________________
श्रीमत्र ०
॥१३॥
संख्याया इति किम् | कियान् यावान् तावान् पटः । मानादिति संख्याया विशेषणं किम् । क्षेपे माभूत् । का संख्या येषां दशानाम् ॥ १५० ॥ अवयवात्तयद् ॥ ७ ॥ १॥ १५१ ॥ तदस्येति संख्याया इति च वर्तते । मानादिति निवृत्तम् । अवयवादिति विशेषणान्तरोपादानात् । अवयवे वर्तमानात्संख्यावाचिनो नान्नस्तदिति प्रथमान्तात् अस्येति पष्ठ्यर्थे अवयविनि तयद् प्रसयो भवति । चत्वारोऽवयवा अस्याः चतुष्टयी शब्दानां प्रवृत्तिः । चतुष्टयी रज्जुः । पञ्चतयो यमः । सप्ततयी नयमवृत्तिः । दशतयो धर्मः । द्वादशतयः सिद्धान्तः ॥ १५१ ॥ * द्वित्रिभ्यामयद् वा ॥ ७ । १ । १५२ ॥ द्वित्रि इत्येताभ्यामवयवढत्तिभ्यां प्रथमान्ताभ्यामस्येति पष्ठपर्थे अनयविनि अयद् प्रत्ययो वा भवति । द्वाववयवावस्य द्वयम् द्वितयम् तपः । त्रयं त्रितयम् जगत् । त्रयः त्रितयो मोक्षमार्गः । टकारो ङद्यर्थः । द्वषी द्वितयी । त्रयी त्रितयी रज्जुः । अवयवा अवयविनि संबद्धा इति सामर्थ्यादवयवी प्रत्ययार्थ इति विज्ञायते । त्रयाणि पानानि यथातथा पिवेदित्यत्र तु देशकालादिभेदेन समुदायाभिधानात् बहुवचनम् । द्वये पदार्थों जीवा अजीवाचेत्यत्र तु जीवाजीवतया द्वैराश्योपादानात् बहूनामपि द्वाववयवौ भवतः । कथमुभयो मणिः उभये देवमनुष्याः उभयी दृष्टिरिति । उभयशब्दः सर्वादिषु उभयद् इति पचमानः शब्दान्तरमेव विज्ञेयम् । तथा चास्य ' नेमार्थ ' - ( १ - ४ - १० ) इत्यादिना जस इकारविकल्पो न भवति ॥ १५२ ॥ व्यादेर्गुणान्मूल्यये मयट् ॥ ७ । १ । १५३ ॥ संख्याया इति वर्तते । ज्यादेः संख्याशब्दाद्गुणवृते तदिति गयमान्तादस्येति पर्थे मयट् प्रत्ययो भवति स चेत्संख्याशब्दो मूल्ये क्रेये वा वर्तते । यवानां द्वौ गुणौ मूल्यमस्योदश्चितः क्रेयस्य द्विमयमुद विद्यवानाम् । एवं त्रयम् । चतुर्भयम् । उदश्वितो द्वौ गुणौ क्रेयावेषां यवानां द्विमया यवा उदश्वितः । एवं त्रिमयाः । चतुर्मयाः । व्यादिपदस्य सापेक्षस्यापि नित्यसापेक्षत्वेन गमकत्वाद्वृत्तिः । व्यादेरिति किम् | यवानामेको गुणो मूल्यमस्योदश्वित उदश्वित एको गुणः क्रेय एषां यवानाम् । गुणादिति किम् । द्वौ व्रीहियव मूल्यमस्योदश्वितः । द्वे घृतोदश्विती क्रेये एषां यवानाम् । मूल्यक्रेय इति किम् । क्षीरस्य द्वौ गुणौ तैलस्य पाक्यस्य ॥ अपरः प्रकारः । मुल्यक्रेय इति प्रत्ययार्थविशेषणम् । यादेः संख्याशब्दाद्गुणवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठयर्थे मयट् प्रत्ययो भवति स चेत् पष्ठयर्थो मूल्यं क्रेयं वा भवति । द्वौ गुणावेषां मूल्यभूतानां यवानामुदश्वितः द्विपया यवा उदश्वितो मूल्यम् । त्रिमयाः । चतुर्भयाः । द्वौ गुणावस्योदश्वितः क्रेयभूतस्य द्विमयमुदश्विद्यवानाम् क्रेयम् । त्रिमयम् । चतुर्मयम् । व्यादेरिति किम् । एकगुणा यवा उदश्वितो मूल्यम् एकगुणमुदश्विद्यवानाम् फ्रेयम् । गुणादिति किम् । उदश्वितस्त्रयाणां भागानां द्वौ भागौ यवानां मूल्यभूतानाम् । यवानां भनेन सस्यादृतिभ्यो विहितो मानवृत्तेस्तु इदकिमोतु' इत्यादिना एकत्वादावपि ॥ द्वित्रि- |--पयत्र दिव्य शुचि मेघसभव स्वतिप्रसन्ना परमी वारुणीम् । ममातुल पारि वक्त्रसभवं श्रयाणि पानानि यथातथा पिवेत् ॥ यहुवचनमिति । पानस्येकत्वात् कथ बहुवचनमित्याशङ्कार्थं ॥ कथमिति । इह केधिदुभमशब्दान्नित्यमयटमिच्छन्ति उभो शुद्धकृष्णो भवयवायस्य ताद् स्वमते कथमित्याराका || यादे ॥ मूल्ये क्रेये वेति । यदा मूल्ये संख्याशब्दस्तदा श्रेय प्रत्ययार्थं येतु मूल्य प्रत्ययार्थः ॥ --प्रत्ययार्थविशेषणमिति । पूर्वं तु प्रकृतिविशेषणम् ॥-गुणादिति किम् । भागादिति क्रियतामित्यर्थः ॥ द्वौ भागौ यवानामिति । यत्र साक्षावगुणः प्रयुज्यते तत्र भवतीति भाग
॥ १
सम