________________
स०अद्वि
कः । तण्डुली । कर्पटिकः । कर्पटी । धनादुत्तमणे भवतः । धनिकः । धनी । सप्तम्यर्थे च न भवतः। दण्डोऽस्मिन्नस्ति दण्डवद्गृहम् । वीरवान् ग्रामः । कचिदनतः। खालिनी भूमिः । शालिनी भूमिः । रसरूपपर्णगन्धस्पर्शशब्दलेहेभ्यो गुणवाचिभ्यो न भवतः । कचिद्भवतः । रसिको नटः । रसी इक्षुः। रूपिको दारकः । रूपिणी कन्या । रूपिप्ववधिः । मरूपिसमवायाचाशुपाणि । स्पर्शिको वायुः । गन्धिकः । गन्धी । तदेवं व्यभिचारे सूत्रणादभिधानव श्रेयः ॥६॥ अशिरसोऽशीर्पथ ॥ ७॥ २७ ॥ अशिशब्दान्मत्वर्थे तौ इक इन् इत्येतो प्रत्ययौ भवतः मतुश्च तत्संनियोगे चाशिरःशब्दस्याशीप इत्ययमादेशो भवति । अशीर्षिकः । अशीपी । अशीर्पवान् । इकेनोः 'शीर्पः खरे तद्धिते' (३-२-१०३ ) इति शीपदेशो विद्यत एव, मतौ त्वशिरसोऽशीर्षभावोऽनेन विधीयते ॥ ७ ॥ अर्थार्थान्ताभावात् ॥ ७२।८॥ अर्थशब्दादान्ताच भाववाचिनो मत्वर्थे तो इक इन् इत्येतौ प्रत्ययौ भवतः । नियमाथेगिदम् । उभयथा चायं नियमो वास्यभेदेन क्रियते । भाववाचिन एवैतौ प्रत्ययौ भवतः । भाववाचिनचैतावेव भवतः । अर्थणि उपयाचने । अर्थनमर्थ. । सोऽस्यास्तीत्यर्थिकः । अर्थी । प्रतीपमर्थन परार्थः । सोऽस्पास्तीति प्रत्यर्थिकः । प्रत्पर्थी। इकेनावेवेति नियमादतो मतुर्न भवति । भावादेवेति नियमादतो द्रव्यवाचिन इकेनौ न भवतः। अर्थो हिरण्यादिरस्यारतीति अर्थवान् इति मतुरेव भवति ॥ ८॥ बीयर्थतुन्दादेरिलश्च ॥ ७ ॥२९॥ ब्रीहिवाचिभ्यस्तुन्दादिभ्यश्च मत्वयें इलः प्रत्ययो भवति चकारात्तौ चेंकनौ आ यादिति मतुश्च । बीबर्थ, कलमा अस्पास्मिन्या सन्ति कलमिलः । कलामकः। कलमी। कलमवान् । शालिलः । शालिकः। शाली । शालिमान् । बीहिशब्दोऽपि बीवों भवति किंतु तस्य पूर्वनोपादानादिलो न भवति । भावे हि तत्रोपादानमनर्थकं स्यात् । भवतीत्येके । ब्रीहिलः । तुन्दादि, तुन्दिलः । तुन्दिकः । तुन्दी। तुन्दवान् । उदरिलः । उदरिकः । उदरी । उदरवान् । तुन्द उदर पिचण्ड यव ग्रह पङ्क गुहा कला काक । इति तुन्दादिः ॥९॥ स्वाङ्गादिवृद्धात्ते ॥ ७॥२॥१०॥ स्वाङ्गाद्विद्धोपाधिकान्मत्वर्थे ते इल इक इन् इत्येते प्रत्यया भवन्ति मतुश्च । विद्धौ महान्तौ कर्णावस्य स्तः कर्णिलः कर्णिकः कर्णी कर्णवान् । ओप्ठिलः ओष्ठिकः
ओष्ठी ओष्ठवान् । विरद्धादिति किम् । अन्यत्रेलो न भवति । 'अतोऽनेकखरात्' (७-२-६ ) इतीकेन्मतव एव भवन्ति ॥ १०॥ वृन्दादारकः ॥ ७ ॥२॥ ११ ॥ वृन्दशब्दान्मत्वर्थे आरका प्रत्ययो भवति मतुश्च । वृन्दारकः । वृन्दवान् । शिखादित्वात् वृन्दी ॥ ११॥ शृङ्गात् ॥ ७॥२॥१२॥ शृगान्मत्वर्थे आरका प्रययो भवति मतुश्च । शृङ्गारकः । शृङ्गवान् । शिखादित्वात् शङगी ॥ १२ ॥ फलबहाचेनः ॥७॥२॥ १३ ॥ फलबह इसताभ्यां शृङ्गाच मत्वर्थे इनः प्रययो भवति मतुश्च । फलिनः । फलवान् । बर्हिगः । वईवान् । गृङ्गिणः । शृङ्गवान् । शिखादित्वात फली वहीं ॥ १३ ॥ मलादीमसञ्च ॥ ७१२ १४ ॥ मलशब्दान्मत्वर्थे ईमस इनश्च प्रययौ भवतः मतुश्व । मलीमसः। मलिनः । मलवान् ॥ १४ ॥ मरुत्पर्वणस्तः ॥ ७ ॥२ । १५ ।। मरुत्पन् जातिशब्दत्व दर्शयता तथेत्युपातम् ॥-गुणवाचिभ्यो नेति । यदा तु कस्पचिप रस इत्यादि नाम भवति तदा भवत्येवा-रूपिसमवायादिति । सण्या परिमाणानि पृथक्त्व सयोगवि. भागौ कसं च रूपिसमवायाचाक्षुपाणीति ॥-बीड-1-चकारात्तौ चेति । अब चशब्दोऽन्यथै तावपीत्यर्थ - ॥-पूर्वनेति । बीमादिभ्यस्तावित्यत्र । ननु तर्हि अर्थग्रहणाभावेऽपि बीहिशब्दोपा १