________________
सप्तमीदितीयाद्देवादिभ्यः॥ ७१२११३४ ॥ सप्तम्यन्तेभ्यो द्वितीयान्तेभ्यश्च देवादिभ्यस्त्रा प्रत्ययो वा भवति स्वार्थे । देवेषु वसति देवत्रा वसति । देवेषु भवति देवत्रा भवति । देवेषु स्यादेवत्रा स्यात । देवान् करोति देवत्रा करोति । देवान् गच्छति देवत्रा गच्छति । एवं मनुष्यत्रा बसति । मनुष्यत्रा गच्छति । मत्यत्रा वसति मर्त्यत्रा गच्छति । पुरुषत्रा वसति । पुरुषत्रा गच्छति । पुरुत्रा वसति पुरुत्रागच्छति । बहुत्रा बसति । बहुत्रा गच्छति । देवादयः शिष्टमयोगगम्या: ॥१३४॥तीयशम्ययीजात् कृगा कृषौडाच्॥७।२।१३५॥तीयप्रत्ययान्तात् शम्बबीज इत्येताभ्यांच करोतिना योगे कृषिविपये डाच् प्रत्ययो भवति । द्वितीयं वारं करोति क्षेत्रं द्वितीयाकरोति क्षेत्रम् द्विनायं नारं कृपतीत्यर्थः। तृतीयाकरोति क्षेत्रम् । तृतीयं वारं कृपतीत्यर्थः। शम्बाकरोति क्षेत्रम् । अनुलोमकृष्ट पुनस्तिर्यक् कृपतीत्यथे। अन्ये त्वाहुः शम्बसाधनः कृषिरिति शम्बेन कृपतीत्यर्थः। एके तु शम्बाकरोति कुलिवमित्युदाहरन्ति । लोहकं वा वर्धकुण्डलिका वा शंवम् तत् कुलिवस्य करोतीत्यर्थः। चीजाकरोति क्षेत्रम् । उप्ने पश्चाद्वजैः सह कृपतीत्यर्थः । यदाप्येवं विग्रहः क्षेत्रस्य द्वितीयां कृषि कर्ष कणं करोति शम्वं करोति क्षेत्रस्य कुलिवस्य वा वीज करोति क्षेत्रस्येति तदापि द्वितीयाकरोति क्षेत्रमित्यादौ क्षेत्रात् द्वितीया भवति । द्वितीयाकरोतीत्यादयो हि मुण्डयतीत्यादिवत् क्रियाशब्दास्तेषां च क्षेत्रादि कर्म भवति । कूगेति किम् । द्वितीयं वारं कृषति । कृषाविति किम् । द्वितीयं पटं करोति । चकारो 'डाच्यादौ'-(७-२-१४९) इत्यत्र विशेषणार्थः ॥ ३५ ॥
संख्यादेर्गुणात् ॥ ७।२।१३६ ॥ संख्याया आद्यवयवात्परो यो गुणशब्दस्तदन्तात् कृगो योगे कृषिविषये डाच प्रत्ययो भवति । द्विगुणं कर्षणं करोति । क्षेत्रस्य द्विगुणाकरोति क्षेत्रम् । त्रिगुणाकरोति क्षेत्रम् । क्षेत्रस्य द्विगुणं त्रिगुणं च विलेखनं करोतीत्यर्थः । कृषावित्येव । द्विगुणां रज्जुं करोति ॥ १३६ ॥ | समयाद्यापनायाम् ॥ ७।२।१३७ ॥ समयशब्दाद्यापनायां कालहरणे गम्यमाने कुगा योगे डाच् प्रत्ययो भवति । समयाकरोति तन्तुवायः । अद्य वस्ते पटं दास्यामीति कालक्षेपं करोति इत्यर्थः । यापनायामिति ।कम् । समयं करोति ॥ १३७ । सपत्रनिष्पत्रादतिव्यथने ॥ ७ । २ । १३८ ॥ सपत्रनिष्पत्र इत्येताभ्यां कुगा योगेऽतिव्यथनेऽतिपीड़ने गम्यमाने डाच् प्रत्ययो भवति । सपनाकरोति मृगम् । पत्रं शरः सह पत्रमनेनेति सपनः तं करोति शरमस्य शरीरे प्रवेशयतीत्यर्थः । निष्पत्राकरोति । निर्गतं पत्रमस्मादिति निष्पत्रः तं करोति शरमस्यापरपार्थेन निष्क्रमयतीत्यर्थः । सपत्राकरोति वृक्षं वायुः । निष्पत्राकरोति वृक्षं वायुः । अत्र पत्रशातनमेवातिव्यथनम् । सपत्राकरोतीत्यपि मङ्गलाभिप्रायेण वृक्षस्य निष्यत्राकरणमेवोच्यते । यथा दीपो नन्दतीति विध्वंसः । अतिव्यथन इति किम् । सपत्रं करोति वृक्षं जलसेकः । निष्पत्रं करोति वृक्षनलं भूमिशोधकः ॥ १३८ ॥ निष्कुलानिष्कोषणे ॥ ७ । २।१३९ निष्कुलशब्दात्कृगा योग निष्कोपणेऽर्थे डाच प्रत्यया भवति । निप्कृष्टं कुलमवयवसंघातोऽस्मादिति निष्कुलम् । अन्तरवयवानां बहिनिष्कासनं निष्कोपणम् । निष्कुलं करोति इति ॥-तीय-॥-प्रत्ययान्तादिति । द्वेस्तीय. ' इत्यादिविहितात् यस्तु मुखतीय इत्यादो सीपस्तदन्तादनकावान भवति ॥-शम्यसाधन इति । शम्बो । हलभेद म सावन कारक पप -यदाप्येवं विग्रह इति । मनु प्रथम पठी डाधि उपये कप द्वितीयेत्याशा