________________
भीमेश
५
॥
डित्यत्वं इवित्थत्यम् । एवं गोजाते वो गोत्वम् गोतीत गोशब्दस्य स्वरूपम् । शुक्लजावांवः शुक्लत्वं शुक्लतेति शुक्लशब्दस्य स्वरूपम् । गवादयो हि यदा जातिमात्रवाचिनस्तदा तेषां शब्दस्वरूपमेव प्रवृत्तिनिमित्तम् । तथागर्थजातौ शब्दार्थयोरभेदेन शब्दस्वरूपमध्यवस्यते यो गोशब्दः स एवार्थ इति । एवं देवदत्तत्वं चन्द्रत्वं । सूर्यत्वं दिक्तम् आकाशत्वम् अभावत्वमिति स्वरूपमेवोच्यते । एके तु यदृच्छाशब्देषु शब्दस्वरूपं संज्ञासंज्ञिसंबन्धो वा प्रवृत्तिनिमित्तमिति मन्यन्ते । अन्ये तु डित्यत्वं देवदत्तत्वमिति वयोऽवस्थाभेदभिन्नव्यक्तिसमवेतं सामान्यम्, चन्द्रत्वं सूर्यत्वमिति कालावस्थाभेदभिन्नव्यक्तिसमवेतं सामान्य, दिक्त्वम् आकाशत्वम् अभावत्वम् इति उपचरितभेदष्यक्तिसमवेतं सामान्य प्रसयार्थ इति वदन्तोऽत्रापि जातिमेव त्वतलादिमत्ययप्रवृत्तिनिमित्तमभिदधति ॥ ननु च समासकृत्तद्धितेभ्योऽपि भावप्रययेन जातिरेवाभिधीयते गौरखरत्वं लोहितशालित्वं सप्तपर्णवं धवखदिरत्वमिति, कुम्भकारत्वं तन्तुवायत्वं स्तम्बेरमत्वं पङ्कजत्वमिति, हस्तित्वं मानुपत्वं | क्षत्रियत्वं राजन्यत्वमिति । उन्यते । समासकृत्तद्धितेप संबन्धाभिधानमन्यत्र रूट्यभिन्नरूपान्यभिचरितसंवन्धेभ्यः । तत्र रूढयो गौरखरादय उदाहृता एव ।
अभिन्नरूपास्तु तद्धितान्ता एव लुवादिभिः संभवन्ति गर्गत्वं पश्चालत्यमिति । अत्र गर्गादयः शब्दा यबोलुपि यद्यपि तद्धितान्तास्तथापि मूलप्रकृया सह-सहविवक्षायामभिन्नरूपत्वात् प्रत्ययोत्पत्तिहेतुः संबन्धो न्यग्भूत इति अभिन्नशब्दाभिषेयतैव भावप्रययात्मतीयते न संबन्धः । अथ पञ्चालशब्दात युगपदपत्यजनपदा| भिधायिनो भावमययेन किमभिधीयते । प्रवृत्तिनिमितसंघातः यथा धवखदिरत्वमिति जातिसंहतिः । एतेन अक्षत्वं पादत्वं मापत्वमित्यादीन्यपि व्याख्यातानि ।। | तबलात् । अमेष प्रस्ताघे गोजातेभीवो गोत्ये गोरोति गोशब्दस्य स्वरूपमित्युक्तम् । ततश्च गोशब्दस्य स्वरूप कोऽर्थो गोजाते स्वरूपमिति हि किलानार्थ । ननु गोशब्दस्य स्वरूपमित्युक्त
गोजाते स्वरूपमिति कध लभ्यत इत्याह-शब्दार्थयोरभेदेन । जातिलक्षणोऽयस्ततो जातिलक्षणेनार्थेन गोशब्दस्याभेद: य एष गोवन्द स एव जातिलक्षणोऽर्थ इति । अत एव पाब्दस्वरूप प्रवृत्तिनिमित्त कोऽर्थो गोशब्दस्य स्वरूपं जातिस्तदेव प्रवृत्तिनिमित्तम् ॥-अवस्थाभेदभिन्नव्यक्तिसमवेतमिति । नित्यमेकमनेकवृत्ति सामान्यमित्यनेकवृत्तित्वज्ञापनायाह-वयो बाल्ययौवनवाघेकलक्षणमिति । मान्ाकार्यलम्बकर्णादयो भेदा अवस्थाः । एवमुत्रेषु भावना कार्या ॥-उपचरितभेदव्यक्तिसमवेतमिति । आकाशदिशोरेकत्वादुपचार आश्रीयते ॥-अत्र गर्गादय इति । आदिशब्दादुपचारो गृशते । यदा गर्गशब्देन गर्ग उपचारात्तदपत्यानि वा अभिधीयन्ते तदापि भावप्रत्ययान्तस्य जातिरेव प्रवृत्तिनिमित्तम् । ननु उपचारे आश्रिते समासकृत्तचिताच सबन्ध इति लक्षणस्य प्रवृतिरेप नास्ति तकथमादिशब्देनोपचारो गयते । यतस्तद्धितप्रत्ययान्तोऽपि तदा गर्गशब्दो नास्ति । उच्यते । तद्वितप्रत्ययान्तत्व योग्यतया व्याख्यातव्य ततो योग्यतयाऽवाप्यस्ति ॥-सहविवक्षायामिति । युगपद्विवक्षायामित्यर्थ । सा च कथमित्युच्यते । गर्गशब्देनापि सोऽप्यभिधीयते गर्गस्यापत्यानि गर्गाश्चेत्यनगा विक्षया । स एवेति कृत्वाऽभिन्न स्वरूपत्वम् ॥युगपदपत्यजनपदाभिधायिन इति । युगपदभिधायित्व च कथमित्युच्यते पञ्चालस्यापत्यानि पञ्चाला द्वितीयपञ्चालशब्दस्तु प्रत्ययरहितो जनपदवाची ततः पञ्चालाच पक्षालावेत्येकशेषे कृते युगपदभिधान भवति ॥-प्रवृत्तिनिमित्तसंघात इति । अपत्यजनपदरूप ॥-अक्षत्वमिति । अक्षशब्देनेन्द्रियपाशयिभीतकादीन्युच्यन्ते । पादशब्देन चरणकिरणश्लोकचतुर्थाशप्रत्यन्तपर्वता. । मापदान्देन धान्यपियोपदशागुअदक्षविशेषा उच्यन्ते । तत एकशेषे स्वप्रत्ययः । ननु यया धवखदिरस्वमिति दृष्टान्त उक्तस्ततश्चान जातिसहतिर्वाच्या कथ भवति । यतः समासकृत्तद्धितातु सपन्ध ।