________________
न्
द्वौ प्रस्थौ मानमस्य स्यात् दिप्रस्थः । द्विपलम् । द्विशतः । मीयतेऽनेन मानं प्रमाणम् परिमाणम् उन्मानं संख्या चेह गृह्यते । 'ऊर्ध्वमाने किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्संख्या वाह्या तु सर्वतः' ॥१॥ अन्ये तु रूदप्रमाणान्तादेव दिगोरिच्छन्ति तन्मते द्विपस्थमात्रम् द्विपलमा द्विशतमात्रं स्यादित्यादौ लुप्न भवति॥१४४॥ मात्रट् ॥ ७।१।१४५ ॥ मानात संशये इति च वर्तते । तदिति प्रथमान्तान्मानवाचिनो नाम्नः पष्ठ्यर्थे मात्र प्रत्ययो भवति संशये। प्रस्थो मानमस्य स्यात प्रस्थमात्रम् धान्यम् । प्रस्थमात्रा ब्रीहयः । कुडवपात्रम् । पलमात्रम् । कर्पमात्रम् । पञ्चमात्राः । शतमात्राः । शतमात्रम् । दिष्टिमात्रम् । मात्रदनद्वयसानि नामान्यपि सन्ति । अनुबन्धासजनार्थ तु प्रत्ययविधानम् । तेन च स्त्रियां विशेषः । वैश्वदेवमात्रा भिक्षा ॥ १४५ ॥ शन्शदिशतेः॥ ७ ॥ १ । १४६ ॥ शन्नन्ताच्छदन्ताच संख्याशन्दादिशतिधाब्दाच मानवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठ्यर्थे संशये गम्यमाने मात्र प्रत्ययो भवति । डिनोऽपवादः । दश मानमेषां स्यात् दशमात्राः। पञ्चदशमात्राः । त्रिंशन्मात्राः । त्रयस्त्रिंशन्मात्राः । विंशतिमात्राः ॥ १४६ ॥ -डिन् ।। ७।१ । १४७ ॥ संशये इति निवृत्तम् । भ्योगविभागात् । शन्नन्ताच्छदन्ताच संख्याशब्दादिशतिशब्दाच मानवृत्तेस्तदिति प्रथमान्तादस्येति पष्ठ्यर्थे डिन् प्रत्ययो भवति । पञ्चदशाहोरात्राः परिमाणमस्य पञ्चदशी अर्धमासः । पञ्चदशिनौ, पञ्चदशिनः । एवं त्रिंशी निशिनौ त्रिशिनो मासाः । त्रयस्त्रिंशिनो देवविशेषाः । विशिनो भवनेन्द्राः ॥ १४७ ॥ इदंकिमोऽतुरिय किय् चास्य ॥७।१।१४८ ॥ तदस्य मानादिति वर्तते । तदिति प्रथमान्तादिदंशब्दात किंशब्दाच मानवृत्तेरस्येति षष्ठ्यर्थे मेयेऽतुः प्रत्ययो भवति तत्संनियोगेच इदकिम्शब्दयोरिय किय इत्येतावादेशौ भवतः । चतुर्विधं मानं, तत्र प्रमाणात, इदं मानमस्य इयान पटः। कि मानमस्य कियान् पटः। परिमाणात, इयद्धान्यम् । कियद्धान्यम् । उन्मानात, इयत्सुवर्णम् । कियत्सुवर्णम् । संख्यायाः, इयन्तो गुणिनः । कियन्तो गुणिनः । इयती । कियती । उदित्करणं -दीपत्वाद्यर्थम् ।। १४८॥ यत्तदेतदो डावादिः ॥७।१।१४९ ॥ यत्तदेतदित्येतेभ्यस्तादिति प्रथमान्तेभ्यो मानवृत्तिभ्योऽस्येति षष्ठ्यर्थे मेयेऽतुः प्रत्ययो भवति स च डावादिः। यत्तदेतद्वा प्रमाणमस्य यावान् पटः । तावान् । एतावान् । यावत् तावत् एतावत् धान्यम् । यावत् तावत् एतावत् सुवर्णम् । यावन्ति तावन्ति एतावन्ति अधिकरणानि । यावती ताप्ती एतावती । ननु मात्रडादयोऽपि दृश्यन्ते इदं प्रमाणमस्य इदंमात्रं किमात्रम् यन्मात्रम् तन्मात्रम् एतन्मात्रम् यद्दघ्नम् यवयसमित्यादि । सत्यम् । स्वविपये मानविशेषे प्रमाणे मात्रटादयो भवन्त्येव मानसामान्येऽतुरेवेति विभागः ॥ १४९ ॥ श्यत्तत्किमा संख्याया डतिर्वा ॥७।१।१५०॥ संख्यारूपं यन्मानं तद्वृत्तिभ्यो यत्तस्किम् इत्येतेभ्यः प्रथमान्तेभ्योऽस्येति पष्ठ्यर्थे संख्येये मेये इतिः प्रत्ययो भवति वा । पक्षे यथाविहितोऽतुश्च । या संख्या मानमेषां यति । यावन्तः । सा संख्या मानमेषां तति तावन्तः । का संख्या मानमेषां कति कियन्तः । एतौ चातुडति प्रत्ययौ स्वभावादहुवचनविषयावेव भवतः । रनाश्रयणादिति मापदादेर्लप् ॥-मात्रट् ॥ वैश्वदेवमात्रेति । विश्वे देवा देवता अस्याण् वैश्वदेवो मात्र मात्राऽवास्या ॥-डिन् ॥-योगविभागादिति । अन्यथा शनशद्विशतेर्डिन्वेत्येक एव योगः क्रियेत॥ इदकिमो -दीर्घत्यापर्थमिति। आदिशब्दात् 'अबुदित' इति भागम. 'मधातृरदितः इति शीव गमते ॥ यसदे-॥-नन्विति।मानवाधिनोऽतायुष्यमाने कध मात्रदादय इत्याशका ।-यत्त- एतौ चेति।
यावत् तावत् एतावस्य इदंमात्र किमात्रमा १९ ॥ यत्तत्किमा सा,