________________
प्रत्ययो भवति । ईनोऽपवादः । यवाना क्षेत्रं यव्यं. यवक्य, पष्टिक्यम् । पष्टिरात्रेण पच्यमाना वीहयः पष्टिकाः । अत एव निपातना सिद्धिः ॥ ८॥ वाणुमाषात् ॥ ७।११८२॥ अणुमाप इत्येताभ्यां षष्यन्ताभ्यां क्षेत्रेऽर्थे यः प्रत्यपो भवति वा । पक्षे ईनन् । अणूनां क्षेत्रमणव्यम् । आणवीनम् । माष्यम् । मापीणम् ॥ ८२ ॥ वोमाभङ्गातिलात् ॥ ७।१ । ८३ ॥ उमाभङ्गातिल इत्येतेभ्यः पठ्यन्तेभ्यःक्षेत्रेऽर्थे यः प्रत्ययो वा भवति । पक्षे ईनन् ॥ उमाभले अपि धान्येएवेष्यते। उमानां क्षेत्रम् उम्यम् औमीनम् । भल्यम्। भाजीनम् । तिल्यम् । तैलीनम् । योगविभाग उतरार्थः॥८३ ॥ अलाव्वाश्च कटो रजसि॥७१।८४॥ अलावूशब्दाचकारादुमाभङ्गातिलेभ्यश्च षष्ठ्यन्तेभ्यो रजस्यथै कटः प्रत्ययो भवाते । अलावूनां रजः अलावूकटम् । उमाकटम् । भङ्गाकटम् । तिलकटम् ॥ ८४ ॥ अही गम्येऽश्वादीनन् ॥ ७॥११८५ ॥ तस्येति षष्ठ्यन्तादनशब्दादेकेनाहा गम्येऽर्थे ईनन् प्रत्ययो भवति । अश्वस्यैकेनाहा गम्यः आश्वीनोऽध्वा । अद्वेति किम् । अवस्य मासेन गम्यः ॥ ८५॥ कुलाजल्पे॥७।१।८६ ॥ तस्येति पप्ठ्यन्तात्कुलशब्दाजल्पेऽथै ईनञ् प्रत्ययो भवति । कुलस्य जल्पः कोलीनम् ॥८६॥ पील्वादेः कुणः पाके ॥ ७ ॥११८७॥ पीलु इत्यादिभ्यः षष्ठ्यन्तेभ्यः पाकेऽर्थे कुणः प्रत्ययो भवति । पीलूनां पाकः पीलुकुणः । ककन्धुकुणः । पीलु ककेन्धु शमी करीर वदर कुवल अश्वत्थ खदिर । इति पील्वादिः ॥ ८७ ॥ कर्णादे ले जाहः ॥ ७॥ १।८८ ॥ कर्णादिभ्यः षष्ठ्यन्तेभ्यो मूलेऽर्थे जाहः प्रत्ययो भवति । कर्णस्य मूल कर्णजाहम् । अक्षिजाहम् । कर्ण अक्षि आस्य वक्त्र नख मुख केश दन्त ओष्ठ भू शृङ्ग पाद गुल्फ पुष्प फल । इति कर्णादिः ॥ ८८ ॥ *पक्षात्तिः॥७॥१॥ ८२ ॥ पक्षशब्दात्पष्ञ्यन्तान्मलेऽर्थे तिः प्रत्ययो भवति । पक्षस्य मूलं पक्षतिः॥८९॥ हिमादेल: सहे ।। ७।१।९०॥ हिमशब्दा| षष्ठ्यन्तोत्सहे सहमानार्थे एलुः प्रत्ययो भवति । हिमस्य सहः हिमं सहमानः हिमेलुः ॥९॥ बलवातादूलः ॥७॥१।९१ ॥ वलवात इत्येताभ्यां षष्ठ्य|न्ताभ्यां सहेऽर्थे ऊलः प्रत्ययो भवति । बलस्य सहा वलं सहमानः बलूलः । श्वातूलः ॥ ९१ ॥ शीतोष्णतृप्रादालुरसहे ॥७॥११९२ ॥ शीत उष्ण तृप | इयेतेभ्यः षष्ठ्यन्तेभ्योऽसहेऽसहमानेथे आलुः प्रत्ययो भवति । शीतस्यासहः शीतमसहमानः शीतालुः । उष्णालुः । तृमालुः । तृमम् दुःखम् ॥९२ ॥ भ्यथामु| खसंमुखादीनस्तदृश्यतेऽस्मिन् ॥७।१।९३॥ यथामुखसंमुख इत्येताभ्यां तदितिप्रथमान्ताभ्यामस्मिन्निति सप्तम्यर्थे ईनः प्रत्ययो भवति यत्तत्पथमान्तं दृश्यते चतद्भवति। यथामुखं दृश्यतेऽस्मिन् यथामुखीनः आदर्शादिः। मुखस्य सदृशोऽर्थो यथामुखं प्रतिबिम्ब उच्यते । अत एवं निपातनाद्यथाथा (३-१-४१)इति प्रतिषधेऽप्यव्ययीभावः । समं मुखं संमुखम् समं मुखमस्यानेनेति वा संमुखं प्रतिविम्वमेव । अत एव निपातनात्समशब्दस्य अन्तलोपः। संमुखं दृश्यतेऽस्मिन्निति संमुखीनः । यथामुखीनः सीताया इति । संमुखीनो हि जयो रन्ध्रमहारिणामिति च उपमानात् ॥ १३ ॥ सर्वादेः पथ्यकर्मपत्रपात्रशरावं व्याप्नोति ॥७।१।९४ ॥ वचनस्य च स्वप्रत्ययः समान. तेन जातिवचनस्य तलपि भवतीत्यर्थ । उपलक्षण चेद तेन ग्राणो भाव. कर्म वा प्राणिजात्यनि बाममित्यपि ॥-पक्षा-॥-पक्षतिरिति । मूलेप्यभिधेये शब्दशक्तिस्वाभाव्यात् स्त्रीलिङ्गः ॥-वल-॥-वातूल इति । घातसहः । वातासहोऽध्येतदर्थ एवेति शब्दभेद. ॥-यथा-॥-अन्तलोप इति । ननु सम्शब्द एव वृत्तिविषये समशब्दस्यायें
COMVOVoie