________________
त्यस्खाश्रयणात्पश्चाज्जरसादेश चेच्छन्तोऽतिजरसिनेसपि मन्यन्ते ॥ ५ ॥ *डेडस्योर्यातौ । १।४।६॥ अकारात्परयो.डसि इत्येतयोर्यथासंख्यं य आत् इसेअतावादेशौ भवतः । वृक्षाय । वृक्षात् । अतिजराय । अतिजरात् । अत इत्येव । अतिजरसे अतिजरसः ॥ केचित्तु प्रागेवादादेशे जरसादेशमिच्छन्तोऽतिजरसादित्य
पि मन्यन्ते ॥६॥ *सर्वादेः स्मस्मातौ ।१।४।७॥ सर्वादेरकारान्तस्य संबन्धिनोर्डेडस्योर्यथासंख्यं स्मै स्मादित्येतावादेशौ भवतः। सर्वस्मै । परमसर्वस्मै । | सर्वस्मात् । परमसर्वस्मात् । असर्वस्मै । असर्वस्मात् । किसर्वस्मै । किंसर्वस्मात् ॥ एवं विश्वस्मै । विश्वस्मात् । उभशब्दस्य द्विवचन *स्वार्थिकप्रत्ययविषयलात्स्मैप्रभृ- Mars * तयो न भवन्ति । गणपाठस्तु हेलप्रयोगे सर्वविभक्यर्थः । उभौ हेतू १ । उभौ हेतू २। उभाभ्यां हेतुभ्याम् ३। उभाभ्या हेतुभ्याम् ४ । उभाभ्या हेतुभ्याम् ५। * उभयोर्हेत्वोः ६ । उभयोहेत्वो' ७ इति । उभयस्मै । उभयस्मात् । अन्यस्मै । अन्यस्मात् । अन्यतरस्मै। अन्यतरस्मात् । डतरग्रहणेनैव सिद्धेऽन्यतरग्रहणं डतममत्यया- हा
न्तस्यान्यशब्दस्य सर्वादित्वनिवृत्त्यर्थम् । अन्यतमाय । अन्यतमं वस्त्रम् । अन्यतमे ॥ एके वाहुः- 'नायं डतरप्रत्ययान्तोऽन्यतरशब्दः, किंतु अव्युत्पन्नस्तरोत्तरपदस्तरवन्तो वा' तन्मते डतमान्तस्याप्यन्यशब्दस्य सर्वादिखम । अन्यतमस्मिन् । इतरस्मै । इतरस्मात् । डतरडतमौ प्रत्ययौ । तयोः स्वार्थिकलात्मकृतिद्वारेणैव सिद्धे पृथगुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थमन्यादिलक्षणदार्य च । कतरस्मै । कतमस्मै । यतरस्मै। यतमस्मै । ततरस्मै । ततमस्मै । एकतरस्मै । एकतमस्मै । इह न भवति । सर्वतमाय । सर्वतमात् । त्वशब्दोऽन्यार्थः । त्वस्मै । त्वस्मात् । त्वच्छब्दः समुच्चयपर्यायः । तस्य स्मायादयो न संभवन्तीति हेत्वर्थयोगे सर्वविभक्तित्वमझत्ययश्च प्रयोजनम् । त्वतं हेतुम् । त्वता हेतुना वसति । अज्ञातात्वतस्त्वकतः। नेमशब्दोऽर्धार्थः । नेमस्मै। नेमस्मात् । समसिमौ सयौँ । समस्मै । समस्मात् । सिमस्मै । सिमस्मात् । सर्वार्थत्वाभावे न भवति । समाय देशाय । समादेशाद्धावति । *स्वाभिधेयापेक्षे चावधिनियमे व्यवस्थापरपर्याये
भौसीत्यत्र टावचनप्रक्षेपात् । अत्र जयादित्य । यथा तु भाष्य तथा नैतलक्ष्यते ॥-डेडस्यो-॥ नन्वत्र अत् इत्येवं क्रियताम् कि दीर्घकरणेन । नचव कृते 'लुगस्या'-इति प्राप्स्यतीति तदा * हि त् इत्येव कुर्यात् । सत्यम् । मतान्तरेऽतिजरसादित्यपि मन्यते तत्सिद्ध्यर्थ दीर्घकरणम् । दीर्घकरणाच स्वमतेऽपि समतमिति योध्यम्॥ सर्वादे-1-परमसर्वस्मायिति। स्याद्याक्षितस्य नाम्न सर्वाॐ दिविशेषणात् विशेषणेन च तदन्तविधेर्भावात् न सर्वादिरिति इन्दुनिषेधादा प्रहणवता नाना न तदन्तविधिरित्यस्यानुपस्थानात् तदन्त परमसर्वस्मायित्युदाहृतम् । केवलस्य व्यपदेशिवद्भावात् तदन्तत्व
दृश्यम् ॥-विश्वस्मायिति । सर्वशब्दसाहचर्याद्विश्वशब्दस्यापि समस्तार्थस्यैव ग्रहण न तु जगदर्थस्य ॥-स्वार्थिकप्रत्ययेति । इत्यवदतोऽयमाशय । स्वार्थिकप्रत्ययोऽपि गणपाठफलमिति । सिमो* वाद्यर्थोऽपि ॥-अधराणीति । शब्दरुपापेक्षया नपुसकनिर्देशो नार्धापेक्षया । तेन सीपुनपुसकेषु सर्वेष्वप्यर्थेषु सर्वादित्वम् इति ॥-स्वाभिधेयेति । पूर्वादीना शब्दानां स्वाभियो दिगुदेशकालस्व
भावोऽय । तमपेक्षते य स स्वाभिधेयापेक्ष । चोऽवधारणे । दिगादीना बर्थाना पूर्वादिशब्दाभिधेयाना यत् पूर्वादित्व तत् नियमेन क चिवधिमपेक्ष्य सपद्यते न त्ववधिनिरपेक्षम् । तथा हि-पूर्वस्व | देशस्य यत्पूर्वत्व तत्पर देशमवधिमपेक्ष्य भवति । परस्यापि यत्परत्व तत् पूर्वदेशमपेक्ष्य भवति । तस्मात् पूर्वादिशब्दवाच्यापेक्षणेऽवश्य केनचिदवधिना भाव्यम् । तत्र तस्येवावधेर्य पूर्वादिशब्दाभिधेयापे