________________
श्रीहेमशः
N
विच्छति स राजपुरुषस्तत्र न भवति ॥ १७१ ॥ क्षेत्रेऽन्यस्मिन्नाश्य इयः ॥ ७॥१। १७२ ॥ क्षेत्रशब्दानिर्देशादेव सप्तम्यन्तादन्योपाधिकान्नाश्येऽर्थे इयः स०अ०भ प्रत्ययो भवति । अन्यस्मिन् क्षेत्रे नाश्यः क्षेत्रियो व्याधिः । क्षेत्रं शरीरम् । अन्यदिति जन्मान्तरशरीरमुच्यते । तत्र नाश्यो नेहेत्यसाध्यो व्याधिरुच्यते । क्षेत्रियं ।। विपम् । तद्धि स्वशरीरादन्यस्मिन्परशरीरे संक्रमय्य किंचिन्नाश्यं चिकित्स्यं भवति । क्षेत्रियाणि तृणानि । तानि हि सस्यक्षेत्रेऽन्यस्मिन्नुत्पन्नानि नाश्यान्युत्पाद्यानि | भवन्ति । क्षेत्रियः पारदारिकः । स हि स्वक्षेत्रादन्यस्मिन् क्षेत्रे परदारेषु भवर्तमानस्तव नाश्यो निग्राह्यो भवति । दाराः क्षेत्रम् ।। १७२ ॥ छन्दोऽधीते श्रोत्रश्च
वा ॥ ७ । १ । १७३ ॥ छन्दमशब्दानिर्देशादेव द्वितीयान्तादधीत इत्यस्मिन्नर्थे इयः प्रत्ययो वा भवति तत्संनियोगे च छन्दसूशब्दस्य श्रोत्रभावः । छन्दोऽधीते | श्रोत्रियः । पक्षेऽण् । छान्दसः ॥ १७३ ॥ इन्द्रियम् ॥ ७ । १। १७४ ॥ इन्द्रियमितीन्द्रशब्दादियमस्ययो निपात्यते । निपातनं रूद्ध्यर्थे, तेन यथायोगमर्थकल्पना । इन्द्र आत्मा इन्द्रस्य लिङ्गामिन्द्रियम् चक्षुरायुच्यते । तेन हि करणेनात्मानुमीयते नाकर्तुकं करणमिति । इन्द्रेण दृष्टमिन्द्रियम् । आत्मा हि चक्षुरादीनि दृष्ट्वा स्वविषये नियुङ्क्ते । इन्द्रेण सृष्टमिन्द्रियम् । आत्मकृतेन हि शुभाशुभेन कर्मणा तथाविधविषयोपभोगायास्य चक्षुरादीनि भवन्ति । इन्द्रेण जुष्टमिन्द्रियम्, तद्वारेणास्य विज्ञानोत्पादात् । इन्द्रेण दचमिन्द्रियम्, विषयग्रहणाय विषयेभ्यः समर्पणात् । इन्द्रस्यावरणक्षयोपशममाघनमिन्द्रियम् । एवं सति संभवेऽन्यापि व्युत्पत्तिः कर्तव्या ॥ १७४ ॥ तेन वित्ते चञ्चुचणी ॥ ७ । १ । १७५ ॥ तेनेति तृतीयान्ताद्वित्तेऽर्थे चञ्चुचण इत्येतौ प्रसयौ भवतः । वित्तो ज्ञातः प्रकाश इयर्थः । विद्यया वित्तः विद्याचरचुः । विद्याचणः । केशचञ्चुः । केशचणः ॥ १७ ॥ पूरणाद्ग्रन्थस्य ग्राहक को लुक्चास्य ॥ ७॥११७६ ॥ तेनेति तृतीयान्तात्पूरणप्रत्ययान्सात् ग्रन्थस्य ग्राहकेऽर्थे का प्रन्ययो भवति तत्संनियोगे च पूरणप्रत्ययस्य लुक् । द्वितीयेन रूपेण ग्रन्थस्य ग्राहकः द्विकः । त्रिकः चतुष्कः पञ्चकः षट्कः वैयाकरणः । ग्रन्थस्येति किम् । पञ्चमेन दिनेन शत्रूणां ग्राहकः॥१७६ ॥ ग्रहणादा ॥ ७।१ । १७७ ॥ ग्रन्थस्येति वर्तते पूरणादिति च । गृह्यतेऽनेनेति ग्रहणं रूपादि । ग्रन्थस्य ग्रहणाद् ग्रहणे वर्तमानात्पूरणप्रत्ययान्तानाम्नः कः प्रत्ययो भवति स्वार्थे प्रकृत्यर्थ एव अर्थान्तरानिर्देशात् तत्संनियोगे च पूरणप्रत्ययस्य वा लुक् । वेति लुकैव संवन्ध्यते न प्रत्ययेन । पक्षे प्रत्ययानुत्पत्तेमहाविभापयैव सिद्धत्वात् । द्वितीयमेव द्विकम् ग्रन्थग्रहणमस्य । द्वितीयकम् ग्रन्थग्रहणमस्य । एवं त्रिकं व्याकरणस्य ग्रहणम् । तृतीयकं व्याकरणस्य ग्रहणम् । चतुष्कं चतुथेकं पञ्चकं पञ्चमकम् । ग्रन्थस्येत्येव । द्वितीयं ग्रहणं धान्यस्य ॥ १७७ ॥ सस्याद्गुणात्परिजाते ॥ ७।१ । १७८ ॥ सस्यशब्दाद्गणवाचिनस्तेनति तृती| यान्तात्परिजातेऽर्थे कः प्रत्ययो भवति । परिः सर्वतोभावे । जनिः संपत्ती । सस्येन परिजातः सस्यकः शालिः । यः सर्वतो गुणैः संपन्नो न यस्य किंचिदपि वैगुण्यमस्ति स एवमुच्यते । एवं सस्यको देशः । सस्यको वत्सः । सस्यकं सीधु । सस्यको मणिः । रूढिशब्दश्चायं मणिविषये । सस्यकः खद्गः सर्वतः सारेण ॥--सस्या--॥--कढिशब्दश्चेति । गुणेन परिजातोऽस्तु वा मावा समुदायप्रसिद्ध्या तु मणिविशेषस्य सज्ञा