमयम् । प्रकृत इति किम् । अन्नम् घृतम् ॥ १॥ अस्मिन् ॥७॥३२॥ प्रकृतेऽर्थे वर्तमानान्नानोऽस्मिन्निति सप्तम्यर्थे मयट् प्रत्ययो भवति । अन्नं प्रकृतमस्मिन्नन्नमयं भोजनम् । अपूपमयं पर्व । वटकमयी यात्रा । यवागूमयी इष्टिः ॥२॥ तयोः समूहवच बहुषु ॥७॥३॥३॥ तयोः 'प्रकृते' 'अस्मिन्' इत्येतयोपिययोर्वहुपु वर्तमानान्नाम्नः समूहवत्मसयो भवति चकारान्मयद् च । अपूपाः प्रकृताः आपूर्षिकम् । अपूपमयम् । मौदकिकम् । मोदकमयम् । शाकुलिकम् । शकुलीमयम् । 'कवचिहस्यचित्ताचेकण् । धैनुकम् धेनुमयम् । 'धनोरनञः' । अपूपाः प्रकृता अस्मिन् आपूपिकम् अपूपमयं पर्व । मौदकिकी मोदकमयी पूजा । गणिकाः प्रकृता यस्यां यात्रायां गाणिक्या गांणकामयी यात्रा । 'गणिकाया ण्यः' । अश्वीया अश्वमयी यात्रा । 'वाश्चादीयः ॥३॥ निन्द्ये पाशप् ॥ ७ ॥३॥ ४॥ निन्येऽर्थे वर्तमानान्नाम्नः स्वार्थे पाशप् प्रत्ययो भवति । निन्धो वैयाकरणः वैयाकरण- १२३ णपाशः। छान्दसपाशः । निन्ध इति किम् । साधुर्वैयाकरणः । प्रयासत्तेः शब्दप्रतिनिमित्त कुत्सायामयमिष्यते । तेनेह न भवति । वैयाकरणश्चौरः। नहात्र चौर्येण वैयाकरणत्वं कुत्स्यते किं तहिं शीलमिति । पकारः पुंवद्भावार्थः । कुत्सिता कुमारी कुमारपाशा । किशोरपाशा । अथेह वयोवचनत्वात्पुनः कस्मान्न भवति । कुमारादयो वयोवचना न कुमारपाशादयः । निन्दावचना हि ते इति न भवति ॥ ४ ॥ प्रकृष्टे तमप् ॥ ७॥३॥५॥ प्रकृष्ट प्रकर्षवत्यर्थे वर्तमानानाम्नस्तमप् प्रत्ययो भवति । प्रकर्पोऽतिशयः । स च गुणक्रिययोरेव न जातिद्रव्ययोः । सर्वे इमे शुक्लाः अयमेषां प्रकृष्टः शुक्लः शुक्लतमः । शुक्लतमौ । शुक्लतमाः । एवमाढ्यतमः । सुकुमारतमः । कारकतमः । साधकतमः । प्रकृष्टतमः | जातिद्रव्यवचनेभ्योऽपि गुणक्रियाप्रकप विवक्षायां भवांत । गौरयं यः सुसंनहनः शकटं वहति । गोतमोऽयं यः सुलक्षणः शकटं सीरंच वहति । गोतमेयं या समांसमां विजायते सीवत्सा च । द्रव्यान्तरसमवायिना च प्रकृप्टेन गुणन कृत्वा प्रकृष्टे द्रव्ये तद्वतः प्रत्ययो भवति। अतिशयेन सूक्ष्माणि वखाण्यस्य सूक्ष्मवस्वतमः। प्रकर्षप्रसयान्ताच प्रकरयापि प्रकर्षविवक्षायां प्रत्ययो भवति। यथा युधिष्ठिरः श्रेष्ठतमः कुरूणाम्। तरवन्तात्तु तरपन भवति । अनभिधानात् । तथा यथा पूर्वपदातिशये पूर्वपदाबहुव्रीहेवों आतिशायिकःप्रत्ययो भवति सूक्ष्मतमवत्रः सूक्ष्मवत्रतमो वान तथोत्तरपदातिशये बहुत्रीहेः वडाट्यकतम इति किंतूत्तरपदादेव । वहव आध्यतमा यत्र भ्वहाब्यतमकः । केचित्तु पूर्वपदातिशये बहुव्रीहेरेवातिशायिकमिच्छन्ति । द्वयोः प्रकर्षे तरपो 23 तत्रैव वृत्ते पुसकत्वायोगादित्याशड्का ॥-निन्द्ये-॥-इति न भवतीति । ननु पाशप प्रत्ययस्य स्वार्थे उत्पन्नत्वात् कुमारपाशादयोऽपि वयोवचना इति प्राप्नोति । सत्यम् ॥ यत्र केवलवयोवाचित्व तत्रैव डी गौणमुख्ययारिति न्यायात् । कुमारपाशादयस्तु निन्दाविशिष्टवयोवाचिन इति ॥-प्रक-॥-सुसनहन इति । सुसबद्ध इत्यर्थ ।-समांसमामिाते। अत्र ' कालाध्वभाव-' इत्याधारस्य कर्मत्वे द्वितीयान्तस्य वीप्साया द्वित्वम् ॥-स्त्रीवत्सा चेति । खो वरसा यस्याः सा तथा ॥ सवत्सेत्युच्यमाने सह वत्सेन वत्सया वा वर्तते इति सशय स्यात् तन्निरासाय खीवरसेत्युक्तम् ॥-द्रव्यान्तरेति । देवदत्तरूपात् द्रव्यादन्यद्व्य वस्त्रादि तत्र समवायो यो गुण सुक्ष्मत्यादि तेन ॥-तद्वत इति । प्रकृष्टगुणवद्रव्यवतश्चेत्रादे । परमार्थवृत्याऽस्येव प्रकर्ष इस्यर्थ ॥-कुरूणामिति । कुरोरपत्यानि 'दुनादि-' इति न्य । 'बहुप्वखियाम् ' इति तस्य लुप् ॥-तरबन्तात्त्वित्यादि । द्वयो शुक्लतरयोमध्ये प्रकृष्ट शुक्चवर वि विनदे सतीति शेयम् ॥-तथेति । अनभिधानादित्यर्थः ॥-बहाध्यकतम इति । प्रयोगे बहुव्रीहिज्ञापनाय कच् दर्शित. ॥-कोचत्वित्यादि । तन्मते सूक्ष्मतमवन इति प्रयोगी