________________
neeeeeavee
भवति । खण्डः कोऽस्यास्ति कर्णः । छिन्ना नासिकास्यास्ति नाशिकः । हीनादिति किम् । कर्णवान् नासिकावानित्येव भवति ॥ ४५ ॥ अभ्रादिभ्यः ॥७।२। ४६ ॥ अभ्र इत्येवमादिभ्यो मत्वर्थे अः प्रत्ययो भवति यथादर्शनं मतुश्च । अभ्राण्यस्मिन् सन्ति अभ्रं नमः । अस्पस्य सन्ति अर्शसो देवदत्तः । उरसः । उरस्वान् । अभ्र अर्शस् उरस् तुन्द चतुर पलित जटा घाटा कर्दम काम बल घटा अम्ल लवण | इत्यादिराकृतिगण ॥ ४६ ॥ *अस्तपामायामेधास्त्रजो विन् ॥७।२ । ४७ ॥ असन्तेभ्यस्तपस्मायामेधास्त्रज् इत्येतेभ्यश्च मत्वर्थे विन् मत्ययो भवति मतुश्च । असन्त, यशस्वी । यशस्वान् । सरस्वी सरस्थान् सरस्वती । एवं तेजस्वी वर्चस्वी । तपस्वी । तपस्वान् । असन्तत्वेनैव सिद्धे तपसो ग्रहणं ज्योत्स्नायणा वाधो माभूदित्येवमर्थम् । मायावी । मायावान् । मायी मायिक इति बीह्यादिपाठात् । मेधावी । मेधावान् । स्रग्वी सम्वान ॥ ४७ ॥ आमयादीर्घश्च ॥७॥२॥४८॥ आमयशब्दान्मत्वर्थे विन् प्रत्ययो दीर्घश्चामयशब्दस्य भवति मतुश्च । आमयावी । आमयवान् ॥ ४८ ॥ स्वानमिन्नीशे ॥ ७ ॥२॥४९॥ स्वशब्दान्मत्वर्थे ईशे वाच्ये मिन् प्रत्ययो भवति दीर्घश्चास्य । स्वमस्यास्तीति स्वामी । ईश इति किम् । स्ववान् ॥४९॥ गोः॥७॥२॥५०॥ गोशब्दान्मत्वर्थे मिन् प्रत्ययो भवति । गावोऽस्य सन्ति गोपी । मतुश्च । गोमान् । पूज्य एवं मिनमिच्छन्त्यन्ये ॥५०॥ ऊजो विन्वलावश्चान्तः ॥७॥२॥५१॥ ऊर्जशब्दान्मत्वर्थे विन्वल इखेती प्रत्ययौ भवतः तत्संनियोगे चास्यास् चान्तो भव| नि । ऊर्जस्वी । ऊर्जस्वलः । मतुश्च । ऊर्यान् । कथमूर्जवान् । अर्जयतेः अस्प्रत्ययान्तस्य मतौ ॥५१॥ तमिस्त्रार्णवज्योत्स्ना ।।७।२।५२ ॥ तमिस्राणेवज्योत्स्ना इत्येते शब्दा निपात्यन्ते । समिति तमश्शब्दादः उपान्त्यस्य चेत्वम् । तमोऽत्रास्तीति तमिस्रा रात्रिः । तमिस्रं तमःसमूहः । तमिस्राणि गुहामुखानि । मतुश्च । तमस्वान् । अर्णवेति अर्णसो वः प्रत्ययः अन्त्यस्य च लोपः। अर्णवः समुद्रः । ज्योत्सोति ज्योतिःशब्दान्नः प्रत्यय उपान्त्यलोपश्च निपात्यते । ज्योत्स्ना चन्द्रप्रभा । अन्यत्र ज्योतिष्मती रात्रिः निपातनस्पेष्टविषयत्वात् ॥ ५२ ॥ गुणादिभ्यो यः ॥ ७।२।५३ ॥ गुणादिभ्यो मत्वर्थे यः प्रत्ययो भवति । गुण्यः पुरुषः । हिम्य. पर्वतः। मतुश्च । गुणवान् । हिमवान् । कथं को गुणिनो नार्चयेत इति इन् , शिखादित्वेन भविष्यति । गुणादयः प्रयोगगम्याः ॥ ५३॥ रूपात्प्रशस्ताहतात् ॥ ७।२।५४ ॥ प्रशस्तोपाधिकादाहतोपाधिकाच रूपान्मत्वर्थे यः प्रत्यया भवति । प्रशस्तं रूपमस्यास्ति रूप्यो गौः। रूप्यः पुरुषः । आहतं रूपमस्यास्ति रूप्यः कार्पापणः । निघानिकाताडनादीनारादिषु यद्रूपमुत्पद्यते तदाहतं रूप्यम् । प्रशस्ताहतादिति किम् । रूपवान् । प्रशंसायां मतुरपि भवति । रूपवती कन्या । आहते न भवति इतिकरणात् । कथं रूपिणी कन्या रूपिको दारक इति । ब्रीडादित्वाद्भविष्यति । आ यादित्यस्य पूर्णोऽवधिः अतः परं मतुर्नास्ति | ॥ ५४ ॥ पूर्णमासोऽण् ।। ७।२। ५५ ॥ पूर्णमास्शब्दान्मत्वर्थेऽण् प्रत्ययो भवति । पूर्णो माश्चन्द्रमा अस्यामस्ति पौर्णमासी ।। ५५ ॥ गोपूर्वादत इकण् ॥-अस्त-|-सरस्वताति । यदा नदी तदा सर: सरण गमनमस्यास्तीति वाक्य, यदा तु भारती तदा सरो मानसाद्यस्यास्तीति ॥ ऊजो-॥-अस्प्रत्ययान्तस्येति । यथेव जयतेरसन्तस्पास्तपोमायेत्यनेन असनावाद्विन् सिद्ध एव किमत्र सूत्रे ऊर्जुशन्नाहिन्विधानेन । सत्यम् । असन्तस्य ऊर्जयतेनियत एव प्रयोग इति ततोऽनेन विन्विधानम् एतय अपशब्दाद्विनविधानेनैव ज्ञाप्यते ॥ गोपू-॥