________________
१ । सत इति सदिति । अत इति किम् । मरुत इति मरुदिति । शरद् इति शरदिति । इताविति किम् । पटदा । कथं घटदिति गम्भीरमम्मुददितं,
चकदिति तदितापि कृतम इति । दकारान्तावेती दृष्टया ॥ १४६ ॥ न दित्वे ॥ ७ । २ । १४७ ॥ अव्यक्तानुकरणस्याने फस्वरस्य द्वित्वे
द्विवचने कृते इतिशब्दे परे योऽत् शब्दस्तस्य लुग् न भवति । पटत्पटदिति । घटत्घटदिति । झटबाटदिति । वीप्सायां द्विवचनम् । द्विले इति १२ किम् । पटिति । कथं चटचटिति । धगद्धगिति । पटत्पाटति । नात्र द्वित्वमपि तु समुदायानुकरणमिति भवति ॥ १४७ ॥ तो वा ॥ ७॥२ | १४८ ॥ १ द्वित्वे सति अव्यक्तानुकरणस्यानेकस्वरस्य योऽच्छन्दस्तस्य संवन्धिनस्तकारस्येतौ परे वा लुग् भवति । पटत्पटेति करोति । पटत्पादति करोति । घटद्घटेति करोति।।
घटत्घटदिति करोति ॥ १४८ ॥ डाच्यादौ ॥ ७ । २ । १४९ ॥ अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सति आदी पूर्वपदे योऽतन्तका
रस्तस्य डाचि परे लुम्भवति । पटपटा करोति । दमदमा करोति । आदाविति किम् । पतपता करोति । डाच्यन्त्यस्वरादिलोपे मूलप्रकृतस्तकारस्य लुग् न भवति १४४ ॥ १४९ ॥ यहल्पार्थात्कारकादिष्टानिष्टे पशस् ॥ ७॥२।१५० ॥ वहादल्पार्थाच फारकाभिधायिनो नाम्नः प्रशस् प्रत्ययो वा भवति यथासंख्यमिष्टे
ऽनिष्टे च विषये । इष्टं पाशित्रादि । अनिष्टं श्राद्धादि । ग्रामे बहवो ददति बहुशो ददति । बहु धनं ददाति वदृशो धनं ददाति । विवाहे बहून् कापिणान ददाति वहशः कार्पापणान् ददाति । विवाहे बहुभिर्भुक्तमतिथिभिः बहुशो भुक्तमतिथिभिः । बहुभ्योऽतिथिभ्यो ददाति बहुशोऽतिथिभ्यो ददाति । बहुभ्यो ग्रामेभ्य आगच्छति | बहुशो ग्रामेभ्य आगच्छति । बहुपु ग्रामेषु वसति बहुशो ग्रामेषु वसति । एवं भूरिशः । प्रभूतशः । गणशः । अल्पार्थ, अल्प आगच्छति अल्पश आगच्छति । अल्प धनं ददाति अल्पशो धनं ददाति । श्राद्धे अल्पभुक्तम् अल्पशो भुक्तम् । अल्पेभ्यो ददाति अल्पशो ददाति । अल्पेभ्य आगतम् अल्पश आगतम् । अल्पेषु वसति अल्पशो वसति । एवं स्तोकशः। कतिपयशः । बदल्पार्थादिति किम् । गां ददाति । अश्वं ददाति । कारकादिति किम् । बहूनां स्वामी । इष्टानिष्ट इति किम् । वह ददाति श्रादे। अल्पं ददाति पाशित्रादौ । पकारः पित्कार्यार्थः ॥ १५० ॥ संख्यैकार्थाद्वीप्सायां शस् ॥ ७ । २ । १५२ ॥ संख्यावाचिन एकन्वविशिष्टार्थवाचिनश्च कारकाभिधायिनो नाम्नो वीप्सायां द्योत्यायां शम् प्रत्ययो भवति । वीप्सायां द्विवेचनस्य प्राप्तौ तदपवादोऽयम् । वाधिकारात्पक्षे द्विवचनमपि भवति । एकैकं ददाति एकशो ददाति । द्वौधौ द्विशः । एवं त्रिशः । तावच्छः । कतिशः । गणशः । एकैकेन दीयते एकशो दीयते । द्वाभ्यां द्वाभ्यां द्विशः । त्रिशः । तावच्छः ।एवं कतिशः । गणशः । एकार्थ, मापं मापं देहि मापशो देहि । कापणशः। पणशः। पादशः । पलशः । प्रस्थशः । अर्धशः । पर्वशः। तिलशः । संघशः । पूगशः । वृन्दशः । पङ्क्तिशः । वनश. प्रविशति । कूपीशः खनति । कुम्भीशः कलशीशो ददाति । क्रमश इति क्रमवतां भेदात् क्रमेणक्रमेणेति वीप्सा भवति । संख्यैकार्थादिति किम् । मापी मापौ ददाति । वीप्सायामिति किम् । द्वौ ददाति । माप