________________
॥३०॥
यथासंख्यं शरीरे भेपजे मगे च वर्तमानेभ्यः स्वार्थेऽण् प्रत्ययो वा भवति । श्रोत्राच्छरीरे। श्रोत्रमेव श्रौत्र शरीरम् । श्रोत्रमेवान्यत । ओषधेषजे ओपधिरेवौषधम् भेपजम्
ओपधिरेवान्यत । कृष्णान्मृगे । कृष्ण एव कापणो मृगः । कृष्ण एवान्यः ॥ १६६ ॥ कर्मणः संदिष्टे ॥ ७ ॥२ । १६७ ॥ संदिरोऽथे वर्तमानात्कर्मणः स्वार्थेऽण् मत्ययो भवति । अन्येनान्योन्यस्मै यदाह त्वयेदं कर्तव्यमिति तत्संदिष्टं कर्म । कमैव कार्मणं करोति । संदिष्ट कर्म करोतीत्यर्थः । वशीकरणमपि वृद्धपरंपरोपदेशात क्रियते इति कार्मणमुच्यते । संदिष्ट इति किम् । कर्म करोति । सत्यपि महावाधिकारे विशिष्टोऽर्थः प्रसयमन्तरेण न प्रतीयते इत्यस्मिन् विषये नित्य एवं प्रत्ययः ॥ १६७ ॥ वाच इकण् ॥७। २। १६८ ।। संदिष्टेऽर्थे वर्तमानाद्वाच्शब्दात्स्वार्थे इकण् प्रत्ययो भवति । अन्येनान्योऽन्यस्मै यामाह सा संदिष्टा बाड़ । बागेत्र वाचिक कथयति । संदिष्टां वाचं कथयतीसर्थः । संदिष्ट इत्येव । चित्रा वाक् चैत्रस्य । अत्रापि पूर्ववन्नित्यो विधिः ॥ १६८ ॥ विनयादिभ्यः॥ ॥७।२।१६९ ॥ विनय इत्येवमादिभ्यः स्वार्थे इकण प्रत्ययो वा भवति । विनय एव वैनयिकम् । समय एव सामयिकम् । विनय समय समाय कथंचित् अकस्मात उपचार व्यवहार समाचार संप्रदाय समुत्कर्ष संगति संग्राम समूह विशेष अव्यय अत्यय अनुगादिन् इति । विनयादिराकृतिगणः ॥ १६९ ॥ उपायाद्रस्वश्च ॥ ७ । २ । १७० ।। उपायशब्दात्स्वार्थे इकण प्रत्ययो वा भवति तत्संनियोगे च इस्वः । उपाय एव औपयिकम् ॥ १७० ॥ मृदस्तिकः ॥७।२।१७१ । मृन्छन्दात्स्वार्थे तिकः प्रययो वा भवति । मृदेव मृत्तिका ॥ १७१ ॥ सस्नो प्रशस्ते ॥ ७।२।१७२ ॥ मृद् इत्येतस्मात् प्रशस्तेऽर्थे वर्तमानाव सन इत्येतौ प्रत्ययौ वा भवतः । रूपप्रत्ययापवादः । प्रशस्ता मृत् मृत्सा मृत्स्ना ॥ केचित्तु रूपमपीच्छन्ति प्रशस्ता मूत् मुद्रपा ॥ १७२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ सप्तमाध्यायस्य द्वितीयः पादः समाप्तः ॥७।२।१७२ ॥ उत्साहसाहसवता भवता नरेन्द्र धाराव्रतं किमपि तद्विषमंसिषेवे॥ यस्मात्फलं न खलु मालवमात्रमेव श्रीपर्वतोऽपि तव कन्दुककोलिपात्रम् ॥१॥
॥तृतीयः पादः॥ प्रक्रते मयद ॥७।३।१॥ प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । प्रकृतेऽयें वर्तमानानाम्नः स्वार्थे मयद् प्रत्ययो भवति । अन्नं प्रकृतम् अन्नमयम् । घृतमयम् । दधिमयम् । टकारो उथर्थः । यवागूपयी । *अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतिलिङ्गवचनानीति यवागूः प्रकृता यवागमयम् । एवमुत्तरत्रापि । अपूपाः
-प्रकृते-1-अन्नमयामिति । अन्न प्रचुर प्रधान वेत्यर्थ ॥-अतिवर्तन्ते इति । इहाशमयमित्यादिषु युक्तमन्नादेर्नपुसकत्वात् प्रत्ययस्यापि तत्रैव वृत्तिरिति । यवागूमयीत्यपि युक्तमेय प्रकृत्यर्थस्थ स्त्रीत्वात् प्रत्ययस्य स्वार्थिकरय तत्रैव स्त्रियां वृत्ते, यवागूमयामिति त्वयुक्त यवाग्वर्थस्य स्त्रीत्वात् स्वार्थिकस्य प्रत्ययस्यापि