________________
51 दुःखी । मुख दुःख सूप कृच्छू अस अलीक कृपण सोढ प्रतीप प्रणय हस्त (हल) आस कक्ष शील इत्येके । इति सुखादिः ॥ ६३॥ मालायाः क्षेपे ॥७)
५। ६४ ।। मालाशब्दारक्षेपे गम्यमाने मत्वर्थे इन्नेव प्रसयो भवति । माली । क्षेप इति किम् । मालावान् । मालाशब्दः शिखादिः। ततः क्षेपे मतुनिवृत्त्यर्थ वचनम् ॥ ६४ ॥ धर्मशीलवर्णान्तात् ॥७॥२॥६५॥ धर्मशीलवर्ण इत्येतदन्तान्मत्वर्थे इन्नेव भवति । मुनिधर्मी । यतिशीली । ब्राह्मणवर्णी ॥६५॥बाहूर्वादेर्बलात् ॥ ७।२। ६६ । बाहु-उरूपूर्वाद्धलान्तानाम्नो मत्वर्थे इन्नेव भवति । बाहुवली । ऊरुबली ॥ १६ ॥ *मन्माब्जादेनोम्नि ॥ ७।२।६७ ।। मन्नन्तेभ्यो मान्तेभ्योऽनादिभ्यश्च मत्वर्थे इन्नेव भवति नाम्नि समुदायश्चेत्कस्यचिन्नाम भवति । मन्नन्त, दामिनी । सामिनी । प्रथिमिनी । महिमिनी । धर्मिणी । कर्मिणी । मान्त, प्रथमिनी । भामिनी । कामिनी । यामिनी । सोगिनी । अब्जादि । अब्जिनी । कमलिनी । सरोरुहिणी । सरोजिनी । अम्भोजिनी । राजीविनी । अरविन्दिनी । पद्दजिनी । पुटकिनी । नालीकिनी । मृणालिनी । विसिनी । तामरसिनी । यवासिनी । नाम्नीति किम् । सामवान् । सोमवान् । अजवान् ॥ ६७॥ *हस्तदन्तकराज्जातौ ॥७।२। ६८ ॥ हस्त दन्त कर इत्येतेभ्यो मन्वर्थे इन्नेव भवति समुदायेन चेन्जातिरभिधीयते । हस्तोऽस्यास्तीति हस्ती । दन्ती । करी । जाताविति किम् । हस्तवान् । दन्तवान् । करवान नरः ॥ ६८ ॥ वांद्रह्मचारिण ॥ ७।२।६९॥ वर्णशब्दान्मत्वर्थे इन् भवति ब्रह्मचारी चेदाभिधेयो भवति । वर्णशब्दो ब्रह्मचर्यपर्यायः । वर्णो ब्रह्मचर्यमस्यास्ति वर्णी । ब्रह्मचारीत्यर्थः । अन्ये तु वर्णशब्दो ब्राह्मणादिवर्णवचनः । तत्रब्रह्मचारीत्यनेन शूद्रव्यवच्छेदः क्रियते इति मन्यन्ते तेन त्रैवर्णिको वर्णीत्युच्यते । स हि विद्याग्रहणार्थमुपनीतो ब्रह्म चरति न शूद्र इति । ब्रह्मचारिणीति किम् । वर्णवान् ॥ ६९॥ *पुष्करादेर्देशे ॥७॥ २॥ ७० ॥ पुष्करादिभ्यो मत्वर्थे इन्नेव भवति देशेऽभिधेये । पुष्करिणी । पद्मिनी । देश इति किम् । पुष्करवान् हस्ती । पुष्कर पद्म उत्पल तमाल कुमुद कैरव नल कपित्थ विस मृणाल कर्दम शालूक विवह करीष शिरीष यवास यवाप यव माष हिरण्य तट तरङ्ग कल्लोल इति पुष्करादिः । कथं कुमुद्रती सरसी कुमुद्वान् इदः नड्वान् नडालमिति । 'नडकुमुद'-(६-२-७४) इत्यादिना चातुरर्थिकेन मतुना भविष्यति ॥ ७० ॥ ननु ' अत्रोऽनेकस्तरात् ' इत्यनेनेन् सिद्ध एव किमनेन । सत्यन् । इन्नेवेति नियमार्थ तेन हि इविधाने इकोऽपि स्यादिति ॥-मन्म-॥ प्रत्ययाप्रत्यययोरिति स्णयात् मन्नन्तेभ्य इत्युक्तपि मन्प्रत्ययान्तेभ्य इति दृश्यम् । अजिन्यादयः कमलिनीवाचकाः यवासिनी स्वौपधिः।-हस्त-ननु हस्ती इत्यादिभिर्जातिमानेवाभिधीयते न जातिस्तत्कथमनेनेन् । सत्यम् । जातिमत्युच्यमाने गौणवृत्या जातिरप्युच्यते । गौणमुख्यन्यायस्तु मुख्यया वृत्त्या इन्प्रत्ययान्तेन हस्त इत्यादिना प्रतिपादनासंभवान्नानियते । यद्दा निर्विशेष न सामान्य भवेच्छशविपाणवदिति न्यायारसमुदायेन घेजातिरभिधीयते इल्युतिऽपि जातिमती व्यक्तिरुण्यत इति द्रष्टव्य निर्विशेषायास्तस्या जाते: असत्कल्पत्वात्॥-वर्णात्-॥-त्रैवर्णिक इति । त्रिपु वर्णेषु भवः अध्यात्मादिश्य इतीकविधानसामर्यात् 'द्विगोरनपष- इत्यनेन न लुप् ' प्रयोजनम् ' इशि घेका प्राग्जितीयत्वाभावात् ' द्विगारनपत्ये-' इत्यस्य लुप प्रयड्ग एवं नास्ति ॥-विद्याग्रहणार्थमिति । एवमुक्तऽपि वेदविचाग्रहणामिति पाययेयम्॥-पुष्क-॥-पुष्करिणी। पभिनी च देशविशेषौ। यवासशज्दोऽजादिगणे पुष्करादिगणे चाधीतस्तत्रौषधौ पूर्वसूत्र प्रवर्तते देशविशेपे स्विमिति विवेक.॥ कथमिति अध