________________
भीमश
इत्यादिना पश्चादेशः । दक्षिणाद्रमणीयम् । दक्षिणादागतः । दक्षिणादसति । उत्तराद्रमणीयम् । उत्तरादागतः । उत्तराद्वसति ॥ ११८॥ वा दक्षिणात्पथमास- स०अर्गत । २६ ॥ ११ सम्या आः॥७।२।११९ ॥ दक्षिणशब्दादिग्देशवृत्तेः प्रथमान्तात्सप्तम्यन्ताच्च आः प्रत्ययो भवति वा । दक्षिणा रमणीयम् । दक्षिणा वसति । पक्षे भतसातौ।
दक्षिणतो रमणीयम् । दक्षिणतो वसति । दक्षिणाद्रमणीयम् । दक्षिणादसति । पञ्चम्यां सावकाशावतसातावाकारो वाधेतेति वाग्रहणम् । प्रथमासप्तम्मा इति किम् ।। दक्षिणत आगतः । दक्षिणादागतः ॥ ११९ ।। *आही दूरे ॥७।२ । १२० ॥ दिक्शब्दा अवध्यपेक्षाः । तत्रावधेरे दिशि देशे वा वर्तमानात् प्रथमासप्तम्यन्तात् दक्षिणश-दादा आहि इत्येतो प्रत्ययो भवतः । ग्रामादुरा दक्षिणा दिग्देशो वा रमणीय. ग्रामाइक्षिणा रमणीयम् । दक्षिणाहि रमणीयम् । दक्षिणा वसति ।। दक्षिणाहि वसति । दूर इति किम् । दक्षिणतः दक्षिणात् दक्षिणा रमणीयम् । आहिर्न भवति । आकारस्तु पूर्वेण सामान्येन विधानाद्भवत्येव ।यो-११ वमिहाकारग्रहणं किमर्थम् । विशेषविहितेनाहिना बाघो मा भूदित्येवमर्थम् उत्तरार्थ च । प्रथमासप्तम्या इत्येव । दक्षिणत आगतः ॥ १२०॥ वोत्तरात् ॥ ७ । २ । १२१॥ उत्तरशब्दात्प्रथमासप्तम्यन्तात् आ आहि इत्येतो प्रत्ययौ वा भवतः । योगविभागाद्र इति नानुवर्तते । उत्तरा रमणीयम् । ११ उत्तरा वसति । उत्तराहि रमणीयम् । उत्तराहि वसति । पक्षे अतसातौ । उत्तरतः । उत्तरात् । प्रथमासप्तम्या इत्येव । उत्तरतः । उत्तरादागतः ॥ १२१ ॥ अदूरे एनः५७।२। १२२ ॥ वोत्तरादिति नानुवर्तते । दिक्शब्दादिग्देशकालवृत्तेः प्रथमासप्तम्यन्तादवधेरदूरे वर्तमानादेनः प्रत्ययो भवति । अस्मात् पूर्वा अदा दिक रमणीया देशः कालो वा पूर्वेणास्य रमणीयम् । पूर्वेणास्य वसति । अपरेणास्य रमणीयम् । अपरेणास्य वसति । एवं दक्षिणेन उत्तरेण । अधरेण । अदर इति किम् । पुरो रमणीयम् । पुरो वसति । प्रथमासप्तम्या इत्येव । पुर आगतः । दिग्देशकालमात्रे द्योत्ये ये सामान्यप्रत्यया उक्ता अदूरे अपि
सामान्यविवक्षायां ते भवन्त्येव प्रकरणादेश्वादूरता गम्यत इति नार्थों वाग्रहणेन । अन्ये तु दक्षिणोत्तराधरशब्देभ्य एव एनपत्ययमिच्छन्ति ॥ १२२ ॥ लुबचेः॥ ७॥ २।१२३॥ अञ्चत्यन्तादिशब्दादिग्देशकालेषु वर्तमानात्प्रथमापञ्चमीसप्तम्यन्तायः प्रत्ययो विहितो धा एनो वा तस्य लुप् भवति । माची दिक् दुगदरा वा रमणीया देशः कालो वा प्राग्रमणीयम् । प्रागागतः । प्राग्वसति । एवं प्रत्यक् अवाक उदक् । लुपि च सत्यां स्त्रीप्रत्ययस्यापि लुप् भवति ॥ १२३ ॥ पश्चोऽपरस्य दिकपूर्वस्य चाति ॥ ७।२। १२४ ॥ अपरशब्दस्य केवलस्य दिकपूर्वपदस्य च आति प्रत्यये परे पश्चादेशो भवति । अपरा दिग्देशः कालो वा रमणीयः पश्चाद्रमणीयम् । पश्चादागतः । पश्चाद्वसांत । दिकपूर्वाद , दक्षिणा च सा अपरा च दक्षिणापरा दिग्देशो वा रमणीयः दक्षिणपश्चाद्रमणीयम् । दक्षिणपश्चादागतः । दक्षिणपश्चादसति । उत्तरपश्चाद्रमणीयम् । उत्तरपश्चादागतः । उत्तरपश्चाद्वसति ॥ १२४ ॥ वोत्तरपदेऽर्धे ॥ ७।२।१२५ ॥ अपरशब्दस्य -आही-॥-अवध्यपेक्षा इति । यथायमस्मात्पूर्व इत्यादि।-अदूरे-1-नानुवर्तत इति । द्वितीयाषष्ठयावेनेनानो' इत्यत्रा वर्जनात्॥-नार्थो वा ग्रहणेनेति । एवं तर्हि 'भाही दूरे दूपत्र कथमुक्त विशेषविहितेन भाहिना याधो माभूदित्येवमर्थमिति भनेभैव प्रकारेण सिकरपात् । सत्यम् । सोपि प्रकारोऽस्तीति ज्ञापनार्थम् ॥-11 ॥२६॥