________________
भीमश० ॥ १४ ॥
विंशत्येवमादिकायाः संख्यायाः संख्यापूरणे तमद प्रत्ययो वा भवति । पक्षे दद् । विंशतेः पूरणः विंशतितमः । विंशः । विंशतितमी, विंशी स्त्री । एकविंशतितमः । |एकत्रिंशः । द्वाविंशतितमः । द्वाविंशः । एकान्नत्रिंशचमः । एकान्नत्रिंशः । त्रिंशत्तमः । त्रिशः । चत्वारिंशत्तमः । चत्वारिंशः । द्वाचत्वारिंशत्तमः । द्वाचत्वारिंशः । पञ्चाशत्तमः । पञ्चाशः । अष्टपञ्चाशत्तमः । अनुपञ्चाशः ॥ १५६ ॥ शतादिमासार्धमाससंवत्सरात् ॥ ७ । १ । १५७ ॥ शतादिभ्यः संख्याशब्देभ्यो मास अर्धमास संवत्सर इत्येतभ्यथ संख्यापूरणे तमद् प्रत्ययो भवति । शतस्य पूरणः शततमः । शततमी । एकशततमः । सहस्रतमः । लक्षतमः । मासस्य पूरणो मासतमो | दिवसः । अर्धमासतमः । संवत्सरतमः । पष्ट्यादेरित्येव सिद्धे शतादिग्रहणं संख्याद्यर्थम् ॥ १५७ ॥ षष्ट्यादेरसंख्यादेः ॥ ७ । १ । १५८ ॥ संख्या आदिवयवो यस्य स संख्यादिः । ततोऽन्यस्मात् पष्ट्यादेः षष्टिमभृतिभ्यः संख्याशब्देभ्यः संख्यापूरणे तमद् प्रत्ययो भवति । विकल्पापवादः । षष्टेः पूरणः षष्टितमः । सप्ततितमः । अशीतितमः । नवतितमः । असंख्यादेरिति किम् । एकषष्टितमः । एकषष्टः । एकसप्ततितमः । एकसप्ततः । विंशत्यादेरिति विकल्प एव ॥ १५८ ॥ | नो मद् ॥ ७ । १ । १५९ ॥ असंख्यादेः संख्याशब्दान्नकारान्तात्संख्यापूरणे मद् प्रत्ययो भवति । डटोऽपवादः । पञ्चानां पूरणः पञ्चमः । पञ्चमी । सप्तमः । अष्टमः । नवमः । दशमः । नइति किम् । विंशः । असंख्यादेरित्येव । एकादशः । द्वादश: ॥ १५९ ॥ वित्तियद् बहुगणपूगसंघात् | ॥ ७ । १ । १६० ॥ बहुगणपूगसंघ इत्येतेभ्यः संख्यापूरणे तियद् प्रत्ययो भवति स च पित् । बहूनां पूरगः बहुतिथः । वह्नीनां पूरणी बहुतिथी । गणतिथः । गणतिथी । पूगतिथः । पूगतिथी । संघतियः । संघतिथी । संख्याविशेषणं संभवापेक्षम् । पित्करणं पुंवद्भावार्थम् | टकारो ङत्यर्थः ॥ १६० ॥ अतोरिथद् ॥ ७ । १ । १६१ ॥ अत्वन्तात्संख्या शब्दात्संख्यापूरणे इथद् प्रत्ययो भवति स च पित् । उटोऽपवादः । इयत पूरणः इयतिथः । इयतीनां पूरणी इयतिथी । कियतिथः । कियतिथी । यावतिथः । यावतिथी। तावतिथः । तावतिथी । एतावतियः । एतावतिथी ॥ १३१ ॥ षट्कतिकतिपयात्थद् ॥ ७ । १ । १६२ ॥ षद् कति कतिपय इत्येतेभ्यः संख्यापूरणे यद् प्रत्ययो भवति स च पित् । षण्णां पूरणः पष्ठः षष्ठी । कतीनां पूरणः कतिथः । कतिथी | कतिच निर्देशात्थाटे ' नाम सिदय्व्यञ्जने ' पयथः । कतिपयानां स्त्रीणां पूरणी कतिपयथी || 'षष्ठी वानादरे ' (२ - २ - १०८ ) ' चतुर्थी ' (२-२-५३ ) ( १ – १ – २१ ) इति पदत्वं न भवति ॥ १६२ ॥ चतुरः || ७ | १ | १६३ ॥ चतुर् इत्येतस्मात्संख्यापूरणे थट् प्रत्ययो भवति । चतुर्णी पूरणः चतुर्थः । चतसृणां पूरणी चतुथीं। योगविभाग उत्तरार्थः ॥ १६३ ॥ येयौ चलुक् च ॥ ७ । १ । १६४ ॥ चतुर् इत्येतस्मात्संख्यापूरणे य ईय इत्येतौ प्रत्ययौ भवतः च इत्येतस्य लुक् च भवति । चतुर्णां पूरणः तुर्यः तुरीयः । तुर्या तुरीया । एवं च त्रैरूप्यं भवति ॥ १६४ ॥ बेस्तीयः ॥ ७ । १ । १६५ ॥ द्विशब्दात्संख्यापूरणे
स०अ०
॥ १४