________________
श्रयाणां भागानां द्वौ भागौ उदश्वितः क्रेयस्य । द्वौ गुणाविति क्रयं मूल्यं चैकगुणं कृत्वा तदपेक्षया मूल्यययोर्द्विस्तावतोच्यते । मूल्यक्रेय इति किम् । द्विगुणं क्षीरं तैलस्य पाक्यस्य ॥ १५३ ॥ अधिकं तत्संख्यमस्मिन् शतसहस्रे शतिशद्दशान्ताया ड: ॥ ७ । १ । १५४ ॥ संख्याया इति वर्त तदिति च । तदिति प्रथमान्तात् शतिशदशन् इत्येवमन्तात्संख्याशब्दादस्मिन् इति सप्तम्यर्थे शते सहस्रे च डः प्रत्ययो भवति यत्तत् प्रथमान्तं तच्चेदधिकं तत्संख्यं च भवति । सा शतसहस्रलक्षणा संख्या यस्य योजनादेस्तत्तत्संख्यं शतं सहस्रमिति च यत्संख्यायते तदेव यद्यधिकमपि भवतीत्यर्थः । योजनानां विंशतिर्योजनानि या विंशतिरधिकास्मिन्योजनशते शते वा योजनेषु विंशं योजनशतम् विंशं शतं योजनानि । एवं विंशं योजनसहस्रम् विंशं सहस्रं योजनानि । विंशं कार्षापणशतम् विंशं शतं कार्षापणानि । विंशं कार्षापणसहस्रम् विंशं सहस्रं कार्पापणानि । संख्या समुदायोऽपि संख्यैव संख्यायते ऽनयेति कृत्वेत्यत्रापि भवति । एकविंशम् द्वाविंशं शतम् । शव, त्रिंशं शतं त्रिंशं सहस्रम् । एकत्रिंशम् । चत्वारिंशम् । पञ्चाशम् । दशन्, एकादशं शतम् । एकादशं सहस्रम् | द्वादशम् त्रयोदशम् शतं सहस्रं वा । योजनादीनामिव शतानामपि सहस्रे भवति । विंशतिः शतान्यधिकान्यस्मिन् शतानां सहस्त्रे विंशं शतम् । त्रिंशम् एकादशस् । एवं सहस्राणामपि शते भवति । विंशतिः सहस्राण्यधिकान्यस्मिन्सहस्राणां शते विंशं शतसहस्रम् । त्रिंशम् । एकादशम् | राजदन्तादिषु पाठाच्छतशब्दस्य पूर्वनिपातः । अधिकमिति किम् । विंशतिः त्रिंशत् एकादश वा ऊना अस्मिन् शते । तत्संख्यमिति किम् । विंशतिर्दण्डा अधिका अस्मिन् योजनशते, त्रिंशत्पणा अधिका अस्मिन् कार्षापणसहस्रे, एकादश मापा अधिका अस्मिन् कार्षापणशते । अस्मिन्निति किम् । विंशतिरधिकास्माच्छतात् । शतसहस्र इति किम् । एकादशाधिका अस्यां त्रिंशति । शतिशदशान्ताया इति किम् | पडधिका अस्मिन् शते । दशाधिका अस्मिन्सहस्रे । व्यपदेशिकद्भावादशान्तत्वे शन्नित्येव क्रियेत न तु दशभिति । संख्याया इत्येव । गोविंशतिः अधिका अस्मिन् गोशते । न गोविंशतिशब्द एकविंशत्यादिवत्संख्य शब्द: ॥ १५४ ॥ संख्यापूरणे डट् ॥ ७ ॥ १ ॥ १५५ ॥ संख्या पूर्यते येन तत्संख्यापूरणम् । संख्याया इति वर्तते । संख्याशब्दात्संख्यापूरणेऽभिधेये उद् प्रत्ययो भवति । अत्र सामर्थ्यात् षष्ठ्यन्तात्मत्ययो विज्ञायते । अत एव तदिति निवृत्तम् । एकादशानां पूरणः एकादशः । एशादश संख्यापूरण इत्यर्थः । एवं द्वादशः । त्रयोदशः । चतुर्दशः । एकादशी श्री । संख्याग्रहणं किम् । एकादशानामुष्ट्रिकाणां पूरणो घटः । एकस्य तु पूरणाभावान ग्रहणम् । व्यादेरित्यनुवृत्तेर्वा ॥ १५५ ॥ विंशत्यादेर्वा तमद् ॥ ७ । १ । १५६ ॥ शब्दप्रयोगे माभूदित्यर्थ ॥ अधि-- ॥ ननु दशान्तशतिशत इत्युक्तेऽपि शतिशतो. प्रत्ययश्वात् प्रत्ययग्रहणपरिभाषया तदन्तप्रतिपत्तिर्भविष्यति कि तयोरन्तसबन्धेन । सत्यम् । अन्तग्रहणाभावे विंशतित्रिशदादेरेव स्वात् न स्वेकविशत्येकशिदादे' । अन्तग्रहणे तु यावत शतिशच्छन्दावन्तो स्तस्तावतो ग्रहणं सिद्धम् । भवत्येव तथापि सख्यानुवृत्ते सस्याशब्दादुच्यमानः प्रत्यय संख्यासमुदायादेकविशत्यादेनं स्वादित्याशङ्क्याह – संख्यासमुदायोपीत्यादि । एकविशव्यादेः समुदायस्य लोके पृथक् सरव्याय्येन रूढत्वादिति भाव: ॥ - पूर्वनिपात इति । सहस्राणां शतमिति कृते पाना इवि समासे प्रथमोकत्वात्सइस्वस्थ पूर्वनिपाते प्राप्ते ॥ ऊना अस्मिन् शते इति । योजनेविव्याध्याहार्यमभ्यया तत्सल्यस्व न स्यात्