________________
स शुक्लवर
स्त्वारम्भः ॥५३॥ तस्य ।।७।१।५४ ॥ तस्येति षष्ठ्यन्तादिवाथें वत्सखयो भवति । चैत्रस्येव मैत्रस्य गावश्चैत्रवत् । ब्राह्मणस्येव क्षत्रियस दन्ताः ब्राह्मणवत् । अक्रियाविषयसादृश्यार्थ आरम्भः । योगविभाग उत्तरार्थः ॥ ५४ ॥ भावे त्वतल ॥७।१ । ५५ ॥ तस्येति षष्ठयन्ताद्भावेऽभिधेये त्व तल इत्येतौ प्रत्ययौ भवतः । भवतोऽस्मात् अभिधानप्रत्ययौ इति भावः शब्दस्य प्रवृत्तिनिमित्तम् द्रव्यसंसर्गी भेदको गुणः । यदाहुः यस्य गुणस्य हि भावात् | द्रव्ये शन्दनिवेशस्तदभिधाने त्वतलाविति । तत्र 'जातिगुणाज्जातिगुणे, समासकृतदितात्तु संवन्धे ॥ डित्थादेः से रूपे, सतलादीनां विधिभवति ॥१॥ तत्र जातिवचनेभ्यो जाती, गोः शब्दस्य भावो गोत्वम् गोता । अत्र गोशब्दजातिर्भावः । गोरर्थस्य भावो गोत्वम् गोता । अत्र गार्थजातिर्भावः । एवमश्चत्वमश्चता । शुक्लस्य गुणस्य भावः शुक्लत्वं शुक्लतेसत्र शुक्लगुणजातिः । रूपस्य भावो रूपत्वम् रूपता | रसस्य रसत्वम् । रसता । अत्र रूपादिगुणजातिः । कत्वं सत्वमिति भिन्नवर्णव्यक्तिसमवेता जातिः । कवर्गत्वं चवर्गत्वमिति ककारादिवर्गव्यक्तिसमवेता जातिः संहतिः । गुणशब्देभ्यो गुणे, शुक्लस्य पटस्य धावः शुक्लत्वम् शुक्लता । अत्र शुक्लो गुणो भावः । एवं शुक्लतरत्वं शुक्लतमत्वमिति स एव प्रकृष्टः । अणुत्वं महत्त्वमिति परिमाणलक्षणो गुणः । एकत्वं द्वित्वमिति संख्यालक्षणः । पृथक्त्वं नानात्वमिति भेदलक्षणः । उच्चस्त्वं नीचस्त्वमिति उच्छ्यादिलक्षणः । वृत्तौ पृथगादिशब्दाः पृथग्भूताद्यर्थे सत्वे वर्तन्ते इति प्रलयः विग्रहस्तु पृथग्भूतस्य भाव इत्यादि । पवादयोऽपि गुणा एवेति पटुत्यं मृदुत्वं तीक्ष्णत्पमित्यादिष्वपि गुणो भावः । समासात्संबन्धे, राजपुरुषत्वं चित्रगुत्वम् । अत्र स्वस्वामिसंबन्धः । कृतः संवन्धे, पाचकत्वं पत्तृत्वं कार्यत्वं साधनत्पम् । अत्र क्रियाकारकसंबन्धः । तद्धितात्संबन्धे, औपगवत्वम् दण्डित्वं विषाणित्वम् । अत्रोपगुदण्डादिसंवन्धः। *डित्यादेः स्वरूपे, डियादेस्तु यदच्छाशब्दादन्यस्य प्रचिनिमित्तस्यासंभवात्तसिन्नेव स्वरूपे डित्यशब्दवाच्यतया अध्यवसितभेदे ऽव्यतिरिक्तेऽपि व्यतिरिक्त इव *शब्दमत्ययवलात् बुद्ध्यावगृहीते धर्मे प्रत्ययः । डित्यस्य भावः स्वरूपं यथा स्यादित्येवमर्थम् । न च सप्तमीविषये पष्ठया नियमेन समावेश । यथा नभसीवोदके शशीति ॥-भावे-॥-अभिधानप्रत्ययाविति । यद्यपि पूर्व ज्ञान पश्चाच्छन्द इति क्रमस्तथापि स्वरायदन्तस्वात् अभिधानस्य लष्वक्षर'-इति पूर्वनिपात एवमाह ॥-पृथग्भूताद्यर्थ इति । ननु पृथगादिशब्दानामव्ययानामसत्यवाचित्वात् कथमत्र भावप्रत्ययो नसत्वादसत्वे प्रत्ययो भावो यस | स्वरूप इति आशका ॥-डित्थादेः स्वरूपे इति । ढित्यादेस्तस्मिन्नेव स्वरूपे धमें प्रत्ययो भवति । कथभूतात् डित्थादेयंदच्छाशब्दावत एवान्यस्य प्रवृत्तिनिमित्तस्यासभवात् । ननु यदि | स्वरूप एवं प्रत्ययो भवति तहि ढिस्थस्य भाव इति वाक्ये भावशब्दोपादान न प्रामोति यतो डित्वशब्देनापि स्वरूपमभिधीयते भावशब्देनापि तदेवोरयते तस्कथ भावशन्दोपादानमित्याहअध्यवसितभेदे ॥ कोऽयोऽध्यवसित आरोपितो भेदो यस्य स्वरूपस्य तदध्यवसितभेद तत्र कया डित्थशब्दवाच्यतया डिव्यशब्देन वाच्यत्वेन कोऽर्थों डित्थशब्दस्य पदेव स्वरूप प्रवृत्तिनिमित्त तदेवाश्रित्य दित्यशब्द प्रवृत्त इत्यर्थ । ततो डित्थशब्दवाच्यतया कृत्वा अध्यवसितभेदे आरोपितभेदे । कोऽयं स्वरूपमेव विशेष्य विशेषण चात्र यतो भावो वर्तते इति विशेषण कस्य दित्यस्य। | इद च विशेष्यम् । नाहि डिस्यशददायतिरिक्त किचिद्भावशब्देनाभिधीयते अपि तर्हि तदेव परमध्यवसितभेदात्तदेव विशेष्य विशेषण च भवति । किंविशिष्टेऽध्यवसितभेदेऽव्यतिरिक्तेऽपि व्यतिरिक्त इव । इव यथा शिष्ापुत्रकस्य शरीरमित्पत्राव्यतिरिकेऽपि यस्खनि व्यतिरिक्त प्रत्ययो जायते तथात्रापि । पर कस्मादिस्याइ-शब्दप्रत्ययबलात् ॥ बुद्ध्यावगृहीते शब्देन कृत्वा प्रत्ययो ज्ञान
रतस्य भावनात्वमिति
w
alaNARom