________________
PRAVASANA
संवद्धः । गुणादिति किम् । धान्यवचनान्मा भूत् । सस्येन परिजातं क्षेत्रम् ॥ १७८ ॥ धनहिरण्ये कामे ॥७ ।। १७९ ॥ धन हिरण्य इत्येताभ्यां निर्देशादेव सप्तम्यन्ताभ्यां कामेऽभिलाषेऽर्थे का प्रत्ययो भवति । धने कामः धनकः चैत्रस्य । हिरण्यको मैत्रस्य ॥ १७९॥ स्वाङ्गषु सक्ते ॥७।१।१८०॥ स्वाङ्गवाचिभ्यो नामभ्यो निर्देशादेव सप्तम्यन्नेभ्यः सक्ते तत्परेऽर्थे का प्रययो भवति । केशेषु सक्तः केशकः । नखकः। दन्तकः । केशादिरचनायां प्रसक्त उच्यते। बहुवचनात्स्वानसमुदायादापि भवति । दन्तौष्ठकः । केशनखकः ॥ १८०॥ उदरे विकणायूने ॥७।१ । १८१ ॥ उदरशब्दानिर्देशादेव सप्तम्यन्नासक्तेऽर्थे इकण् प्रत्ययो भवति सक्तश्चेदायूनो भवति । उदरे सक्तः औदरिकः आयूनः अविजिगीषुः यो बुभुक्षयात्यन्तं पीड्यते । औदरिकी । आयून इति किम् । उदरकोऽन्यः । तुशब्दः पूर्वयोगशेषतामस्य कथयति । तेन काधिकारो न बाध्यते ॥ १८१ ॥ अंशं हारिणि ॥ ७ । १ । १८२ ॥ अंशशब्दानिर्देशादेव द्वितीयान्तादारिण्यर्थे का प्रत्ययो भवति । अंशं हारी अंशको दायादः । हारीत्यावश्यके णिन् ॥ १८२ ॥ तत्रादचिरोद्धते ॥७।१।१८३ ॥ तत्रशब्दानिर्देशादेव पञ्चम्यन्तादचिरोद्धतेऽचिरादत्तीर्णेऽर्थे का प्रत्ययो भवति । तत्रात्पटवानोपकरणादचिरोत्तीर्णः तबकः पर्टः । प्रत्यग्र इत्यर्थः ॥ १८३ ॥ ब्राह्मणान्नानि ॥ ७ । १ । १८४ ॥ ब्राह्मणशब्दानिर्देशादेव पञ्चम्यन्तादचिरोद्धतेऽर्थ नान्नि संज्ञायां कः प्रत्ययो भवति । | सदाचारब्राह्मणेभ्यस्तदानीमेवोद्धृत्य पृथक्कृतः ब्राह्मणको नाम देशः । यत्रायुधजीविनः काण्डस्पृष्टा नाम ब्राह्मणा भवन्ति । आयुधजीवी ब्राह्मण एवं ब्राह्मणक इत्यन्ये ॥ १८४ ॥ उष्णात् ॥ ७ ।१ । १८५ ॥ उष्णशब्दात्पञ्चम्यन्तादचिरोद्धतेऽर्थे का प्रत्ययो भवति नान्नि । उष्णादग्नेरचिरोद्धता उष्णिका यवागः। अल्पान्ना पेया विलेपिकेति यावत् । उष्णकुण्डान्निसृता नदीति केचित् ॥ १८५ ॥ शीताच कारिणि ॥७॥ १ । १८६ ॥ शीतादुष्णाच सामर्थ्यात् द्वितीयान्तात्कारिण्यर्थे का प्रत्ययो भवति नान्नि। शीतं मन्दं करोति शीतकः अलसः ।उष्णं क्षिप्रं करोति उष्णकः दक्षः। नान्नीत्यनुवृत्तेः शीतोष्णशब्दाविद मान्यशीघ्रवचनौ गृह्यते न स्पर्शवचनौ । क्रियाविशेषणत्वात् द्वितीया । कारीत्यावश्यके णिन् ॥ १८६॥ *अधेरारूढे ॥ ७ ॥ १।१८७ ॥ अधिशब्दादारूढेऽर्थे वर्तमानात्स्वार्थे का प्रत्ययो भवति । आरूढशब्दः कतरि कर्मणि च तात्यये सिद्धः। तत्र यदा कर्तरि तदा अधिको द्रोणःखार्याः अधिको द्रोणः खार्यामिति च भवति । यदा तु कर्माण तदा अधिका खारी द्रोणेनेति भवति ॥१८७॥ अनोः कमितरि ॥७१। १८८ ॥ अनुशब्दाकः प्रत्ययो भवति समुदायेन चेत्कमिता गम्पते । अनुकामयतेऽनुकः ॥१८८॥ अभेरीश्च वा ॥७।११८९॥ अभिशब्दात्कः प्रत्ययो भवति ईकारश्चास्य वा भवति समुदायेन चेत्कमिता गम्यते । अभिकामयते अभिकः, अभीकः ॥ १८९ ॥ सोऽस्य मुख्यः ॥ ७।१।१९०॥ स इति प्रथमान्तादस्येति षष्ठ्यर्थे का प्रत्ययो भवति यत्तत्पथमान्तं स चेन्मुख्यः प्रधानं ग्रामणीर्भवति । देवदत्तो मुख्योऽस्य देवदत्तकः संघः । जिनदत्तकः । देवदत्तो मुख्य एषां देवदत्तकाः । जिनदत्तकाः । मुख्य ॥-अंश-॥अवश्य हरिप्यति णिन् । 'एष्यदणेन.' इति पच्या निषेधः । शीलार्थे तु पष्ठी स्यात् ॥-अधे-॥-खार्याः। खार्यामिति चेति। 'अधिकेन भूयसस्ते' पञ्चमीसप्तम्यौ ॥-द्रोणेनेति । 'तृतीयाल्पीयस.'
Movesww