________________
श्री मश० ।
॥ १६ ॥
इति किम् । देवदत्तः शत्रुरेपाम् ॥ १९० ॥ शृङ्खलकः करभे ॥ ७ । १ । १९१ ॥ शृङ्खलकशब्द' कप्रत्ययान्तो निपायते करमे उष्टशिशौ वाच्ये । शृङ्खल बन्धनमस्य शृङ्खलकः करभ उच्यते । करभाणां काष्ठमयं पादवन्धनं शृङ्खलम् । वयःशब्दश्रायम् । शृङ्खलं वन्धनं भवतु वा माभूत् ॥ १९१ ॥ उदुत्सोरुन्मनसि ॥ ७ । १ । १९२ ॥ उत् उत्सु इत्येताभ्यामस्येत्युन्मनस्यभिधेये कः प्रत्ययो भवति । उद्गतं मनोऽस्य उत्कः । उत्सुगतं मनोऽस्य उत्सुकः उन्मना इत्यर्थः ॥ १९२॥ कालहेतुफलाद्रोगे ॥ ७ । १ । १९३ ॥ स इति वर्तते । स इति प्रथमान्तेभ्यः कालविशेषवाचिभ्यो हेतुवाचिभ्यः फलवाचिभ्यश्वास्येति षष्ठ्यर्थे | क' प्रत्ययो भवति यत्तदस्येति निर्दिष्टं रोगचेचद्भवति । द्वितीयो दिवसोऽस्याविर्भावाय । द्वितीयकः । तृतीयकः । चतुर्थको ज्वरः । सततः कालोऽस्य सततको ज्वरः । हेतु, विषपुष्पं हेतुः कारणमस्य विषपुष्पकः । काशपुष्पकः । पर्वतको रोगः । फल, शीतं फलं कार्यमस्य शीतकः । उष्णको ज्वरः । रोग इति किम् । द्वितीयो दिवसोऽस्य जातस्य बालकस्य ॥ १९३ ॥ प्रायोऽन्नमस्मिन्नानि ॥ ७ । १ । १९४ ॥ स इति वर्तते । स इति प्रथमान्तादस्मिन्निति सप्तम्यर्थे नान्नि संज्ञायां विषये कः प्रत्ययो भवति यत्तत्प्रयमान्तं तच्चेदन्नं प्रायः प्रायेण भवति । प्रायशब्दोऽत्रान्नसमानाधिकरणो नियत लिङ्गसंख्यः । मायः अकृत्स्नबहुत्वम् । गुडापूपाः प्रायेण प्रायो | वान्नमस्यां गुडापूपिका पौर्णमासी । तिलापूपिका । कृशरिका। त्रिपुटिका। नाम्नीति किम् । अपूपाः प्रायेण प्रायो वान्नमवन्तिषु ॥ १९४॥ कुल्मासादण् ।। ७ । १ । १९५ ।। कुल्मासशब्दात्मथमान्तात्मायोऽन्नमस्मिन्नित्यर्थेऽण् प्रत्ययो भवति नानि । कुल्माताः प्रायेण प्रायो वान्नमस्यां पौर्णमास्यां कौल्मासी । कुल्माप इति मूर्धन्योपान्त्योप्यस्ति ॥ १९५ ॥ वटकादिन् ॥ ७ । १ । १९६ ॥ वटक शब्दालयमान्तात्मावोऽन्नमस्मिन्नित्यर्थे इन् प्रत्ययो भवति नानि । वटकानि प्रायेण प्रायो वान्नमस्यां वटकिनी ॥ १९६॥ साक्षाद्द्रष्टा ॥ ७ । १ । १९७॥ साक्षाच्छन्दाद्रष्टेत्यस्मिन्नर्थे इन् प्रत्ययो भवति । साक्षाद्द्रष्टा साक्षी । साक्षिणौ । साक्षिणः । 'प्रायोऽव्ययस्य' (७-४-६५) इत्यन्त्यखरादिलोपः || नाम्नीत्येव । साक्षाद्रष्टा || १९७ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ सप्तमस्याध्यायस्य प्रथमः पादः समाप्तः ७ | १ ॥ लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः ॥ तथापि तव सिद्धेन्द्र दातेत्युक्तंधरं यशः ॥ १ ॥
॥ काल - ॥ स इति वर्त्तते इति । अत कारणानिर्देशादेव पञ्चम्यन्तेभ्य इति न लभ्यते । मनु कालस्यापि रोगकारणत्वादेतुग्रहणेनैव सद्ग्रहणे सिंद्धे कि कालग्रहणेन । न । अम्यतो भवतोऽपि रोगथामस्त्र फाल इति रोगाधिकरणभूतस्य कालस्यासवन्धित्वे विशायमानेऽपि यथा स्यादित्येवमर्थम् ॥ - प्रायो॥नियतलिङ्गसस्य इति । अव्यय पुलिङ्ग एकवचनान्तोऽदश्य पूर्वस्तु सान्तोऽभ्ययश्वादलिड्गश्च ॥ इत्याचार्य श्री हेमचन्द्रविरचिताया सिद्ध हेमचन्द्राभिधानस्वोपज्ञ० स० प्रथमः पादः ॥ ॥
(स०अ