________________
यथाकथंचियुत्पादनीयौ सिध्मादिपु वा पठनीयौ ॥ २१ ॥ प्रज्ञापोदकफेनाल्लेली ॥७।२। २२ ॥ प्रज्ञा पर्ण पदक फेन १०मादिक इत्येतेभ्यो मत्वर्थे ल इल इत्येतौ प्रत्ययौ भवतः मतुश्च । प्रशालः । महिलः । प्रज्ञावान् । पर्णलः । पर्णिलः । पर्णवान् । उदकलः । उदकिलः । उदकवान् । फेनलः । फेनिलः । फेनवान् ॥ २२ ॥ कालाजटाघाटात्क्षेपे ॥७॥ २ ॥ २३ ॥ कालाजटाघाटा इत्येतेभ्यो ल इल इत्येतो प्रत्ययौ भवतः क्षपे प्रत्यार्थस्य निन्दायां गम्यमानायाम् । कालालः । कालिलः । कालेति डोपान्त्य केचित्पठन्ति । काडालः । काडिला । जटालः । जटिलः । “घाटालः । पाटिलः । मतुना क्षेपो न गम्यते इति क्षेपे मतुर्न भवति । क्षेप इति किम् । कालावान् । जटावान् । घाटावान् ॥ २३ ॥ वाच आलाटौ ॥ ७ ॥२॥ २४ ॥ वाच् इत्येतस्मान्मत्वर्थे आल आट इसेतो प्रत्ययौ भवतः क्षेपे गम्यमाने । ग्मिनोऽपवादः । वाचालः । वाचाटः । यो बहु निःसारं भापते स एवं क्षिप्यते । मतुना क्षेपो न गम्यते इति क्षेपे मतुर्न भवति । क्षेपे इत्येव । वाग्मी । वाग्वान् ॥ २४ ॥ ग्मिन् ॥ ७ । २ । २५ ॥ वाचो मत्वर्थे ग्मिन् प्रत्ययो भवति मतुश्च । वाम्मी । वाग्वान् । गकारः 'प्रत्यये च' (१-३-२) इति अनुनासिक निवृत्यर्थः । क्षेप इति निवृत्तम् ॥२५॥ मध्वादिभ्यो ॥७॥२॥२६॥मध्वादिभ्यो मत्वर्थ रः प्रययो भवति । *मधुरो रसः। अत्र मधुशब्दः खादुत्वे गुणत्वे गुणसामान्ये वर्तते । मधुरं मधु । मधुरं क्षीरम् । अत्र गुणे। क्षौद्रादिद्रव्यवृत्तेस्तु मतुरेव इतिकरणानुवृत्तेः। मधुमान् घटः । एवं खं महत् कण्ठविचरमस्यास्ति खरः गर्दभः । खवानन्यः । मुखं सर्वस्मिन् वक्तव्ये यस्यास्तीति मुखरः वाचालः । मुखवानन्यः । कुञ्जावस्य स्तः कुञ्जरो इस्ती । कुजशब्दोऽत्र हनुपर्यायः । कुञ्जनानन्यः । नगरं पुरं, नगवदन्यत् । ऊपरं क्षेत्रम् , ऊपवदन्यत् । मुष्करः पशुः, मुष्कवानन्यः । शुषिरं शुपिमत्काष्ठम् । कण्डूरः कण्डूमान् । पाण्डुरः पाण्डुमान् । पांशुरः पांशुमान् । मध्वादयः प्रयोगगम्याः ॥ २६ ॥ कृष्यादिभ्यो वलच ॥७॥२॥ २७ ॥ कृष्यादिभ्यो मत्वर्ये वलच् प्रत्ययो भवति । कुपीवलः कुटुम्बी । कृषिमत्क्षेत्रम् । आसुतीवलः कल्यपालः । आसुतिमान् । परिषद्लः । परिषद्वान् । पर्षदलः । पर्षद्वान् । परिषदल तीर्थ पहिलमित्यर्थः । परिषदत् । रजस्वला स्त्री । रजस्वान् ग्रामः । केचित्तु रजस्खलो देशः रजस्वला भूमिः रजस्वान रजस्वतीति सर्वत्राविशेषेण वृत्तिमिच्छन्ति । दन्तावलो नाम राना हस्ती च । शिखावलं नगरम् । शिखावलो मयूरः । शिखावला स्थूणा । वत्सकासलयोरपे । औगादिको वा मनोशमेधाविवाचिनौ ॥-काला-॥-फालाल इति । कठत् णिग् भिदायङ् । 'ऋफिड-'इति काला पादनसाविशेष । अस्मान्मतौ ' प्राण्यड्ग-'इति के अभ्रायकारे व प्राप्त लेलौ ॥-जयाल इति । लोकवचनाय जटा अस्यास्ति ॥-घाटाल इति । निन्या घाटा कृकाटिकास्यास्ति ॥-ग्मिन्-॥-निवृत्त्यर्थ इति । द्वितीयगश्रवण न स्यादिति न वाग्य रूपमेव हि भियते न श्रुति शब्दस्य श्रोत्रमाणत्वादिति पूर्वन्यासा ॥-क्षेप इति निवृत्तम् । पृथग्योगादितिकरणानुवृत्तेश्च प्रशसायामेवाय न स्वरूपमात्रे॥-मध्वा--मधुर इति । मधुशब्दो माधुर्येऽर्थे पुलिङ्ग क्षौद्रावर्षे तु नपुंसक । तस्मात्माधुर्येऽयें पुलिङ्गेन वाक्य कार्य मधुरस्यास्तीति । स्वादुरवे इत्यस्य गुणरव इति गुणसामान्ये इति च पर्यायद्वयम् ॥-१६ पवमिति । इतिकरणानुत्से । पर इत्यादिषु अर्थविशेषे रप्रत्ययोऽन्यत्र मतुरेवेत्यर्थ ॥-पाण्डुर इति । अत्र पाण्डशब्दः पाण्डवरूपे गुणे पर्त्तते ।-कृया-1-शिखावलो मयूर इति ।