________________
भीमश० ॥ २८ ॥
स०अ
Senter
निप्कुलाकरोति दाडिमम् निष्कुष्मातीत्यर्थः । एवं निकलाकरोति प चण्डालः । निष्कोपण इति किम् । निष्कुलं करोति शवम् ॥ १३९ ॥ *प्रियसुखादानुकल्ये ॥ ७।२ । १४० ॥ मियसख इत्येताभ्यां कगा योगे आनुकूल्ये गम्यमाने डाच प्रत्ययो भवति । प्रियाकरोति गुरुम् । सुखाकरोति गुरुम् । गुरोरानुकूल्यं करोति तमाराधयतीत्यर्थः । आनुकूल्य इति किम् । पियं करोति सामवचनम् । सुखं करात्योषधपानम् ॥ १४० ॥ दुःखात् प्रातिकूल्ये ॥ ७ । २।१४१ ॥ दुःखशब्दात पातिकूल्पे गम्यमाने कृगा योगे डाच् प्रत्ययो भवति । दुःखाकरोति शवम् । शत्रोः पातिकूल्यं करोति । प्रतिकूलमाचरति । अनभिमतानुष्ठानेन तं पीडयतीत्यर्थः । पातिकूल्य इति किम् । दुःखं करोति रोगः ॥ १४१ ॥ शूलात्पाके ॥ ७ । २ । १४२ ॥ शूलशब्दात्पाके गम्यमाने कृगा योगे डाच प्रत्ययो भवति । शुलाकरोति मांसम् । शुले पचतीसर्थः । पाक इति किम् । शूलं करोति कदन्नम् ॥ १४२ ॥ सत्यादशपथे ॥ ७ ।२। १४३ ।। सत्यशब्दाच्छपथादन्यत्र वर्तमानात् कृगा योगे डाच प्रत्ययो भवति । सत्याकरोति वणिग् भाण्डम् । कापोपणादिदानेन मयावश्यमेवैतत्क्रेतव्यमिति विक्रेतारं प्रत्यारयति । अशपथ इति किम् । सत्यं करोति । यदीदमेवं न स्यात् इदं मे इष्टं माभूत् अनिष्टं वा भवत्तिति शपथं करोतीत्यर्थः ॥ १४३ ॥ मद्रभद्रादपने ॥७।२ । १४४ ॥ मद्रभद्रशब्दाभ्यां वपने मुण्डने गम्यमाने कृगा योगे डाच् प्रत्ययो भवति । मद्रं वपनं करोति गद्राकरोति, भद्राकरोति नापितः । शिशोमङ्गल्य केशच्छेदनं करोनीत्यर्थः । मद्रभद्रशब्दौ मङ्गल्यवचनौ । वपन इति किम् । मद्रं करोति । भद्रं करोति साधुः ॥ १४४ ॥ अव्यक्तानुकरणादनेकस्वरात् कृन्वस्तिनानितौ विश्च ॥ ७ ॥२॥१४५ ॥ यस्मिन् धनावकारादयो वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः तस्यानुकरणमव्यकानुकरणम् । तस्मादनेकस्वरादनितिपरात् कृभूअस्ति इत्येतेर्धातुभियोगे डाच् प्रत्ययो वा भवति विश्वास्य प्रकृतिरुच्यते । प्रत्ययस्य चिना नर्थक्यात् । पटत करोति पटपटा करोति । पटपटा भवति । पटपटा स्यात् ।दमत् करोति। दमदमाकरोति । दमदमाभवांत । दमदमास्यात् । एवं मसत् करोति मसमसा करोति । खरल करोति खरटखरटा करोति । अव्यक्तवर्णस्यापि कथंचिद् ध्वनिमात्रसादृश्यात् व्यक्तवर्णमनुकरणं भवति । अव्यक्तानुकरणादिति किम् । दृषत्करोति । अत्र व्यक्तवर्णमनुकार्यम्। अनेकस्वरादिति किम् । श्रत्करोति । खाट् करोति । कम्वस्तिनेति किम् । पटज्जायते । अनिताविति किम् । पटिति करोति ॥ १४५ ॥ इतावतो लुक ॥ ७ ॥ २। १४६ ॥ अव्यक्तानुकरणस्यानेकस्वरम्य योऽत इत्यय शब्दस्तस्य इतिशब्दे परे लुग भवति । पटत् इति पटिति । झटत् इति झटिति । एवं छमत् छमिति । घटत् घटिति । असिद्धं बहिरङ्गमन्तरङ्गे इति लुकि सति तृतीयत्वं न भवति । अव्यक्तानुकरणस्येत्येव । जगदिति । अनेकस्वरस्येत्येव | छत् इति छदिति । -प्रिय-1-सामवचनमिति ॥ आनुकूल्य हि चेतनधर्मः । तदत्र नास्त । एवमुत्तरेपि ॥-अव्य-॥-आनर्थक्यादिति । यादिप्रत्ययस्य द्विभक्ति क्रियते तथापि समानानामिति दीर्घरचे एकस्यैव श्रुतिर्भवति ॥-अव्यक्तवर्णस्यापीति । अथ पटदित्यादि व्यक्तवर्णमव्यक्तवर्णस्य कथमनुकरणमनुकरणस्पानुकार्यसदृश स्वादन्ययातिप्रसङ्ग. स्यादिस्याइ-कथंचिदिति ॥-पटिति करोतीति । न च परस्वात् ' इतावतो. लुक्' इति लुका भाव्यमिति वाच्यम् । कुम्वस्तीनामभावे तस्य चरितार्थत्वात् ॥