________________
1
इत्येताभ्यां मत्वर्थे तः प्रत्ययो भवति मतुश्च । मरुत्तः । मरुत्वान् । पर्वतः । पर्ववान् ॥ १५ ॥ वलिवदितुण्डेर्भः ॥ ७ । २ । १६ ॥ वलिवटितुण्डिइत्येतेभ् मत्वर्थे भः प्रत्ययो भवति । वलिभः । वलिन इत्यङ्गादित्वान्नः । वटिभः । तुण्डिभः । सिध्मादिपाठाले तुण्डिलः । मतुञ्च । वलिवान् । । मवृद्धा नाभिस्तुण्डिः || १६ ॥ ऊर्णाहंशुभमो युस् ॥ ७ । २ । १७ ॥ ऊर्णा अहम् शुभम् इत्येतेभ्यो मत्वर्थे युम् प्रत्ययो भवति । ऊर्णायुः उरभ्रः । अहंयुः अहंकारी । शुभंयुः कल्याणबुद्धिः ||| १७ || शंभ्यां युस्तियस्तुतम् ॥ ७ ॥ २ । १८ ॥ कम् शम् इत्येताभ्यां मत्वर्थे युस् ति यस् तु त क भ इत्येते मसया भवन्ति । केयुः । शैयुः ॥ कन्तिः । शतिः । कंयः । शंयः । केतुः । शन्तुः । कन्तः । शन्तः । कंवः । शत्रः । कुंभः । शेभः । युस्वसोः सकारो नाम सिंदव्यञ्जने - (१ - १ - २१ ) इति पदस्यार्थः । तेन 'तौ सुमो व्यञ्जने स्वौ ' (१-३-१४ ) इत्यनुस्वारानुनासिकौ सिद्धौ । कंयुः । कय्युः । शयः । शय्यः ॥ १८ ॥ बलवातद्न्तललायदूलः ॥ ७ । २ । १९ || एभ्यो मत्वर्थे कलः प्रत्ययो भवति । बलूलः । वातूलः । दन्तूलः । ललाटूलः । मतुञ्च । बलवान् । वातवान् । दन्तवान् । ललाटवान् ॥ १९ ॥ प्राण्यङ्गादातो लः ॥ ७ । २ । २० ॥ प्राण्यङ्गवाचिन आकारान्तान्मत्वर्थे लः प्रत्ययो भवति मतुव । चूडालः । जङ्घालः । शिखाल: । चूडावन् । जङ्घावान् । शिखावान् । प्राप्यङ्गादिति किम् । जङ्घावान् प्रासादः । शिखावान् प्रदीपः । अङ्गग्रहणं किम् । इच्छावान् । वासनावान् । कर्णिकाल इत्यत्र कर्णिकाशब्दः "माण्यस्यैव वाचक इत्याहुः । आत इति किम् । हस्तवान् । पादवान् ॥ २० ॥ सिध्मादिक्षुद्रजन्तु रुग्भ्यः ॥ ७ । २ । २१ ॥ सिध्मादेर्गणात् क्षुद्रI जन्तुवाचिभ्यो रुग्वाचिभ्यश्च मत्वर्थे लः प्रत्ययो भवति मतुश्च । सिध्मान्यस्य सन्ति सिध्मलः । सिध्मवान् । वलः । वर्ष्मवान् । अङ्गादित्वान्ने वर्ष्मनः । गडुलः । गड्डुमान् । पाणधमनीशब्दौ दीर्घान्तावेव गणे पठ्येते तेन दीर्घान्ताभ्यामेव लः । पाष्णीलः । धमनीलः । हस्वान्ताभ्यां तु मतुरेव । पार्ष्णिमान् । धमनिमान् । | क्षुद्रजन्तु, युकालः । यूकावान् । मक्षिकालः । मक्षिकावान् । आ नकुलात् क्षुद्रजन्तुः । रुक्, मूर्च्छलः । मूर्च्छवान् । विचर्चिकालः । विचर्चिकावान् । रुग्भ्य इति बहुवचन स्वरूप विधिनिषेधार्थम् । सिध्म वर्ष्मन् गड्डु तुण्डि मणि नाभि वीज निष्पाद् निष्पद् निष्प पांशु हनु । पाणी धमनी सक्त मांस पत्र वात पित्त श्लेष्मन् पार्श्व कर्ण सक्थि स्नेह शीत कृष्ण श्याम पिङ्ग पक्ष्मन् पृथु मृदु मञ्जु बटु कण्डू । इति सिध्मादिः । कथं वत्सलः स्नेहवान् अंसलो बलवान् । नात्र कश्चिद्वत्साद्यर्थोऽस्ति इति पेशलकुशलादिवदेतौ दानेsपि किमर्थग्रहणेन । न प्रतिपत्तिगौरवनिरासार्थस्वादर्थग्रहणस्य ॥ - वलिव- ॥ वढिल्लतनाभ्यर्थ. । एकदेशेतिन्यायात्तुन्दिशब्दादपि मे तुन्दिभ इति क्षीर ॥ -- प्राण्य- |
| चूडाल इति । शाखादिपाठेन न वाध्यते इतिकरणात् ॥ शिखाल इति । इदमुदाहतं शकटोत्पलभोजैः । मूलोदाहरण तु भोजनैव ततश्चैव ज्ञायते यथा शिखाया वलच् सज्ञायां तथा इन्नपि । वो मयूर इति नियते अर्थे द्रष्टव्य इत्यवधार्यमितिकरणात् ॥ प्राण्यङ्गस्यैवेति । न तु कर्णाभरणस्येत्यर्थ ॥ - सिध्मा ॥ ननु सिध्मशब्दस्य दुर्भितार्थत्वात् रुद्वारेणेव ल सिद कि गणपाठेन । सत्यम् । अस्यादन्तत्वात् प्राणिस्थादस्वाद्गात् ' इतीन् स्यात्तद्बाधनार्थम् । वनुशब्दस्यापि दुर्भितार्थत्वात् कण्डूशब्दस्य च तथैव सिद्ध किं त्वाभ्यां यथाक्रम 'नोऽगाड्दे' 'मधुवादिभ्यो रः' इत्येव स्यात् । तथाऽत्र गडद गलत्वरूपे गुणे वर्त्तते इति रुगुद्वारेण न सिध्यति ॥ - पेशलकुशलादिवदिति । यथा पेश छाति कुश लाति इत्येवमनयोर्व्युत्पत्तिरेव