________________
प्राग्वसति । 'लुवश्चेः-(७-२-१२३) इति धाप्रत्ययस्य लुप् । लुपि 'यादेः'-२-४-९४ ) इत्यादिना डीलुक । दिक्शब्दादिति किम् । ऐन्द्री दिक् । दिग्देशकालेष्विति किम् । प्राइवृक्षः । प्रथमापञ्चमीसप्तम्या इति किम् । प्राची दिशं पश्यति । प्राच्या दिशा प्रज्वलितम् । प्राच्य दिशे दहि । प्राच्या दिशः स्वम् । दिग्देशकालेविति बहुवचन प्रथमादिभिर्यथासंख्यानिवृत्त्यर्थम् ॥ ११३ ॥ अवाद्रिरिष्टातावुपश्चास्य ॥७ । २।११४ ॥ ऊर्वशब्दादिग्देशकालेषु वर्तमानात् प्रथमापञ्चमीसप्तम्यन्तात् रि रिष्टात् इत्येतौ प्रत्ययो धापबादौ भवतः अस्य चोर्वशब्दस्योपादेशो भवति । ऊो दिग्देशः कालो वा रमणीयः उपरि रमणीयम् उपरिष्टात् रमणीयम् । एवम् उपर्यागतः । उपरिष्टादागतः । उपरि वसति उपरिष्टादमति ॥ ११४ ॥ पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम् ।।७।२। ११५॥ पूर्व अवर अधर इत्येतेभ्यः प्रत्येकं दिग्देशकालगृत्तिभ्यः प्रथमापञ्चमीसप्तभ्यन्तेभ्योऽर अस्तात् इसेतो प्रत्ययो भवतः एपां च पूर्वावराधरशब्दानां यथासंख्यं पुर अब अध् इत्येते आदेशा भवन्ति । पूर्वा दिग्देशः कालो वा रमणीयः पुरो रमणायम् पुरस्ताद्रमणीयम् । पुर आगतः पुरस्तादागतः । पुरो वसति पुरस्तावसति । अवरा दिग्देशः कालो वा रमणीयः अवो रमणीयम् आस्ताद्रमणीयम् । अव आगतः अवस्तादागतः । अवो वसति अवस्तादसति । अधरा दिग्देशः कालो वा रमणीयः अधो रमणीयम् । अधस्ताद्रमणीयम् । अध आगतः । अधस्तादागतः। अधो वसति । अधस्तादसति ॥११॥ परावरात्स्तात् ॥७।२।११६ ॥ परअवर इत्येताभ्यां दिग्देशकालेषु वर्तमानाभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यां स्वार्थे स्तात्प्रत्ययो भवति । परा दिग्देशः कालो वा रमणीयः परस्ताद्रमणीयम्। परस्तादागतः। परस्ताव वसति । एवमवरस्ताद्रमणीयम् । अवररतादागतः । अवरस्तावसति ॥ ११६ ॥ दक्षिणोत्तराचातस् ।। ७।२। ११७॥ दक्षिण उत्तर इत्येताभ्यां चकारात्परावराभ्यां च दिग्देशकालेषु वर्तमानाभ्याम् प्रथमापञ्चमीसप्तम्पन्ताभ्यां सार्थेऽतम् प्रत्ययो भवति । दक्षिणशब्दः काले न संभवतीति दिग्देशवृत्तिह्यते । दक्षिणा दिग्देशो वा रमणीयः दक्षिणतो रमणीयम् । दक्षिणत आगतः । दक्षिणतो वसति । उत्तरा दिग्देशः कालो वा रमणीयः उत्तरतो रमणीयम् । उत्तरत आगतः । उत्तरतो वसति । परतो रमणीयम् । परत आगतः । परता वसति । अवरतो रमणीयम् । अवरत आगतः । अवरतो वसति । एवं चावरशब्दस्य चातूरूप्यं भवति । अकारस्तसोऽस्य भेदार्थः । तेनातः 'केहामात्रतसस्त्यच् -(६-३-१६) इति त्यच् न भवति परतो भवं पारतमित्यगणेव ॥ ११७ ॥ अधरापराचात् ॥ ७१२ । ११८ ।। अधर अपर इत्येताभ्यां दिग्देशकालवृत्तिभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यामात्प्रत्ययो भवति चकारादक्षि
णोत्तराभ्यां च । अधरा दिग्देशः कालो वा रमणीयः अधराद्रमणीयम् । अधरादागतः । अधराद्वसति । एवं चाधरशब्दस्य त्रैमप्यम् । अपरा दिग्देशः कालो वा रमणीयः पश्चाद्रमणीयम् । पश्चादागतः । पञ्चामति । दक्षिणपश्चाद्रमणीयम् । दक्षिणपश्चादागतः । दक्षिणपश्चाइसति । 'पश्चोऽपरस्य'-(७-२-१२४ ) |-दक्षि-||-चातूरूप्यमिति । अयः अवस्तात् अवरस्तात् अवरत.-॥-अध-॥-रूप्यमिति।अध अधस्तात् अधरात् ॥-पश्चाद्रमणीयमिति।पश्चादेशोदन्त' कार्य पश्चाधमित्यादिसिद्ध्यर्थ तत. 'अपर्णवर्णमा- दक्षिणपश्चादिति । दक्षिणा च सा अपरा प दक्षिणापरा । ' साइयोस्यादौ ' इति पुभावे दक्षिणापरा दिपमणीया । । पश्वोऽपरस्य-' इतिसूचनासयन्तावपि प्रत्ययः ।