________________
मन्त्रं भिनत्तीत्यत्र परम्पराशन्द आवन्तो बाहुल्यार्थः प्रकृत्यन्तरम् ॥ पुत्रपौत्रीणेति पुत्रपौत्रशब्दात् द्वितीयान्तादनुभवयर्थे ईनः । पुत्राश्च पौत्रांवानुभवति पुत्रपौत्रीणः | | ॥ ९९ ॥ यथाकामानुकामात्यन्तं गामिनि ॥ ७ । १ । १००॥ यथाकामानुकाम असन्त इत्येतेभ्यो निर्देशादेव द्वितीयान्तेभ्यो गामिन्यर्थे इनः प्रत्ययो भवति । यथाकाम गामी यथाकामीनः, अनुकामीनः । यथेच्छं गामीत्यर्थः । अत्यन्त गामी अत्यन्तीनः । भृशं गन्तेत्यर्थः ॥ १० ॥ पारावारं व्यस्तव्यत्यस्तं च ॥ ७ ॥ १।१०१॥ पारावारशब्दात्समस्ताब्यस्ताद्यत्यस्ताच निर्देशादेव द्वितीयान्ताद्गामिन्यर्थे ईनः प्रसयो भवति । पारावारं गामी पारावारीणः । पारीणः । अवारीणः । अवारपारीणः ॥ १०१॥ अनुग्वलम् ॥७।१।१०२॥ अनुगुशब्दाद्वितीयान्तादलंगामिनि ईनः प्रत्ययो भवति । अलं पर्याप्तपित्यर्थः
गवां पश्चादनुगु तदलं गामी अनुगवीनो गोपालकः ॥ १०२॥ अध्वानं येनौ ॥ ७ । १। १०३॥ अलं गामिनीति वर्तते । अध्वन्शब्दानिर्देशादेव द्वितीयान्तादलंगामिनि य इन इत्येतो मत्पयौ भवतः । अध्वानमलं गामी अध्वन्यः अध्वनीनः ॥ १०३ ॥ अभ्यमित्रमीयश्च ॥ ७॥१। १०४ ॥ अभ्यमित्रशब्दानिर्देशादेव द्वितीयान्तादलंगामिनि ईयः प्रत्ययो भवति चकाराधेनौ च । अभ्यमित्रमलंगामी अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः । अमित्राभिमुखं भृशं गन्तेत्यर्थः ॥ १०४ ॥ समांसमीनायश्वीनाद्यपातीनागवीनसाप्तपदीनम् ॥ ७।१।१०५ ।। समांसमीनादयः शन्दा ईनमत्ययान्ता निपात्यन्ते । | साप्तपदीनस्त्वीनश्प्रत्ययान्तः। समांममीनेति समांसमामिति वीप्लाद्वितीयान्तात्समुदायाद्र्भ धारयत्यये इनः पूर्वपदविभक्तेश्चालुप् । समां समां गर्भ धारयति समासमीना गौः । समामिति 'कालावनोाप्तौ । (२-२-४२) इति द्वितीया । अन्ये समायां समायां विजायते गर्भ विमुञ्चति समांसमीनेति पूर्वपदस्य यलोपमाहुः । व्यात्यभावाचाधिकरणे सप्तमी । अधचीनेति अद्यश्वःशब्दयोर्वाय समासः विजनिष्यमाणेऽर्थे विजननस्य प्रत्यासत्तौ गम्यमानायामीनः । अद्य श्वो वा विजनिष्यमाणा अयश्चीना गौः । एवं नाम प्रत्यासनप्रसवेत्यर्थः । अन्ये तु प्रत्यासत्तौ गम्यमानायां भविष्यत्यर्थे प्रत्ययमाहुः। अध श्वो वा भविष्यति अबधीनो लाभः । अद्यश्चीनं मरणम् । एवमधपातःशब्दादीनः । अघमातीना गौः । अघमातीनो लाभः । अद्यमातीनं मरणम् । आगवीनेति आगोपातेदानशब्दात्कारिण्यर्थे ईनः प्रतिदानशब्दस्य च लुक । आगोपतिदान कारी आगवीनः कर्मकरः । गा भूतो य आ तस्या गोः प्रत्यर्पणाकर्म 1 करोति स आगवीनः । सदिशब्दोऽयम् । यत्किंचिदादाया तस्य प्रतिदानात्कर्मकर एवमुच्यते इत्येके । अन्ये तु आ गौः प्राप्तेः कर्म कारी आगवीन इत्याहुः । | साप्तपदीनेति सप्तपदशब्दात्तृतीयान्तात्तदवाप्येऽर्थे ईनज् यत्तदवाप्यं तच्चेत्सख्यं सखा वा भवति । सप्तभिः पदैरवाप्यम् साप्तपदीनं सख्यम् । साप्तपदीनः सखा । साप्तपदीनं मित्रम् ॥ १०५ ॥ अषडक्षाशितंग्वलंकालंपुरुषादीनः ॥ ७॥ १।१०६ ॥ अषडक्ष आशिर्तगु अलंकर्मन् अलंपुरुष इत्येतेभ्यः स्वार्थे ईनः प्रत्ययो भवति । अविद्यमानानि पडक्षीण्यस्मिन् अपडक्षीणो यत्रः। 'सक्थ्यक्ष्णः स्वाके' (७-३-१२६) इति टान्तादीनः । अषडक्षीणा क्रीडा । द्वाभ्यां साध्यत -सना-॥-द्वितीयेति । मनु समायाः कथ म्याप्तिरेकादशे एव गर्भग्रहणात् । सत्यम् । भवयवे समुदायोपचारात् ॥-पवमिति । पूर्वोकनीत्या विजनिष्पमाणे भविष्यति चार्थे इत्यर्थः ॥