________________
श्री हेमश ० ॥ २७ ॥
च्वाविति किम् । अरुः करोति । बहुवचनं तदन्तानामपि परिग्रहार्थम् । अन्यथा ग्रहणवता न तदन्तविधिरित्युपतिष्ठेत ॥ १२७ ॥ इसुसोर्यहुलम् ॥ ७ । २ । १२८ ॥ इस उस इत्येवमन्तस्य च्चौ परे बहुलमन्तस्य लुक् भवति । असर्पिः सर्पिः करोति सर्पीकरोति नवनीतम् । धनूभवति वंशः । न च भवति सर्विर्भवति धनुर्भवति । बहुलग्रहणं प्रयोगानुसरणार्थम् ॥ १२८ ॥ व्यञ्जनस्यान्त ई ॥ ७ । २ । १२९ ॥ व्यञ्जनान्तस्य च्चौ परे बहुलमी कारोऽन्तो भवति । दुपदीभवति शिला । समिधीभवति काष्ठम् । न च भवति दृपद्भवति समिद्यति ॥ १२९ ॥ व्याप्तौ स्सात् ॥ ७ । २ । १३० ॥ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे इति वर्तते । एतस्मिन्विषये सकारादिः सात् प्रत्ययो भवति व्याप्तौ प्रागतत्तत्वस्य चेद्याप्तिः सर्वात्मना द्रव्येणाभिसंबन्धो गम्यते । द्विसकारपाठः पत्वनिषेधार्थः । सर्व का मागनग्निमत्रिं करोति अग्निसात्करोति काष्ठम् | अग्निसाद्भवति । अग्निसात् स्यात् । उदकसात्करोति लवणम् । उदकसाद्भवति । उदकसात् स्यात् । व्याप्ताविति किम् | अग्रीकरोति काष्ठम् । अग्रीभवति अग्नीस्यात्काम् । सत्यामपि वस्तुनि व्याप्तौ प्रागतत्तत्त्वमात्रे च्चिर्भवत्येवेति नाथ वावचनेन । अनीकरोति अग्नीभवतेि अग्नीस्यात्काष्ठम् । उदकीकरोति उदकीभवति उदकी स्याल्लवणम् । व्याप्तिस्तु प्रकरणादेर्गम्यते ॥ १३० ॥ जातेः संपदा च ॥ ७ । २ । १३१ ॥ कृभ्वस्तिभिः संपदा च योगे करोतिकर्मणो भ्वस्तिकर्तुः संपदिकर्तुश्च भागततत्त्वेन जातेः सामान्यस्य व्याप्तौ स्सात्प्रत्ययो भवति । अस्यां सेनायां सर्व शस्त्रमग्निसात्करोति दैवम् । अस्यां सेयायां सर्वे शस्त्रमग्रिसाद्भवति अग्निसात् स्यात् । अस्यां सेनायां सर्व शस्त्रमग्निमात्संपद्यते । वर्षासु सर्व लवणमुदकसात्करोति मेघः । उदकसाद्भवति । उदकसात् स्यात् । उदकसात्संपद्यते । यथैव ह्येकस्य द्रव्यस्य सर्वावयवाभिसंवन्धे प्रागतत्तत्त्वेन व्याप्तिर्भवति तथा जातेः सामान्यस्य सर्वव्याक्तिसंवन्धे भवति । एवं च व्याप्ताविति सामान्योपादानात् कृभ्वस्तियोगे पूर्वेणैन स्सात्सिद्धः संपद्यर्थे तु वचनम् । चकार उत्तरत्रोभयोः समुच्चयार्थः ॥ १३१ ॥ तत्राधीने ॥ ७ ॥ | २ | १३२ ॥ कृभ्वस्तिभ्यां संपदा चेत्यनुवर्तते । कर्मकर्तृभ्यां प्रागतत्तत्रे इति च निवृत्तम् । तत्रेति सप्तम्यन्तादधीने आयतेऽर्थे कृभ्यस्तिसंपद्भिर्योगे स्सात्प्रत्ययो भवति । राजन्यधीनं करोति राजसात्करोति । राजस्वामिकं करोतीत्यर्थः । राजसाद्भवति राजसात्स्यात् । राजसात्संपद्यते । आचार्य सात्करोति । आचार्यसाद्भवति । आचार्यसात् स्यात् । आचार्यसात्संपद्यते ॥ १३२ ॥ देये त्रा च ॥ ७ । २ । १३३ ॥ तत्रेति सप्तम्यन्तादेयोपाधिकेऽधीनेऽर्थे कृभ्वस्तिसंपद्भिर्योगे त्राप्रत्ययो भवति । चकारो न स्थातोऽनुकर्षणार्थ: तस्याधीनतामात्रविवक्षायां पूर्वेणैव सिद्धत्वात् । किंतु कृभ्यस्तिभ्यां संपदा चेत्यस्यानुकर्षणार्यः । तेनात्तरत्र नानुवर्तते । | देवेऽधीनं देयं करोति देवत्रा करोति द्रव्यम् । देवाय दातव्यमिति यत् स्थापितं तदिदानी देवाय ददातीत्यर्थः । देवेऽधीन देयं भवति देवत्रा भवति । देवत्रा स्यात् । देवत्रा संपद्यते । गुरुत्रा करोति । गुरुत्रा भवति । गुरुत्रा स्यात् । गुरुत्रा संपद्यते । देय इति किम् । राजसाद्भवति राष्ट्रम् ॥ १३३ ॥ वस्तुनि वर्त्तते इत्यर्थ ॥ व्यञ्ज - ॥ नन्वन्तग्रहण किमर्थम् सत्यम् । व्यञ्जनादोरिति कृत प्रकृते प्रत्ययस्यात् दरदोऽपश्य यी 'पुरुमगध' इत्यणि 'वेरजगो' इति लुप भदरद् दरद् भव खीति वावनेन ईप्रत्यये 'जातिश्र णि इति प्रभाव स्थापातथ दारदीसि स्यात् इरीति चेष्यते॥ तत्र ॥ निरृत्तमिति ॥ यत्रेति भजनात् कम्र्मकभ्यामिति अधीने इत्यभिनत्रार्थीपादानाच्च प्रागत तर
स०अ
॥ २